१४१

महादेव उवाच

विश्वास-प्रस्तुतिः

ततो देवि प्रवक्ष्यामि हिरण्यासङ्गमादनु
धर्मावती नदी यत्र सङ्गता सह गङ्गया ॥ १ ॥

मूलम्

तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम्
यत्र धर्मकृतं तीर्थं यः पश्यति स पुण्यभाक् ॥ २ ॥

श्राद्धं तत्रैव ये कुर्युर्मुच्यन्ते पितृजादृणात्
ततश्च मधुरातीर्थं सर्वपापप्रणाशनम् ॥ ३ ॥

स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुहा हरिः
यत्र विश्रान्तवान्कृष्णो जरासन्धभयाकुलः ॥ ४ ॥

कंसासुरवधे वृत्ते गन्तुकामः कुशस्थलीम्
उषित्वा सप्तरात्रं तु स देवश्चन्दनातटे ॥ ५ ॥

भोजवृष्ण्यन्धकवृतो वीरैर्यादवपुङ्गवैः
मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ॥ ६ ॥

मधुरादित्यनामानं यत्र स्थापितवान्हरिः
अष्टादशसहस्राणि विप्राणां यज्ञशालिनाम् ॥ ७ ॥

स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च
तत्र तीर्थसहस्राणि तिष्ठन्ति च सुरेश्वरि ॥ ८ ॥

श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया
न भेतव्यं जरासन्धान्मत्तीर्थे वसतां सदा ॥ ९ ॥

इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति
तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्कं प्रपूजयेत् ॥ १० ॥

माघस्य शुक्लसप्तम्यां कपिला गो प्रदानतः
चिरं सौख्यानि भुङ्क्त्वेह पदमादित्यमा व्रजेत् ॥ ११ ॥

शृणु सुन्दरि वक्ष्यामि इतिहासं पुरातनम्
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादि पातकात् ॥ १२ ॥

एकस्मिन्समये देवि माण्डव्यो ऋषिसत्तमः
गङ्गाद्वारे महापुण्यं तप्तवांस्तु महत्तपः ॥ १३ ॥

पत्राशी च फलाशी च वायुभक्षकरः सदा
अहोरात्रं सदा देवि विष्णुध्यानपरायणः ॥ १४ ॥

योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः
तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः ॥ १५ ॥

गजाश्वरथपत्तीनां सम्पदो बहुला भुवि
सोमचन्द्रेति विख्यातः पुत्रस्तस्य सुलक्षणः ॥ १६ ॥

एकदा तु तदा देवि गतो ह्याखेटके वने
तत्र गत्वा तदा तेन कृत्वा ह्याखेटकक्रियाः ॥ १७ ॥

स्वात्मानं रमयामास स्वलोकैः परिवारितः
क्रीडारते तदा राज्ञि रात्रिर्जाता सुरेश्वरि ॥ १८ ॥

तस्यां रात्रौ तदा राजा उवासाखेटके वने
तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्रह्मसञ्ज्ञके ॥ १९ ॥

हृतोऽश्वोऽथ विशेषेण चौरेणात्र दुरात्मना
तदा हाहेति शब्दोऽभूत्क्व गतः क्व गतो हरिः ॥ २० ॥

तदा राज्ञो भयात्सर्वे गन्तुकामाः समुत्सुकाः
चौरेणापहृतश्चाश्व इत्येवं संवदन्ति हि ॥ २१ ॥

निरीक्ष्यमाणास्ते सर्वे हरिद्वारं समागताः
ऋषिस्तत्र तु माण्डव्यस्तपस्तपति नित्यशः ॥ २२ ॥

ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटैस्तदा
अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति ॥ २३ ॥

बद्ध्वाश्वं तु समायातो ज्ञात्वा राजभटैस्तदा
एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् ॥ २४ ॥

राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम्
अश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वदा ॥ २५ ॥

आज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः
तदा तैस्तुभटैः सर्वैर्मिलित्वा बन्धनं कृतम् ॥ २६ ॥

पश्चाद्वै शूलिकाप्रोतस्तत्क्षणात्तु कृतस्तदा
न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् ॥ २७ ॥

यतो योगसमारूढो विष्णुध्यानपरायणः
शूलिकाप्रोतनं ज्ञातं कतिचित्कालयोगतः ॥ २८ ॥

माण्डव्योऽहम्मृषिश्रेष्ठः केन कर्म इदं कृतम्
त्रिकालज्ञानी सर्वज्ञो भगवांस्तद्व्यचिन्तयत् ॥ २९ ॥

धर्मस्य च इदं कर्म न चान्यस्य कदाचन
योगारूढः स धर्मात्मा गतोऽसौ धर्मसन्निधौ ॥ ३० ॥

तत्र गत्वा उवाचेदं शृणु त्वं धर्म साम्प्रतम्
त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ॥ ३१ ॥

शूलिकाप्रोतनं कर्म कथं चैव त्वया कृतम्
तत्सर्वं श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥ ३२ ॥

धर्म उवाच
शृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि पातकम्
तदहं कथयिष्यामि कृपां कुरु ममोपरि ॥ ३३ ॥

बालत्वे तु इदं कर्म पूर्वजन्मजपातकम्
तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातनं कृतम् ॥ ३४ ॥

एकस्मिन्समये विप्र त्वं गतो विजने वने
तत्र गत्वा त्वया विप्र जीवः शलभसञ्ज्ञकः ॥ ३५ ॥

आरोऽपितः स वै शूल्यां कर्मणा तेन दुःखितः
राज्ञा शूलेऽर्पितस्त्वं वै कर्मणानेन सुव्रत ॥ ३६ ॥

सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम्
अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः ॥ ३७ ॥

सुखी भवतु विप्रेन्द्र गच्छ त्वं हि यथेच्छया
एतद्वाक्यं ततः श्रुत्वा माण्डव्यो द्विजसत्तमः ॥ ३८ ॥

उवाच वचनं तत्र सकोपादारुणेक्षणः
माण्डव्य उवाच
रे पापिष्ठ दुराचार किं कृतं बहुपातकम् ॥ ३९ ॥

येन कृत्वा इदं कर्म शूलिकायाः प्रतोदनम्
ममवाक्यप्रकोपेन शूद्रस्त्वं भव सर्वथा ॥ ४० ॥

कियता कालयोगेन वंशे वै चन्द्रसञ्ज्ञके
जातो विदुरनामाख्यो विष्णुभक्तिपरायणः ॥ ४१ ॥

तीर्थयात्रामिषेणैव गतः साभ्रमतीं नदीम्
यत्र धर्मावती सङ्गो वर्त्तते च सुरेश्वरि ॥ ४२ ॥

तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान्
त्यक्तं तत्र हि शूद्रत्वं धर्मावत्यां न संशयः ॥ ४३ ॥

एतस्मात्कारणाद्देवि यत्र स्नानं प्रकुर्वते
ते नराः पुण्यकर्माणो गच्छन्ति परमं पदम् ॥ ४४ ॥

अत्र श्राद्धं च दानं च ये कुर्वन्ति नरा भुवि
इहलोके परामृद्धिं प्राप्य तैर्दिविमुद्यते ॥ ४५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये मधुरादित्यमाहात्म्यन्नामैकचत्वारिंशदधिक शततमोऽध्यायः १४१