महादेवउवाच
विश्वास-प्रस्तुतिः
जम्बूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम्
कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम् ॥ १ ॥
मूलम्

यत्र जाम्बवता पूर्वं दशाङ्गे पर्वतोत्तमे
स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम् ॥ २ ॥

रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः
तदा जाम्बवता दिक्षु भेरीघोषैः प्रघोषितम् ॥ ३ ॥

जितं वै रामचन्द्रेण रावणो निहतो रणे
लब्ध्वा सीतेति सङ्घुष्य स्नातं तीर्थवरे शुभे ॥ ४ ॥

स्थापितं तत्र लिङ्गं तु स्वनाम्ना तु सुरेश्वरि
तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम् ॥ ५ ॥

जाबवन्तेश्वरं स्नात्वा रुद्रलोके महीयते
यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम्
भवबन्धविमोक्षो हि दृश्यते स चराचरे ॥ ६ ॥

अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च
एवं ज्ञात्वा तु ते देवि न भेदो वर्तते क्वचित् ॥ ७ ॥

रामरामेति रामेति मनसा ये जपन्ति च
तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे ॥ ८ ॥

अहं हि सर्वदा देवि श्रीरामस्मरणं चरे
यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित् ॥ ९ ॥

काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम्
स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् ॥ १० ॥

जाम्बवता तदा पूर्वं स्मृत्वा रामं सुशोभनम्
जाम्बवन्तमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ॥ ११ ॥

तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम्
शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥ १२ ॥

अत्र हि स्नानमात्रेण यथा जाम्बवतो बलम्
तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः ॥ १३ ॥

अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै
फलं सहस्रगुणितं जाम्बवन्तेश दर्शनात् ॥ १४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे जाम्बवततीर्थमाहात्म्यन्नाम पञ्चाशदधिकशततमोऽध्यायः १५०