१५४

साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम्

विश्वास-प्रस्तुतिः

खङ्गधारमिति ख्यातं कलौ गुप्तं भविष्यति ॥ १ ॥

मूलम्

यत्र प्रसङ्गतः स्नात्वा पीत्वा वापो यदृच्छया
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ २ ॥

यत्र साभ्रमती पुण्या कश्यपानुगता सती
रुद्रेण हि जटाजूटे धृता पातालगामिनः ॥ ३ ॥

खङ्गधारेति वै नाम्ना रुद्रस्तत्रैव संस्थितः
यत्र स्नात्वा दिवं याताः पापिनोऽपि सुरेश्वरि ॥ ४ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम्
किरातेन कृतं यच्च व्रतं परमदुष्करम् ॥ ५ ॥

पार्वत्युवाच
किं नाम वै किरातोऽभूत्किं तेन व्रतमाहितम्
तत्सर्वं श्रोतुमिच्छामि यथातथ्येन कथ्यताम् ॥ ६ ॥

नह्यन्यो विद्यते लोके त्वां विना वदतां वरः
तस्मात्कथय भो देव सर्वं शुश्रूषणे हितम् ॥ ७ ॥

महादेव उवाच
आसीत्पुरा महारौद्रश्चण्डो नाम दुरात्मवान्
क्रूरः शठो नैष्कृतिको भूतानां च भयावहः ॥ ८ ॥

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः
भल्लैर्मृगान्श्वापदांश्च कृष्णसारान्सशल्लकान् ॥ ९ ॥

खगान्नानाविधांश्चैव विध्वा कांश्चित्प्रपातयेत्
पक्षिणो घातयन्क्रुद्धो बर्हिणश्च विशेषतः ॥ १० ॥

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः
भार्या तथाविधा तस्य पुंश्चली च महामया ॥ ११ ॥

एवं विहरतस्तस्य बहुकालो व्यवर्त्तत
एकदा निशि पापीयान्श्रीवृक्षोपरि संस्थितः ॥ १२ ॥

कोलं हन्तुं धनुःपाणिः शरं संयोज्य कार्मुके
एवं निशा गता तस्य जाग्रतो निमिषस्य हि
माघमासे सितायां वै चतुर्दश्यां नगात्मजे ॥ १३ ॥

श्रीवृक्षपत्राणि बहूनि तत्र सञ्च्छेदयामास रुषान्वितोऽपि
श्रीवृक्षमूले परिवर्त्तमानं लिगं च तस्योपरितानि पेतुः ॥ १४ ॥

श्रीवृक्षपर्णानि च दैवयोगात्जातं च सर्वं शिवपूजनं तत् ॥ १५ ॥

गण्डूषकारिणा तेन स्नपनं च महत्कृतम्
अज्ञानिना च तेनैव पुष्कसेन दुरात्मना ॥ १६ ॥

माघमासे सिते पक्षे चतुर्दश्यां विधूदये
पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः ॥ १७ ॥

तस्य भार्या प्रचण्डा च आगता तस्य सन्निधौ
निराशा च निराहारा यत्रासौ पुष्कसः स्थितः ॥ १८ ॥

न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा
अशनार्थं च तस्यैव अन्नमादाय भामिनी ॥ १९ ॥

तेन दृष्टा प्रचण्डा सा आयान्ती क्रूरलोचना
सा तस्य भार्या नद्यां वै जलमध्ये पपात ह ॥ २० ॥

तावत्तयोक्तश्चण्डात्मा एहि शीघ्रं च भक्षय
समानीतं त्वदर्थं च मत्स्यमांसं मयाधुना ॥ २१ ॥

कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वे न दृश्यते
नाशितं च त्वया मूढ कुटुम्बं लङ्घते तव ॥ २२ ॥

एतच्छ्रुत्वा तु वचनं चण्डायाश्चण्डरूपवान्
शिवरात्र्युपवासेन रात्रौ जागरणेन च ॥ २३ ॥

शुद्धान्तःकरणो जातः स्नातुं नद्यां शुचिव्रतः
यावत्स्नाति स दुष्टात्मा तावत्श्वा तत्र चागतः ॥ २४ ॥

शुना तदा भक्षितं च सर्वं मांसं सुरेश्वरि
चण्डा प्रकुपिता तं च श्वानं हन्तुमुपस्थिता ॥ २५ ॥

निवारिता हि चण्डेन चण्डा प्रकुपिता तदा
न हन्तव्यस्त्वया चैष किमनेनाशुभं कृतम् ॥ २६ ॥

तयोक्तं भक्षितं चान्नं अनेनैव दुरात्मना
किं त्वं भक्षयिता मूढ भविताद्य बुभुक्षितः ॥ २७ ॥

पुष्कस उवाच
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः
किमनेन शरीरेण नश्वरेण गतायुषा ॥ २८ ॥

मूलम्

पुष्कस उवाच
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः
किमनेन शरीरेण नश्वरेण गतायुषा ॥ २८ ॥

विश्वास-प्रस्तुतिः

ये पुष्यन्ति शरीरं वै सर्वभावेन भामिनि
मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः ॥ २९ ॥

तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम्
स्वस्थाभावविमर्शेन तत्वबुध्या स्थिरा भव ॥ ३० ॥

अहमेतच्छरीरं वै खङ्गधारव्रतेन च
त्यक्ष्याम्यद्य वरारोहे किं चिरञ्जीवनेन मे ॥ ३१ ॥

इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्ति कं स्वकम्
आगताश्च गणास्तावद्बहवः शिवनोदिताः ॥ ३२ ॥

विमानानि बहून्यत्र आगतानि तदन्तिके
दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा ॥ ३३ ॥

