महादेव उवाच
विश्वास-प्रस्तुतिः
अन्यत्तीर्थं प्रवक्ष्यामि दुर्द्धर्षेश्वरमुत्तमम्
यस्य स्मरणमात्रेण पापोऽपि पुण्यवान्भवेत् ॥ १ ॥
मूलम्

वृत्ते देवासुरे युद्धे दैत्ये च निधनं गते
दुर्धर्षं च व्रतं कृत्वा यत्र भार्गवनन्दनः ॥ २ ॥

समाराध्य महादेवं दुर्द्धर्षं लोककारणम्
मृतसञ्जीवनीमाप यत्र विद्यां हि त्र्यम्बकात् ॥ ३ ॥

दैत्यार्थमुशनस्तीर्थं विख्यातं जगतीतले
काव्यतीर्थे कृतस्नानः पूज्य देवं महेश्वरम् ॥ ४ ॥

दुर्द्धर्षेश्वरसञ्ज्ञं वै सर्वपापैः प्रमुच्यते
अत्र वृत्तं तु श्रोतव्यं त्वया च नगनन्दिनि ॥ ५ ॥

पुरा यदाभवद्युद्धं वृत्रवासवयोरिह
तदासुरैर्जिता देवा मघवान्वै सुरेश्वरः
किं कर्त्तव्यमिति ध्यात्वा गतोऽसौ तं गुरुं प्रति ॥ ६ ॥

इन्द्र उवाच
अस्माकं त्वं गुरुः साक्षाद्देवानां पालकः सदा
ऋषीणां त्वं वरः श्रीमान्कृपां कुरु दयानिधे ॥ ७ ॥

वृत्रेण निर्जितोऽहं च क्व गच्छामि च सुव्रत ॥ ८ ॥

बृहस्पतिरुवाच
शृणु देवेन्द्र वक्ष्यामि येन त्वं हि सदा सुखी
मम वाक्यं कुरुष्वैव यदीच्छेच्छुभमात्मनः ॥ ९ ॥

साभ्रमत्यां तदा गच्छ तत्र गत्वा सुखी भव
दुर्द्धराख्यो यत्र देवो नित्यं तिष्ठति भूतिदः ॥ १० ॥

ददाति वाञ्छितान्कामान्सत्यं सत्यं सुरेश्वर
गुरोर्वचनमाकर्ण्य स गतस्तां नदीं प्रति ॥ ११ ॥

तत्र स्नात्वा तु देवेशो महेशं तमपूजयत्
स्नानाच्च पूजनादेव सन्तुष्टः श्रीमहेश्वरः ॥ १२ ॥

यं यं प्रार्थयसे नित्यं तत्सर्वं हि ददाम्यहम्
श्रुत्वा वाक्यं तु देवेशो ह्युवाच परमं वचः ॥ १३ ॥

त्वं नाथः सर्वलोकानां त्वमेव कारणं पदम्
त्वं हि विश्वेश्वरो देवो सर्वदा लक्ष्यसे मया ॥ १४ ॥

यदि त्वं मे प्रसन्नोऽसि विश्वेश्वर सुरेश्वर
वृत्रं हन महादेव एष कामो महान्मम ॥ १५ ॥

तव वाक्यात्तु देवेश वृत्रोऽसौ निहतो मया
मया यद्दीयते शस्त्रं तद्गृह्णीष्व सुरेश्वर ॥ १६ ॥

तेनैव चासुयोगेन हनिष्यसि न संशयः ॥ १७ ॥
मूलम्
तेनैव चासुयोगेन हनिष्यसि न संशयः ॥ १७ ॥
विश्वास-प्रस्तुतिः
इन्द्र उवाच
किमस्त्रं वद विश्वेश येन वृत्रं हि हन्म्यहम्
वज्रादप्यधिकं किं त्तन्निर्मितं तु त्वया कदा ॥ १८ ॥
मूलम्
इन्द्र उवाच
किमस्त्रं वद विश्वेश येन वृत्रं हि हन्म्यहम्
वज्रादप्यधिकं किं त्तन्निर्मितं तु त्वया कदा ॥ १८ ॥
विश्वास-प्रस्तुतिः
महादेव उवाच
इदं पाशुपतं ह्यस्त्रं निर्मितं तु मया पुरा
न दत्तं कस्यचिच्छक्र तवार्थे रक्षितं मया ॥ १९ ॥

अत्र स्नातं त्वया देव पूजनं वै त्वया कृतम्
अतस्त्वं गृह्ण मे शस्त्रं येन वृत्रं हनिष्यसि ॥ २० ॥

श्रीमहेशप्रसादाच्च प्राप्तं मघवता ततः
तेन पाशुपतास्त्रेण हतो वृत्रो महाबलः ॥ २१ ॥

तत्सर्वमत्र सञ्जातं दुर्द्धर्षेश प्रसादतः
स्नानमात्रात्तु देवेशि पूजनादेव साम्प्रतम् ॥ २२ ॥

तीर्थप्रभावात्सम्प्राप्तं सत्यं सत्यं वरानने
एवं ज्ञात्वा तु देवेशि तत्र वै स्नानमाचरेत्
दर्शनं तु महेशस्य सर्वपापप्रणाशनम् ॥ २३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे दुर्द्धर्षेश्वरमाहात्म्यन्नाम त्रिपञ्चाशदधिकशततमोऽध्यायः १५३