महादेव उवाच
विश्वास-प्रस्तुतिः
साभ्रमत्यास्तटे तीर्थं गयातीर्थमनुत्तमम्
चित्राङ्गवदनं नाम मालार्काधिष्ठितं शुभम् ॥ १ ॥
मूलम्

कल्पपादपसन्तानैर्मन्दारैश्चोपशोभितम्
चूतनिम्बकदम्बैश्च काश्मर्यश्वत्थतिन्दुकैः ॥ २ ॥

तस्मादपहरेत्कुष्ठं योजनस्मृतिविभ्रमात्
यस्य सञ्जायते कुष्ठं तस्य मालार्कको हरेत् ॥ ३ ॥

या तु वेदोक्तविधिना नारी तत्राभिषिञ्चति
मृतवत्साऽथवा वन्ध्या पुत्रं प्राप्नोति साचिरात् ॥ ४ ॥

सन्ध्यास्नानं जपो होमः स्वाध्यायो देवतार्चनम्
कृतं भास्करभक्तेन मालार्के ह्यक्षयं भवेत् ॥ ५ ॥

अत्र गत्वा तु देवेशि श्रीरवेर्व्रतमाचरेत्
इहलोके सुखं भुक्त्वा रवेर्लोकं हि याति वै ॥ ६ ॥

मृतवत्सो हि राजर्षिस्तत्र गत्वाऽकरोत्तपः
स राजा प्राप्तवान्पुत्रं श्रीमालार्कप्रसादतः ॥ ७ ॥

अत्र गत्वा विशेषण उपवासी जितेन्द्रियः
मालार्कं पूजयेद्यो वै मुक्तिभागी भवेद्ध्रुवम् ॥ ८ ॥

वसिष्ठप्रमुखाविप्रा देवा इन्द्रादयः सदा
निवसन्ति सुरश्रेष्ठे मालार्के रविसन्निधौ ९