महादेव उवाच
विश्वास-प्रस्तुतिः
ततो गच्छेत देवेशि तीर्थं रुद्र महालयम्
केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम् ॥ १ ॥
मूलम्
ततो गच्छेत देवेशि तीर्थं रुद्र महालयम्
केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम् ॥ १ ॥
विश्वास-प्रस्तुतिः
श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम्
तत्र श्राद्धप्रदानेन पितरः सपितामहाः ॥ २ ॥
मूलम्
श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम्
तत्र श्राद्धप्रदानेन पितरः सपितामहाः ॥ २ ॥
विश्वास-प्रस्तुतिः
तृप्ताः समभिगच्छन्ति रुद्रस्य परमं पदम्
वृषमुत्सृजते यस्तु तत्र रुद्र महालये ॥ ३ ॥
मूलम्
तृप्ताः समभिगच्छन्ति रुद्रस्य परमं पदम्
वृषमुत्सृजते यस्तु तत्र रुद्र महालये ॥ ३ ॥
विश्वास-प्रस्तुतिः
कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते
केदारे उदकं पीत्वा पुनर्जन्म न विद्यते ॥ ४ ॥
मूलम्
कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते
केदारे उदकं पीत्वा पुनर्जन्म न विद्यते ॥ ४ ॥
विश्वास-प्रस्तुतिः
अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः
एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः ॥ ५ ॥
मूलम्
अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः
एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः ॥ ५ ॥
विश्वास-प्रस्तुतिः
साभ्रमतीं महागङ्गां ज्ञात्वा लोकहिताय वै
तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् ॥ ६ ॥
मूलम्
साभ्रमतीं महागङ्गां ज्ञात्वा लोकहिताय वै
तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततोहं च स्वकं स्थानं कैलासं प्रति भामिनि
तदनन्तरं महापुण्यं तीर्थं जातं महालयम् ॥ ७ ॥
मूलम्
ततोहं च स्वकं स्थानं कैलासं प्रति भामिनि
तदनन्तरं महापुण्यं तीर्थं जातं महालयम् ॥ ७ ॥
रुद्र महालयमिति लोके ख्यातिं गमिष्यति
कार्तिक्यामथ वैशाख्यां ये गच्छन्ति सुरोत्तमे
न तेषां विद्यते दुःखं सर्वसंसारजं पुनः ८