श्रीमहादेव उवाच
विश्वास-प्रस्तुतिः
कम्बुतीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम्
अर्चयेद्देवदेवेशं नारायणमनामयम् ॥ १ ॥
मूलम्

दत्त्वा दानानि विधिवद् ब्रह्मणेभ्यो विधानतः
विष्णुलोकमवाप्नोति तीर्थस्यास्य प्रभावतः ॥ २ ॥

अत्र राजर्षिणा पूर्वं विश्वामित्रेण धीमता
तपस्तप्तं विशेषेण प्रजाकामेन सुन्दरि ॥ ३ ॥

वायुभक्षो निराहारो यत्रासीदनिलाशनः
विष्णुपूजापरो नित्यं विष्णुध्यानपरायणः ॥ ४ ॥

तपसानेन सञ्जातः प्रजाकाममवाप्तवान्
प्रजाकामो नरो यश्च कम्बुतीर्थं हि गच्छति ॥ ५ ॥

स प्रजां लभते नित्यं सत्यं सत्यं वरानने ॥ ६ ॥

इति कम्बुतीर्थमाहात्म्यम्
ततो गच्छेत्सुरश्रेष्ठे तीर्थं नाम कपीश्वरम्
सन्निधौ रक्तसिंहस्य महापातकनाशनम् ॥ ७ ॥

बध्यमाने पुरा सेतौ रामरावणविग्रहे
गृहीत्वा पर्वतश्रेष्ठं विशेषात्कपिभिः कृतम् ॥ ८ ॥

नाम्ना कपीश्वरादित्यं चक्रुस्तीर्थमनुत्तमम्
यत्र तीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् ॥ ९ ॥

दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया
तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः ॥ १० ॥

हनुमत्प्रमुखैस्तत्र स्नातं यत्र दिनत्रयम्
कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः ॥ ११ ॥

अस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा कपीश्वरम्
रूपवान्बहुभोगश्च जायते नात्र संशयः ॥ १२ ॥

बलं वाञ्छति यो लोको धर्मं वा पुत्रमेव च
सर्वं स तु लभेन्नित्यं कपितीर्थप्रभावतः ॥ १३ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर
संवादे कपितीर्थमाहात्म्यं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः १४२