महादेव उवाच
विश्वास-प्रस्तुतिः
खड्गधारा द्दक्षिणतस्तीर्थं परमपावनम्
दुग्धेश्वरमिति प्रोक्तं सर्वपापप्रणाशनम् ॥ १ ॥
मूलम्

यस्मिंस्तीर्थे नरः स्नात्वा दृष्ट्वा दुग्धेश्वरं हरम्
पुमान्सद्यो विमुच्येत दुःखात्पापसमुद्भवात् ॥ २ ॥

दधीचिना तपस्तप्तं साभ्रमत्यास्तटे शुभे
चन्द्रभागा महत्पुण्यं गङ्गाया सङ्गता यतः ॥ ३ ॥

तत्र स्नानं च दानं जपः पूजा तपस्तथा
सर्वमक्षयतां याति दुग्धतीर्थप्रभावतः ॥ ४ ॥

पार्वत्युवाच
दुग्धेश्वरसमुत्पत्तिं श्रोतुमिच्छामि वै प्रभो
महिमा दुग्धतीर्थस्य कथ्यतां च सुरेश्वर ॥ ५ ॥

पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः
पलायनपरा भूत्वा दधीचाश्रममागताः ॥ ६ ॥

मुक्त्वा तत्रायुधान्येव गता देवा दिशो दश
पश्चात्कोलाहलं श्रुत्वा दधीचो दैत्यसम्भवम् ॥ ७ ॥

पीतवांस्तानि शस्त्राणि जलेनाप्लाय्य भार्गवः
कालेन ते सुराः सर्वे अस्त्राण्यादातुमुत्सुकाः ॥ ८ ॥

गुरुणा सहिताः सर्वे परस्परमुदान्विताः
नकुलैः सह सर्पाश्च क्रीडन्ते ते परस्परम् ॥ ९ ॥

एवंविधान्यनेकानि साश्चर्याणि तदाश्रमे
पश्यन्तो विबुधाः सर्वे विस्मयं परमं गताः ॥ १० ॥

ददृशुस्ते मुनिवरं आसनोपरिसंस्थितम्
यत्र साभ्रमती पुण्या मिलिता चन्द्रभागया ॥ ११ ॥

वर्चसा परमेणैव भ्राजमानं यथा रविम्
विभावसु द्वितीयं च सुवर्चा भार्यया सह ॥ १२ ॥

यथा ब्रह्माहि सावित्र्या तथाऽसौ मुनिसत्तमः
दृष्टः सुरवरैः सर्वैः प्रणिपातपुरःसरम् ॥ १३ ॥

ऊचिरे तं तदा देवा बृहस्पतिपुरोगमाः
त्वं दाता त्रिषु लोकेषु विदितः पूर्वमेव च ॥ १४ ॥

याच्ञार्थं च वयं सर्वे त्वत्सकाशं समागताः
भयभीता वयं सर्वेऽस्त्राणि नोदातु मर्हसि ॥ १५ ॥

इत्युक्तो मुनिवर्योऽसौ देवानाह महामतिः
पीतानि तानि भो देवा जलेनाप्लाव्य मन्त्रतः ॥ १६ ॥

ततो देवाब्रुवन्विप्रं दैत्यानां निधनाय च
देह्यस्थीनि त्वरा विप्र दत्तानीति द्विजोऽवदत् ॥ १७ ॥

इत्युक्त्वा तान्स्वपत्नीं स प्रेषयामास चाश्रमम्
तदोवाच द्विजो हृष्टो देवान्स्मित्वा महामतिः ॥ १८ ॥

पीतानि तानि भो देवा गृह्णीध्वं च यथातथम्
इत्युक्त्वा च द्विजो देवि योगमास्थाय योगवित् ॥ १९ ॥

ततोब्रुवन्सुरा विप्रं स्मयं तं छलया गिरा
त्वयि जीवति भो ब्रह्मन्कुतोस्थीनि लभामहे ॥ २० ॥

