१४७

महादेव उवाच

विश्वास-प्रस्तुतिः

देवि वै श्रूयतां तीर्थं देवानामपि दुर्ल्लभम्
खड्गतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ॥ १ ॥

मूलम्

खड्गतीर्थे नरः स्नात्वा दृष्ट्वा खङ्गेश्वरं शिवम्
न नरो दुर्गतिं गच्छेत्स्वर्गलोकं प्रगच्छति ॥ २ ॥

खड्गधारेश्वरं देवं यः पश्यति सुरोत्तमे
कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेत् ॥ ३ ॥

अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे
सर्वं ददाति सर्वेशो वाञ्च्छितार्थप्रदायकः ॥ ४ ॥

वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरम्
तमर्थं लभते क्षिप्रं विश्वनाथप्रसादतः ॥ ५ ॥

पुष्पैर्धूपैश्च नैवेद्यैर्दीपैर्वा नगनन्दिनि
फलप्रदानैर्बिल्वैश्च विश्वेशं पूजयेत्ततः ॥ ६ ॥

धनधान्यप्रदं चाशु पुत्रपौत्रादिसम्पदः
प्राप्यन्ते नात्र सन्देहः श्रीविश्वेश्वरपूजनात् ७