महादेव उवाच
विश्वास-प्रस्तुतिः
दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम्
रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि ॥ १ ॥
मूलम्
दुग्धेश्वरसमीपे तु तीर्थं चातीवपावनम्
रम्यं तत्पिप्पलादस्य नाम्ना वै प्रथितं भुवि ॥ १ ॥
विश्वास-प्रस्तुतिः
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः
उत्पादयामास कृत्यां वडवानलसम्मिताम् ॥ २ ॥
मूलम्
यत्र कृत्वा तपः पूर्वं मातुर्वचनतो मुनिः
उत्पादयामास कृत्यां वडवानलसम्मिताम् ॥ २ ॥
विश्वास-प्रस्तुतिः
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः
तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ॥ ३ ॥
मूलम्
पितुरानृण्यमन्विच्छन्दधीचस्य महात्मनः
तत्र स्नात्वा च पीत्वा च ब्रह्महत्यां व्यपोहति ॥ ३ ॥
विश्वास-प्रस्तुतिः
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम्
तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः ॥ ४ ॥
मूलम्
साभ्रमत्यास्तटे गुप्तं पिप्पलादं सुरेश्वरम्
तत्र स्नात्वा तु भो देवि मुक्तिभागी भवेन्नरः ॥ ४ ॥
विश्वास-प्रस्तुतिः
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम्
कृते सति महादेवि मुच्यते कर्मबन्धनात् ॥ ५ ॥
मूलम्
आरोपणं पिप्पलानां कर्त्तव्यं विधिपूर्वकम्
कृते सति महादेवि मुच्यते कर्मबन्धनात् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पार्वत्युउवाच
किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय
तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो ॥ ६ ॥
मूलम्
पार्वत्युउवाच
किमर्थं सा तु कृत्या वै उत्पन्ना तां निबोधय
तया वै कृत्यया पूर्वं किं कृतं वद मे प्रभो ॥ ६ ॥
विश्वास-प्रस्तुतिः
येन पुत्रेण सा नीता पितुरानृण्यकारणात् ॥ ७ ॥
मूलम्
येन पुत्रेण सा नीता पितुरानृण्यकारणात् ॥ ७ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात्
अत्र तेन महत्तप्तमृषिणा परमात्मना ॥ ८ ॥
मूलम्
महादेव उवाच
दाधीचो ऋषिवर्योऽसौ ह्यागतस्तपकारणात्
अत्र तेन महत्तप्तमृषिणा परमात्मना ॥ ८ ॥
विश्वास-प्रस्तुतिः
तत्र कोलासुरो नाम विघ्नार्थं वै समागतः
तेन विघ्नं बहुतरं कृतं वै नात्र संशयः ॥ ९ ॥
मूलम्
तत्र कोलासुरो नाम विघ्नार्थं वै समागतः
तेन विघ्नं बहुतरं कृतं वै नात्र संशयः ॥ ९ ॥
विश्वास-प्रस्तुतिः
तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता
कृत्या ह्युत्पादिता तत्र हननार्थं सुरेश्वरि ॥ १० ॥
मूलम्
तद्दृष्टं तु सुपुत्रेण कहोडेन च धीमता
कृत्या ह्युत्पादिता तत्र हननार्थं सुरेश्वरि ॥ १० ॥
तया वै निहतो दैत्यः कोलो नाम महासुरः
तस्मात्तीर्थं महज्जातं कलौ गुप्तं तु पार्वति ११