१५१

महादेव उवाच

विश्वास-प्रस्तुतिः

अस्मात्तीर्थात्परं तीर्थं इन्द्रग्राममिति स्मृतम्
यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् ॥ १ ॥

मूलम्

पार्वत्युवाच
केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम्
विपाप्मा च कथं सोऽभूदिति विस्तरतो वद ॥ २ ॥

इन्द्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः
अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ॥ ३ ॥

अथेन्द्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा
जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ॥ ४ ॥

पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम्
बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ॥ ५ ॥

अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः
तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ॥ ६ ॥

पूर्णेन्दुधवलाकान्तिः शरीरे समजायत
धवलेश्वरमीशानं स्थापयामास वृत्रहा ॥ ७ ॥

मूलम्

पूर्णेन्दुधवलाकान्तिः शरीरे समजायत
धवलेश्वरमीशानं स्थापयामास वृत्रहा ॥ ७ ॥

विश्वास-प्रस्तुतिः

इन्द्र नाम्ना च तल्लिङ्गं विश्रुतं पृथिवीतले
पूर्णिमास्यां तथा दर्शे सङ्क्रान्तौ ग्रहणे तथा ॥ ८ ॥

श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी
धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ॥ ९ ॥

एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत्
हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः ॥ १० ॥

शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी
अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ॥ ११ ॥

तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः
अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् ॥ १२ ॥

स एव सर्वकामाढ्यो भवत्येव न संशयः
बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् ॥ १३ ॥

धर्ममर्थं च कामं च लभते मानवो भुवि
सोमवारे विशेषेण ये गच्छन्ति नरोत्तमाः ॥ १४ ॥

तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः
रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा ॥ १५ ॥

तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया
दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः ॥ १६ ॥

पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः
श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु ॥ १७ ॥

वाञ्च्छितं लभते नित्यं धवलेशप्रसादतः
कृते वै नीलकण्ठस्तु सर्वेषां शङ्करः सदा ॥ १८ ॥

त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः
द्वापरे शर्वसञ्ज्ञस्तु कलौ वै धवलेश्वरः ॥ १९ ॥

अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि
नन्दिर्नाम पुरा वैश्य इन्द्रग्रामे समावसत् ॥ २० ॥

शिवध्यानपरो भूत्वा शिवपूजां चकार सः
नित्यं तपोवनस्थं हि लिङ्गं धवलसञ्ज्ञकम् ॥ २१ ॥

उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः
नन्दी लिङ्गार्चनरतो बभूवातिशयेन हि ॥ २२ ॥

यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत्
एकदा मृगयालुब्धः किरातो भूतहिंसकः ॥ २३ ॥

पापी पापसमाचारश्चरन्साभ्रमती तटे
अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः ॥ २४ ॥

एवं विचरमाणोऽसौ किरातो भूतहिंसकः
यदृच्छयागतस्तत्र यत्र लिङ्गं सुपूजितम् ॥ २५ ॥

धवलेश्वरविख्यातं अनेकाश्चर्यमण्डितम्
दृष्टं सुपूजितं लिङ्गं नानापुष्पैः फलैस्तथा ॥ २६ ॥

एवं लिङ्गं समालिङ्ग्य गतः साभ्रमतीतटे
तत्र पीत्वा पयः सोऽथ मुखं गण्डूषपूरितम् ॥ २७ ॥

कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन्
करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् ॥ २८ ॥

शीघ्रमागत्य लिङ्गान्ते पदा पूजां समाहनत्
पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः ॥ २९ ॥

स्नापनं तस्य लिङ्गस्य कृतं गण्डूषवारिणा
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ॥ ३० ॥

द्वितीयेन करेणैव मृगमांसं समर्पयत्
दण्डप्रणामसंयुक्तः सङ्कल्पं मनसाऽकरोत् ॥ ३१ ॥

अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः
त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शङ्कर ॥ ३२ ॥

एवं नियमवान्भूत्वा किरातो गृहमागमत्
तथा प्रभातसमये देवायतनमागतः ॥ ३३ ॥

मूलम्

एवं नियमवान्भूत्वा किरातो गृहमागमत्
तथा प्रभातसमये देवायतनमागतः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