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः ॥ ३४ ॥

सर्वे स्फटिकसङ्काशाः सर्वे चन्द्रार्द्धशेखराः
कपर्दिनश्चर्मपरीतवाससो भुजङ्गभोगैः कृतहारभूषणाः ॥ ३५ ॥

श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतोचितं मम
पुष्कसेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः ॥ ३६ ॥

गणा ऊचुः
प्रेषितास्मो वयं चण्ड शिवेन परमेष्ठिना
आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह ॥ ३७ ॥

लिगार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च
तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम् ॥ ३८ ॥

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव
किं मया सुकृतं चीर्णं पापिना पुष्कसेन हि ॥ ३९ ॥

मृगयारसिकेनैव मूढेन च दुरात्मना
पापाचारोह्यहं नित्यं कथं स्वर्गे वसाम्यहम् ॥ ४० ॥

कथं लिगार्चनं चाद्या कृतमस्ति तदुच्यताम्
परं कौतुकमापन्नः पृच्छामि कृपया वद ॥ ४१ ॥

वीरभद्र उवाच
देवदेवो महादेवो यो गङ्गाधरसञ्ज्ञकः
परितुष्टोऽद्य ते चण्ड सभार्यस्य उमापतिः ॥ ४२ ॥

प्रासङ्गिकं त्वया चाद्य कृतमर्चनमेव च
कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥ ४३ ॥

छेदितानि त्वया चण्ड पतितानि तदैव हि
लिङ्गस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥ ४४ ॥

तवैवं जागरो जातो महावृक्षोपरि ध्रुवम्
तेनैव जागरेणैव तुतोष जगदीश्वरः ॥ ४५ ॥

मूलम्

तवैवं जागरो जातो महावृक्षोपरि ध्रुवम्
तेनैव जागरेणैव तुतोष जगदीश्वरः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

छलेनैव महाभाग कोलसन्दर्शनेन हि
शिवरात्रिदिनं व्याध प्रसङ्गेनाप्युपोषितम् ॥ ४६ ॥

तेनोपवासेन च जागरेणतुष्टो ह्यसौ देववरो महात्मा
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च ॥ ४७ ॥

एवमुक्तस्तदा तेन वीरभद्रेण धीमता
पुष्कसोऽपि विमानाग्र्यमारुरोह च पश्यताम् ॥ ४८ ॥

गणानां देवतानां च सर्वेषां प्राणिनामपि
तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥ ४९ ॥

वीणावेणुमृदङ्गानि लास्यनाट्य युतानि च
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः 6.154.॥ ५० ॥

चामरैर्विज्यमानो हि छत्रैश्च विविधैरपि
महोत्सवेन महता ह्यानीतः शिवसन्निधौ ॥ ५१ ॥

पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नान शिवार्चनात्
किं पुनः श्रद्धया भक्त्या शिवाय परमात्माने ॥ ५२ ॥

पुष्पादिकं फलं गन्धं ताम्बूलाक्षतमेव च
ये प्रयच्छन्ति लोकेऽस्मिंस्ते रुद्रा नात्र संशयः ॥ ५३ ॥

तदाप्रभृति तत्तीर्थं खङ्गधारेति विश्रुतम्
एतत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि ॥ ५४ ॥

माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः
स्नानं येन प्रकुर्वन्ति मुक्तास्ते नगनन्दिनि ॥ ५५ ॥

वसिष्ठो वामदेवश्च भरद्वाजोऽथ गौतमः
स्नानार्थे वै समायान्ति देवं द्रष्टुं पिनाकिनम् ॥ ५६ ॥

त्रियुगे वर्त्तते लिङ्गं कलौ नैव तु पार्वति
विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा ॥ ५७ ॥

कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर
तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥ ५८ ॥

एकस्मिन्समये देवि विश्वामित्रो महातपाः
आगतः खङ्गधारेऽस्मिंस्तीर्थे वै परमाद्भुते ॥ ५९ ॥

साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम
तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा ॥ ६० ॥

तत्र कोऽपि महादुष्टः कौलिकः पापरुपधृक्
मांसं दत्तं तदा तेन शिवस्योपरि भामिनि ॥ ६१ ॥

दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः
अब्रवीच्च तदा तत्र दुष्कृतं पापिना कृतम् ॥ ६२ ॥

न दत्तस्तस्य दण्डो हि शर्वेण परमात्मना
तस्मादहं हि निश्चित्य शापं दास्ये न संशयः ॥ ६३ ॥

विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा ॥ ६४ ॥

अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा
इति दत्वाथ वै शापं गतवान्मुनिसत्तमः ॥ ६५ ॥

तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापतः
ममस्थाने विशेषेण पूजनं कुरुते यदि ॥ ६६ ॥

तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि
मृन्मयीं मामकीं मूर्तिं कृत्वा ये पूजयन्ति वै ॥ ६७ ॥

अत्र स्थाने विशेषेण मामके तु वसन्ति हि
खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे ॥ ६८ ॥

कृते वै मन्दिरं नाम त्रेतायां गौरवः स्मृतः
द्वापरे विश्वविख्यातः कलौ खङ्गेश्वरः स्मृतः ॥ ६९ ॥

दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि
इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः ॥ ७० ॥

पूजनं कुरुते नित्यं वाञ्छितं फलमाप्नुयात्
धर्मार्थकाममोक्षांश्च लभते मानवो भुवि ॥ ७१ ॥

धूपं दीपं च नैवेद्यं तथा वै चन्दनादिकम्
येऽर्पयन्ति हि देवेशि लोकनाथे महेश्वरि
न दुःखं तु भवेत्तेषां सत्यं सत्यं वरानने ॥ ७२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्रसंहितायामुउत्तर
खण्डे धारेश्वरमाहात्म्यं नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः १५४