प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेकतः
स्वयमेव च भो देवास्त्यक्ष्याम्यद्य कलेवरम् ॥ २१ ॥

इत्युक्त्वा स द्विजो देवि योगमास्थाय योगवित्
ब्रह्मलोकं गतः सद्यो यतो नावर्त्तते पुनः ॥ २२ ॥

ततः सर्वे सुरास्तत्र दृष्ट्वा तं विलयं गतम्
चिन्तयन्तः सुरगणाः कथं च विशसामहे ॥ २३ ॥

सुरभिं चाह्वयामास तामुवाच शचीपतिः
कलेवरं द्विजेन्द्रस्य लिह त्वं वचसा मम ॥ २४ ॥

तथेति च वचो मत्वा तत्क्षणादेव लिह्य तत्
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम् ॥ २५ ॥

जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः
तस्य वंशोद्भवं त्वस्त्रमासीद्ब्रह्मशिरस्तथा ॥ २६ ॥

शस्त्राण्यस्त्राणि कृत्वा ते महाबलपराक्रमाः
ययुर्देवास्त्वरा युक्ता वृत्रघातनतत्पराः ॥ २७ ॥

ततः सुवर्चा तु दधीचपत्नी सम्प्रेषिता या सुरकार्यसिद्धये
विलोकयामास समेत्य तत्र मृतं पतिं देहमथो विशस्तम् ॥ २८ ॥

ज्ञात्वा तु तत्सर्वमथो सुराणां कृत्यं तदानीं च चुकोप साध्वी
ददौ तदा शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी ॥ २९ ॥

अहो सुरा दुष्टतराश्च सर्वे ह्यनेकशप्ताश्च तथैव लुब्धाः
तस्मात्तु सर्वे ह्यप्रजा भवन्तु सेन्द्रा सुराद्यप्रभृतीत्युवाच ॥ ३० ॥

एवं शापं ददौ तेषां सुराणां सा तपस्विनी
उपविश्याश्वत्थमूले साभ्रमत्यास्तटे स्थिता ॥ ३१ ॥

सगर्भा सा सती साध्वी स्वोदरं विददार ह
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः ॥ ३२ ॥

साक्षाद्रुद्रावतारोऽसौ पिप्पलादो महाप्रभुः
प्रहस्य जननी गर्भं उवाच वचनं महत् ॥ ३३ ॥

सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ
अश्वत्थस्य महाभाग सर्वेषां शुभदो भव ॥ ३४ ॥

तथैव भाषमाणा सा सुवर्चा तनयं प्रति
पतिं प्रत्यगमत्साध्वी परमेन समाधिना ॥ ३५ ॥

एवं दधीचपत्नी सा पतिना स्वर्गमास्थिता
ते देवाः कृतशस्त्रास्त्र दैत्यान्प्रति समुत्सुकाः ॥ ३६ ॥

आजग्मुश्चेन्द्रमुख्याश्च महाबलपराक्रमाः
कामधेनुः प्रसुस्राव ययौ यत्र द्विजः क्षयम् ॥ ३७ ॥

मुनेः प्रभावतो दुग्धं लिङ्गरूपं व्यजायत
दुग्धेश्वरमिति ख्यातं देवि साभ्रमती तटे ॥ ३८ ॥

तदा प्रभृति तीर्थं हि तन्नाम्ना प्रथितं भुवि
अतुलं यस्य माहात्म्यं श्रवणात्पातकापहम् ॥ ३९ ॥

ये शृण्वन्ति नरा भक्त्या दुग्धेश्वरसमुद्भवम्
तेऽपि पापविनिर्मुक्ता यान्ति रुद्रपदं महत् ॥ ४० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तर
खण्डे दुग्धेश्वरमाहात्म्यन्नाम पञ्चपञ्चाशदधिक शततमोऽध्यायः १५५