नन्दी ददर्श तं सर्वं किरातेन च यत्कृतम्
अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ॥ ३४ ॥

विधूतानि च सर्वाणि हिंसकेन दुरात्मना
चिन्तायुक्तोभवन्नन्दी जातं किं चित्रमद्य मे ॥ ३५ ॥

कथितानि च विघ्नानि शिवपूजारतस्य हि
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ॥ ३६ ॥

एवं विमृश्य सुचिरं प्रक्षाल्य शिवमन्दिरम्
यथागतेन मार्गेण नन्दी स्वगृहमागमत् ॥ ३७ ॥

ततो नन्दिनमालक्ष्य पुरोधा गतमानसम्
अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ॥ ३८ ॥

पुरोहितं प्रति तदा नन्दी वचनमब्रवीत्
अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ॥ ३९ ॥

केनेदं कारितं तत्र न जानामीह किञ्चन
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तथा ॥ ४० ॥

येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम्
सोऽपि मूढो न सन्देहः कार्याकार्येषु मन्दधीः ॥ ४१ ॥

तस्माच्चिन्ता न कर्तव्या त्वया पुनरपि प्रभो
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ॥ ४२ ॥

निरीक्षणार्थं दुष्टस्य तस्य दण्डङ्करोम्यहम्
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः ॥ ४३ ॥

आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा
तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ॥ ४४ ॥

गतः शिवालयं नन्दी समन्तेन महात्मना
प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ॥ ४५ ॥

पञ्चोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह
एवं यामद्वयं जातं स्तूयमानस्य नन्दिनः ॥ ४६ ॥

आयातोऽसौ महाकालस्तथारूपो महाबलः
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ॥ ४७ ॥

तं दृष्ट्वा भयसन्त्रस्तो नन्दी तत्र न्यलीयत
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ॥ ४८ ॥

किरातेन कृतं तत्र यथापूर्वमविस्खलन्
तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ॥ ४९ ॥

नैवेद्येन पलेनैव किरातः शिवमार्चयत्
दण्डवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.॥ ५० ॥

तं दृष्ट्वा महदाश्चर्यं चिन्तयामास वै चिरम्
पुरोधसा तदा नन्दी सह व्याकुलचेतसा ॥ ५१ ॥

तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम्
सम्प्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ॥ ५२ ॥

ऊचुः सर्वे तदा विप्रा नन्दिनं जातशङ्कितम्
ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ॥ ५३ ॥

तस्मादानय लिङ्गं त्वं स्वगृहे वैश्यसत्तम
तथेति मत्वाऽसौ नन्दी शिवस्योत्पाटनं महत् ॥ ५४ ॥

कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि
सुवर्णपीठिकां कृत्वा नवरम्भासुशोभिताम् ॥ ५५ ॥

उपाहारैरनेकैश्च पूजयामास वै तदा
अथापरेद्युरायातः किरातः शिवमन्दिरम् ॥ ५६ ॥

यावद्विलोकयामास लिङ्गमैशं न दृष्टवान्
मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ॥ ५७ ॥

हे शम्भो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै
यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ॥ ५८ ॥

हे शम्भो हे जगन्नाथ त्रिपुरान्तक शङ्कर
हेरुद्र हे महादेव दर्शयात्मानमात्मना ॥ ५९ ॥

एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम्
किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ॥ ६० ॥

बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत्
हे शम्भो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ॥ ६१ ॥

इति क्षिप्त्वा ततोन्त्राणि मांसमुद्धृत्य सर्वतः
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ॥ ६२ ॥

स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु
तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ॥ ६३ ॥

पूजयित्वा यथान्यायं दण्डवत्पतितो भुवि
यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ॥ ६४ ॥

प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः
कर्पूरगौरो द्युतिमान्कपर्दी चन्द्रशेखरः ॥ ६५ ॥

तं गृहीत्वा करे रुद्रः उवाच परिसान्त्वयन्
भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ॥ ६६ ॥

वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ॥ ६७ ॥

पपात दण्डवद्भूमौ भक्त्या परमया युतः
ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ॥ ६८ ॥

अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः
एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ॥ ६९ ॥

त्वं माता च पिता त्वं च त्वं बन्धुश्च सखा च मे
त्वं गुरुस्त्वं महामन्त्रो मन्त्रैर्वेद्योऽसि सर्वदा ॥ ७० ॥

निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ॥ ७१ ॥

तदा डमरुनादेन नादितं भुवनत्रयम्
भेरीभाङ्कारशब्देन शङ्खानां निनदेन च ॥ ७२ ॥

तदा दुन्दुभयो नेदुः पटहाश्च सहस्रशः
नन्दी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ॥ ७३ ॥

तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः
किरातो हि तथा दृष्टो नन्दिना च तदा भृशम् ॥ ७४ ॥

उवाच प्रसृतो वाक्यं स नन्दी विस्मयान्वितः
किरातं स्तोतुकामोऽसौ परमेन समाधिना ॥ ७५ ॥

इहानीतस्त्वया शम्भुस्त्वं भक्तोऽसि परन्तपः
त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शङ्करे ॥ ७६ ॥

तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः
नन्दिनं च करे गृह्य शङ्करं समुपागतः ॥ ७७ ॥

प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्
ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ॥ ७८ ॥

किरात उवाच
त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ
प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ॥ ७९ ॥

जीवितेन धनेनापि पूजितोऽसि न संशयः
तस्माच्चानीहि भो स्वामिन्नन्दिनं भक्तवत्सल ॥ ८० ॥

जानाम्यहं महाभाग नन्दिनं वैश्यवर्त्तनम्
त्वं मे भक्तः सखा चेति महाकाल महामते ॥ ८१ ॥

उपाधिरहिता ये च ये निष्कपटमानसाः
ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शम्भुना ॥ ८२ ॥

ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ॥ ८३ ॥

कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः
सारूप्यमेव सम्प्राप्तो ईश्वरस्य महात्मनः ॥ ८४ ॥

नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ॥ ८५ ॥

उवाचेदं ततो देवी प्रहस्य गजगामिनी
यथा त्वं हि महादेव तथा चेतौ न संशयः ॥ ८६ ॥

सारूप्येण च गत्या च हास्यभावैः सुपूजितैः
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ॥ ८७ ॥

सद्यः पराङ्मुखौ भूत्वा शङ्करस्य च पश्यतः
ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ॥ ८८ ॥

उभावप्यनुकम्प्यौ च भवता हि त्रिलोचन
तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ॥ ८९ ॥

तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः
उवाच परया भक्त्या भवतोरस्तु वाञ्छितम् ॥ ९० ॥

ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः
शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ॥ ९१ ॥

एको नन्दी महाकालो द्वावेतौ शिववल्लभौ
ये पापिनोप्यधर्मिष्ठा अन्धा मूकाश्च पङ्गवाः ॥ ९२ ॥

कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः
यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ॥ ९३ ॥

गतास्तेऽपि गमिष्यन्ति नात्र कार्या विचराणा
अत्र स्नानं च दानं च सान्निध्यं शङ्करस्य च ॥ ९४ ॥

साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः
ते रुद्रलोकं गच्छन्ति नात्र कार्या विचारणा ॥ ९५ ॥

अत्र स्नानं च दानं च ये कुर्वन्ति नरोत्तमाः
धर्मार्थकामभोगाश्च भुक्त्वा यान्ति हरालयम् ॥ ९६ ॥

चन्द्र सर्योपरागे च पितुः सांवत्सरे दिने
यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ॥ ९७ ॥

स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा
आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ॥ ९८ ॥

सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः
तेन दुग्धाभियोगेन लिङ्गं तद्धवलीकृतम् ॥ ९९ ॥

धवलेश्वरं नाम ततः सञ्जातं भुवि सर्वदा
जन्तवोऽत्र सदा देवि म्रियन्ते कालनोदिताः
ते ते शिवपदं यान्ति यावच्चन्द्रदिवाकरौ 6.151.१००
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यन्नामैकपञ्चाशदधिकशततमोऽध्यायः १५१