महादेव उवाच
विश्वास-प्रस्तुतिः
दुग्धेश्वरस्य पूर्वे तु तीर्थं परमपावनम्
चन्द्रभागेति वै नाम्ना नदी यत्र तु सङ्गता ॥ १ ॥
मूलम्

तत्र चन्द्रेश्वरो देवो नित्यं तिष्ठति पुण्यदः
यो हरः सर्वदा व्यापी लोकानां सुखदो महान् ॥ २ ॥

अत्र स्नानं प्रकुर्वन्ति ध्यानं कुर्वन्ति नित्यशः
तत्फलं प्राप्नुयुस्ते वै साभ्रमत्यां शिवार्चनात् ॥ ३ ॥

सोमेनात्र तपस्तप्तं कालं बहुतरं किल
तस्माच्चन्द्रेश्वरो नाम स्थापितो वै महेश्वरः ॥ ४ ॥

शुक्रेणापि तपस्तप्तं चन्द्रभागा समीपतः
अतस्तीर्थाधिकं तीर्थं पावनं सर्वदा भुवि ॥ ५ ॥

कलौ गुप्तं तु ऋषिणा कारितं वै सुरेश्वरि
यत्र हेममयं लिगं दृश्यते नात्र संशयः ॥ ६ ॥

अत्र स्नात्वा च पीत्वा च कृत्वा वै शिवपूजनम्
ये नराः सङ्गमिष्यन्ति धर्मानर्थांल्लभन्ति ते ॥ ७ ॥

वृषोत्सर्गादिकं कर्म ये कुर्वन्ति विशेषतः
भुक्त्वा स्वर्गपदं ते वै पश्चाद्यान्ति हरालयम् ॥ ८ ॥

स्नानार्थे प्रत्यहं देवि चन्द्रभागा समीपतः
आगमिष्यन्ति ये लोकास्ते ज्ञेयाः पुण्यभागिनः ॥ ९ ॥

गत्वा परतटे ये वै ह्यर्चयन्ति च तं शिवम्
चन्द्रेश्वरेति नामानं श्रीहरं पापकृन्तनम् ॥ १० ॥

अत्र गत्वा विशेषेण रुद्रजाप्यादिकं तथा
ये कुर्वन्ति नरश्रेष्ठास्ते ज्ञेयाः शिवरूपिणः ॥ ११ ॥

सर्वदा तु सुरश्रेष्ठ यत्र स्नानं प्रकुर्वते
ते नरा विष्णुरूपाणि विज्ञेया नात्र संशयः ॥ १२ ॥

येऽत्र श्राद्धं प्रकुर्वन्ति तिलपिण्डेन वा पुनः
तेऽपि विष्णुपदं यान्ति पिण्डदानप्रभावतः ॥ १३ ॥

अत्र दानं प्रकर्त्तव्यं स्नानं वै विधिपूर्वकम्
यत्र स्नात्वा तु मुच्यन्ते ब्रह्महत्यादिकिल्बिषात् ॥ १४ ॥

तटेस्मिन्ये विशेषेण वटं चारोपयन्ति ते
मृताः शिवपदं यान्ति यावच्चन्द्र दिवाकरौ १५