महादेव उवाच
विश्वास-प्रस्तुतिः
तीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तटे स्थितम्
बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम् ॥ १ ॥
मूलम्

तपस्विधारितं तीर्थं विबुधानां समाश्रयम्
तत्र कन्या तपस्तेपे परमं सुदृढव्रता ॥ २ ॥

कन्या कण्वमुनेः साध्वी रूपेणाप्रतिमा भुवि
बाला बालावती नाम कुमारी ब्रह्मचारिणी ॥ ३ ॥

व्रतं चचार सावित्र्या नियमैर्बहुभिर्युता
भर्ता मे भास्करो भूयादिति निश्चित्य भामिनि ॥ ४ ॥

समास्तस्य समाक्रान्ता दश साभ्रमतीतटे
चरन्त्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान् ॥ ५ ॥

तस्यास्तु तेन व्रतेन तपसा व्रतचर्यया
भक्त्या च भगवान्प्रीतः परया भक्तिसम्पदा ॥ ६ ॥

आजगामाश्रमपदं देवदेवो दिवाकरः
आस्थाय रूपं विप्रर्षेः प्रविष्टस्तु महामनाः ॥ ७ ॥

सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम्
वानप्रस्थविधानेन पूजयामास तं द्विजम् ॥ ८ ॥

उवाच रविभक्ता सा कल्याणी तं तपोधनम्
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ॥ ९ ॥

सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना
सूर्यभक्तास्मि ते पाणिं दास्यामि न कथञ्चन ॥ १० ॥

व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन
सूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः ॥ ११ ॥

इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्य ताम्
उवाच नियमस्थां तां सान्त्वयन्निव भास्करः ॥ १२ ॥

उग्रं चरसि कल्याणि तपः परमदुष्करम्
यदर्थं च समारम्भस्तव बाले तथैव तत् ॥ १३ ॥

तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति
देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च ॥ १४ ॥

इमानि पञ्च सुभगे बदराणि प्रतीच्छ मे
दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ ॥ १५ ॥

अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहाय ताम्
स्थितोऽसौ नातिदूरेण इन्द्रग्रामे महायशाः ॥ १६ ॥

स्थित्वा जिज्ञासया भावं तस्याश्च ब्राह्मणो रविः
बदराणामुपवनं कारयामास भास्करः ॥ १७ ॥

ततः सा प्रयता बाला प्राञ्जलिर्विगतश्रमा
पाकाय बदराणां सा पावकं समधिश्रयत् ॥ १८ ॥

अपचत्परमा देवि बदराणि महाप्रभा
तस्याः पचन्त्याः सुमहान्कालोऽगाच्च सुरेश्वरि ॥ १९ ॥

भस्मपुञ्जो महान्जातो दिनं च क्षयमन्वगात्
हुताशनेन दग्धस्तु महान्वै काष्ठसञ्चयः ॥ २० ॥

पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने
ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया ॥ २१ ॥

दग्ध्वा दग्ध्वा पुनः पादौ उपर्या धार्यतेऽनघे
अथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः ॥ २२ ॥

ततः सन्दर्शयामास कन्यायै रूपमात्मनः
उवाच परमप्रीतस्तां कन्यां सुदृढव्रताम् ॥ २३ ॥

सूर्य उवाच
प्रीतोऽस्मि बाले भक्त्या ते तपसा व्रतचर्यया
यस्मादभिमतः कामो बाले सम्पद्यतां तव ॥ २४ ॥

अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवत्स्यसि
इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् ॥ २५ ॥

बालाप इति विख्यातं साभ्रमत्यास्तटे स्थितम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा ॥ २६ ॥

बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिः
रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति ॥ २७ ॥

सूर्यलोकमवाप्नोति नात्र कार्या विचारणा
सूर्यवारेऽथ सङ्क्रान्तौ सप्तम्यां तु विशेषतः ॥ २८ ॥

विषुवत्ययने चापि चन्द्रसूर्यग्रहेऽपि च
स्नात्वा सन्तर्पयेद्देवान्पितॄनथ पितामहान् ॥ २९ ॥

गुडधेनुं ततो दद्याद्ब्राह्मणेभ्यो गुडोदनम्
करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम् ॥ ३० ॥

ये कुर्वन्ति नरास्ते वै सूर्यलोके वसन्ति वै
रक्तां धेनुं नरो दद्यादेकं चैव धुरन्धरम् ॥ ३१ ॥

स यज्ञफलमाप्नोति न नरो निरयं व्रजेत्
व्याधितो मुच्यते रोगात्बद्धो मुच्येत बन्धनात्
तीर्थेऽस्मिन्पिण्डदानेन तृप्तिं यान्ति पितामहाः ॥ ३२ ॥

तथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधने
श्रूयतां यत्पुरावृत्तं व्यासेन कथितं महत् ॥ ३३ ॥

पुरात्र महिषो वृद्धो जरया जर्जरीकृतः
अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत् ॥ ३४ ॥

स निदाघे जलं पातुं जगाम च महानदीम्
दैवात्पङ्के निमग्नोऽसौ ततो मृत्युवशं गतः ॥ ३५ ॥

प्लवितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतः
कान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत् ॥ ३६ ॥

संस्मृत्य च स्ववृत्तान्तं प्रभावं तीर्थजं महत्
आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः ॥ ३७ ॥

स तत्र स्थापयामास देवदेवं महेश्वरम्
अत्र तीर्थे नरः स्नात्वा सम्पूज्य महिषेश्वरम् ॥ ३८ ॥

रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते
साभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत् ॥ ३९ ॥

प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत्
दत्तं द्विजेन्द्रेषु हुतं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात् ॥ ४० ॥

गोभूतिलाः काञ्चनवस्त्रधान्यं शय्यासनं वाहनछत्रदानम्
यं यं वाञ्छयते कामं तं तं प्राप्नोति मानवः ॥ ४१ ॥

श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतः
बालापेन्द्रं इदं तीर्थं पुण्यपापहरं सदा ॥ ४२ ॥

यं दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तु
यत्र माहिषनामेति श्वेताख्यं पुण्यदं महत् ॥ ४३ ॥

यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यते
गोदावर्यां कृते स्नाने यत्फलं लभते नरः ॥ ४४ ॥

तत्फलं लभते देवि अत्र तीर्थे न संशयः ॥ ४५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे बालापेन्द्रं तीर्थन्नामद्विपञ्चाशदधिकशततमोऽध्यायः १५२