श्रीमहादेव उवाच
विश्वास-प्रस्तुतिः
ततो गच्छेः महत्तीर्थे सङ्गमेश्वरमुत्तमम्
यत्र हस्तिमती पुण्या साभ्रमत्या हि सङ्गता ॥ १ ॥
मूलम्

शापं कौडिन्यमुनितः प्राप्य शुष्काभवन्नदी
बहिश्चर्येति नाम्ना वै लोके ख्यातिमुपागता ॥ २ ॥

तत्तीर्थं सम्प्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतम्
सर्वपापहरं पुण्यं त्रैलोक्ये चापि विश्रुतम् ॥ ३ ॥

यत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम्
मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति ॥ ४ ॥

शृणु देवि प्रवक्ष्यामि एतच्छापस्य कारणम्
यथैह शुष्करूपा हि जाता शापस्य कारणात् ॥ ५ ॥

यत्र साभ्रमती पुण्या गङ्गा नाम महानदी
तत्र हस्तिमती नाम गङ्गया सह सङ्गता ॥ ६ ॥

तत्रारब्धं च मुनिना तपो वै परमं महत्
एवं बहुगते काले ऋषिणा परमात्मना ॥ ७ ॥
मूलम्
तत्रारब्धं च मुनिना तपो वै परमं महत्
एवं बहुगते काले ऋषिणा परमात्मना ॥ ७ ॥
विश्वास-प्रस्तुतिः
आराधितो हृषीकेशो नारायणनिरञ्जनः
तस्यास्तटे तु देवेशि वर्षाणि च बहून्यपि ॥ ८ ॥

गतानि च विशेषेण मुनेस्तस्य तु पार्वति
कदाचिद्दैवयोगाच्च वर्षाकालः समागतः ॥ ९ ॥

नदी तत्र तु सम्पूर्णा कालयोगेन सुव्रते
तत्कौण्डिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि ॥ १० ॥

रात्रौ दुःखं महज्जातं हाहेति करुणो रुदन्
किं कर्तव्यमिति ध्यायन्नतिचिन्तापरोऽभवत् ॥ ११ ॥

आश्रमो हि महादिव्यो ऋषिणैव समायुतः
स गतो वारियोगेन हस्तिमत्यां सुरोत्तमे ॥ १२ ॥

फलानि चैव मूलानि पुस्तकानि बहून्यपि
तानि तस्यां गतान्येव वारियोगेन सुन्दरि ॥ १३ ॥

स कौण्डिन्यो ऋषिश्रेष्ठः शशाप तां नदीं किल
उदकेन विना त्वं च भविष्यसि कलौ युगे ॥ १४ ॥

एवं स दत्त्वा वै शापं हस्तिमत्या महेश्वरि
गतोऽसौ विप्रप्रवरो विष्णुलोकं सनातनम् ॥ १५ ॥

अद्यापि वर्तते तीर्थं सङ्गमेश्वरसञ्ज्ञकम्
यं दृष्ट्वा मुच्यते पापी ब्रह्महत्यादि पातकात् १६