१४४

महादेव उवाच

विश्वास-प्रस्तुतिः

ब्रह्मवल्ली महत्तीर्थं ततो गच्छेत्सुरेश्वरि
तस्य तीर्थस्य स्वरूपं साक्षाच्छृणु सुरोत्तम ॥ १ ॥

मूलम्

यत्र साभ्रमती तोयं ब्रह्मवल्ल्यम्भसा सह
युज्यते ब्रह्मतीर्थं तत्प्रयागेन समं स्मृतम् ॥ २ ॥

तत्र पिण्डप्रदानेन तृप्तिर्द्वादशवार्षिकी
पितॄणां जायते नूनं ब्रह्मणो वचनं यथा ॥ ३ ॥

गयाश्राद्धसमम्पुण्यम्ब्रह्मवल्ल्यांविशेषतः
यत्रज्ञात्वाप्रकुर्वन्तिपितरस्तृप्तिमाप्नुयुः ॥ ४ ॥

गोदानम्भूमिदानञ्चअन्नदानन्तथैवच
एतद्दानसमं पुण्यं ब्रह्मवल्ल्यां विशेषतः ॥ ५ ॥

अत्रैव सनकाद्यास्तु स्नात्वा च विधिपूर्वकम्
परम्ब्रह्मपदध्यानाद्विष्णुलोकमवाप्नुयुः ॥ ६ ॥

पुष्करे चैव गङ्गायां क्षेत्रे चामरकण्टके
तत्र गत्वा तु देवेशि यत्फलं लभते नरः ॥ ७ ॥

तत्फलं समवाप्नोति ब्रह्मवल्ल्यां विशेषतः
चन्द्र सूर्योपरागे च दानं ये ददते नराः ॥ ८ ॥

तत्फलं समवाप्नोति ब्रह्मावल्ल्यां सुरेश्वरि
दिव्यरूपधरास्ते च शङ्खचक्रगदाधराः ॥ ९ ॥

तेऽपि स्वर्गे हि गच्छन्ति स्नानं कृत्वा सुरेश्वरि
धृत्वा तुलसिजां मालां नारायणमनुस्मरन्
वैकुण्ठं दिव्यमानन्दं याति वै पदमव्ययम् ॥ १० ॥

इति ब्रह्मवल्लीतीर्थमाहात्म्यम्
वृषतीर्थं ततो गच्छेत्खण्डतीर्थेऽतिविश्रुतम्
तत्र स्नात्वा दिवं गावो गोलोकं च पुराश्रिताः ॥ ११ ॥

खण्डरूपेण धर्मेण या गावो लोकमातरः
शापाद्भ्रष्टावितास्तेन खण्डतीर्थमथोच्यते ॥ १२ ॥

पार्वत्युवाच
शापो हि लोकमातॄणां गवां कस्य पुराऽभवत्
कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः ॥ १३ ॥

पुरा वृषेण गोलोके क्रीडता सह मातृभिः
मुक्तं तथा शकृन्मूत्रं पतितं हरमूर्द्धनि ॥ १४ ॥

ततस्तासां ददौ शापं तेन दोषेण वै हरः
नष्टसञ्ज्ञा स्वलोकाच्च गावो यास्यथ मेदिनीम् ॥ १५ ॥

गावः शप्ता भगवता सम्प्रसाद्य पुनर्हरम्
प्राप्स्यामहे पुनर्लोकं इति देवं ययाचिरे ॥ १६ ॥

यदा साभ्रमती तीर्थे ब्रह्मवल्ली समीपतः
खण्डसञ्ज्ञह्रदे स्नात्वा स्वर्गं वै प्राप्स्यथ ध्रुवम् ॥ १७ ॥

ततस्तस्मिन्ह्रदे स्नात्वा गावो गोपतिना सह
स्वर्गं गता शुद्धतमा महादेवसमीपतः ॥ १८ ॥

गोह्रदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम्
गवां लोकमवाप्नोति दाहप्रलयवर्जितम् ॥ १९ ॥

तत्र स्थित्वा निराहारो गोपिण्डं च ददाति वै
स नरः सुखमेधेत यावदिन्द्राश्चतुर्दश ॥ २० ॥

गवाङ्कोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम्
तत्फलं समवाप्नोति खण्डतीर्थे न संशयः ॥ २१ ॥

गृहीत्वा वृषमूत्रं च तीर्थं यः पिबते नरः
तत्क्षणादेव शुद्धिः स्यात्खण्डतीर्थे न संशयः ॥ २२ ॥

खण्डतीर्थात्परं तीर्थं न भूतं न भविष्यति
ये गच्छन्ति सुरश्रेष्ठ ते नराः पुण्यभागिनः ॥ २३ ॥

तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत्
वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः ॥ २४ ॥

पूजनाद्वै न सन्देहो गोलोके तु वसेच्चिरम्
तत्र गत्वा विशेषेण सौवर्णी गां ददन्ति ये ॥ २५ ॥

ते नरा भुञ्जते सौख्यं यावदिन्द्राश्चतुर्दश
दशधेनुं ततः कृत्वा यो ददाति द्विजातये ॥ २६ ॥

खण्डतीर्थे सुरश्रेष्ठे तदनन्तफलं स्मृतम्
तत्र गत्वा तु कर्त्तव्यं पिप्पलारोपणं बुधैः ॥ २७ ॥

तत्कृते सति देवेशि पितृलोकं स गच्छति
पञ्च वामलकीर्दिव्या ये कुर्वन्ति प्ररोपणम् ॥ २८ ॥

इहलोके सुखं भुक्त्वा हरिलोकं व्रजन्ति ते ॥ २९ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर
संवादे खण्डतीर्थन्नाम चतुश्चत्वारिंशदधिकशततमोऽध्यायः १४४