१४९

महादेव उवाच

विश्वास-प्रस्तुतिः

तीर्थादस्मात्परं तीर्थं मालार्कान्तरतः स्थितम्
चन्दनेश्वरमागच्छेदामोदस्थानमुत्तमम् ॥ १ ॥

मूलम्

दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः
प्रतिज्ञामात्मनः सर्वां पूरयित्वा सुदारुणाम् ॥ २ ॥

कराभ्यां रुधिराक्ताभ्यां द्रौपद्याः केशबन्धनम्
कृत्वा दत्त्वा द्विजातिभ्यो तीर्थयात्रां ततोऽगमत् ॥ ३ ॥

साभ्रमत्यास्तटे रम्ये गतो वै भ्रातृभिः सह
आनीतः साभ्रमत्यां यः स्वर्गाच्चन्दनपादपः ॥ ४ ॥

स तु लिङ्गतया जातः पुण्यतीर्थप्रभावतः
तत्र स्नात्वा च पीत्वा च कृत्वा वै पितृतर्पणम् ॥ ५ ॥

न नरो निरयं गच्छेद्रुद्रलोकमवाप्नुयात्
चन्दनेशं ततो दृष्ट्वा विश्वेशं लोकशङ्करम् ॥ ६ ॥

पूजयेच्च यथाशक्त्या यत्र गत्वा न शोचति
यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः ॥ ७ ॥

स गतः शिवलोकं तं यत्र गत्वा न शोचति
मज्जन्ति ऋषयो यत्र यत्र देवः सनातनः ॥ ८ ॥

साक्षाद्विष्णुः परमात्मा नित्यं तिष्ठति भूतिदः
इयं साभ्रमती धन्या धन्यो विश्वेश्वरः प्रभुः ॥ ९ ॥

यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति
अत्र चामर्दकीपुण्यैः फलैर्नानाविधैः शुभैः ॥ १० ॥

कर्त्तव्यमर्घदानं च विधिना तत्र सुन्दरि ११