एकधारं ततो गच्छेत्तीर्थं परमपावनम्
विश्वास-प्रस्तुतिः
एकधारे नरः स्नात्वा एकरात्रमुपोषितः ॥ १ ॥
मूलम्

अर्चयन्स्वामिदेवेशं कुलानां तारयेच्छतम्
स्वामितीर्थसमं ज्ञेयं यत्र तीर्थेऽवगाहनम् ॥ २ ॥

रुद्रलोके नरो गच्छेत्तीर्थस्यास्य प्रभावतः
यत्र स्नात्वा च पीत्वा च ब्रह्मलोके च गच्छति ॥ ३ ॥

त्रैलोक्ये पुण्यकर्माणस्तटेऽस्मिन्संवसन्ति हि ॥ ४ ॥

न भयं विद्यते तेषां खड्गधारादिकं च यत्
सत्सर्वमाशु नश्येत तीर्थे ह्येकप्रधारके ॥ ५ ॥

इति एकधारतीर्थवर्णनम्
सप्तधारं ततो गच्छेत्तीर्थानां तीर्थमुत्तमम्
सप्तसारस्वतं नाम यत्कृते मुनिभिः कृतम् ॥ ६ ॥

त्रेतायुगे मङ्कितीर्थं कृतं मङ्कि महर्षिणा
द्वापरे पाण्डुपुत्रैस्तु सप्तधारं प्रवर्तितम् ॥ ७ ॥

सप्तधारकतां प्राप्तं तीर्थं हरजटा च्युतम्
सप्तरूपाणि गङ्गाया यामि लोकेषु सप्तसु ॥ ८ ॥

वहन्ति तानि पुण्यानि तीर्थेऽस्मिन्सप्तधारके
सप्तधारे कृतं श्राद्धं पितॄणां तृप्तिदायकम् ॥ ९ ॥

शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम्
यच्छ्रुत्वा देवदेवेशि ब्रह्मलोकं व्रजेद्ध्रुवम् ॥ १० ॥

कौषीतकस्य पुत्रो वै मङ्कि नामेति विश्रुतः
विष्णुध्यानरतो नित्यं विष्णुलोकप्रपूजकः ॥ ११ ॥

वेदाध्ययनकर्ता च अग्निहोत्रपरायणः
सुरूपा विश्वरूपेति स्त्रियौ द्वेस्तस्तु तद्गृहे ॥ १२ ॥

ताभ्यां पुत्रविहीनाभ्यां दृष्ट्वा देविविशङ्कितः
किङ्कर्तव्यमिति ध्यायन्नति चिन्तापरोऽभवत् ॥ १३ ॥

स्थिरो वंशस्तु पुत्रेण ह्यन्यथा नरकं व्रजेत्
एवं चिन्तां प्रकुर्वाणो न सुखं लभते क्वचित् ॥ १४ ॥

तदा स्वगृहमुत्सृज्य गतो वै गुरुसन्निधौ
नमो वै गुरुवे तुभ्यं देवानामुपकारिणे ॥ १५ ॥

त्वं नाथः सर्वलोकानां ब्राह्मणानां च रक्षकः
यज्ञानां त्वं प्रकर्त्ता च द्विजराज नमोस्तु ते ॥ १६ ॥

अपुत्रोऽहं तु विप्रर्षे किं कर्त्तव्यमिति प्रभो
वद त्वं तु यथा सर्वं पुत्रो भवति निश्चितम् ॥ १७ ॥

अपुत्रस्य गतिर्नास्ति स्वर्गे नैव च नैव च
येनकेनाप्युपायेन पुत्रस्य जननं चरेत् ॥ १८ ॥

इति वाक्यं तु संस्मर्य्य ह्यागतस्तव सन्निधौ ॥ १९ ॥

गुरुरुवाच
गच्छ त्वं मुनिशार्दूल यत्र साभ्रमती नदी
तत्र गत्वा मुनिश्रेष्ठ पुत्रान्वै प्राप्स्यसे ध्रुवम् ॥ २० ॥

तद्वाक्यं तु समाकर्ण्य नमस्कृत्वा तु दण्डवत्
स गतो विप्रराजस्तु नदीं साभ्रमतीं प्रति ॥ २१ ॥

मङ्किनामा तु विप्रर्षिस्तत्र गत्वा तपो महत्
अतप्यत तदा देवि यावद्वर्षचतुष्टयम् ॥ २२ ॥

यत्र तीर्थं कृतं तेन मङ्किना ब्रह्मवादिना
त्रेतायुगे तदा देवि तदा तीर्थं महाद्भुतम् ॥ २३ ॥

जातं तत्र न सन्देहः पुत्रदं सार्वकामिकम्
अद्यापि मङ्कितीर्थाभं न भूतं न भविष्यति ॥ २४ ॥

स वै द्विजवरो मङ्किः पुत्रान्प्राप्य यथासुखम्
भोगान्नानाविधान्भुक्त्वा स गतो मन्दिरं मम ॥ २५ ॥

एतदाख्यानकं दिव्यं पवित्रं परमं महत्
पुत्रसौख्यादिकं सर्वं लभते श्रवणादतः ॥ २६ ॥

इति श्रीपाद्मे महापुराणे पञ्चापञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे सप्तधारतीर्थमहिमानाम त्रिचत्वारिंशदधिकशततमोऽध्यायः १४३