श्रीमहादेव उवाच
विश्वास-प्रस्तुतिः
भो देव्यन्यत्प्रवक्ष्यामि हिरण्यासङ्गमं महत्
यदा साभ्रमती गङ्गा सप्तस्रोता पुराभवत् ॥ १ ॥
मूलम्

तदा सा ब्रह्मतनया सप्तस्रोतेति विश्रुता
सप्तमं तद्धिरण्याख्यं स्रोत इत्यभिधीयते ॥ २ ॥

तस्मिंस्तीर्थे नरः स्नात्वा पापी गतिमवाप्नुयात्
ऋक्षुमञ्जुमयोर्मध्ये सत्यवान्नाम पर्वतः ॥ ३ ॥

तस्य प्राक्सुमहत्तीर्थं हिरण्यासङ्गमं शुभम्
तत्र स्नात्वा च पीत्वा च शुभां गतिमवाप्नुयात् ॥ ४ ॥

वनस्थल्यां ततो गच्छेद्दृष्ट्वा नारायणं हरिम्
तीर्थमप्सरसां पुण्यं हिरण्यासङ्गमेश्वरम् ॥ ५ ॥

यत्रोर्वशी पुरा जाता समस्ताप्सरसां शुभा
नरनारायणौ तत्र तपस्तेपतुरुत्तमम् ॥ ६ ॥
मूलम्
यत्रोर्वशी पुरा जाता समस्ताप्सरसां शुभा
नरनारायणौ तत्र तपस्तेपतुरुत्तमम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
हिरण्यासङ्गमे रम्ये महापापहरे शुभे
यत्र वै ऋषयः सर्वे मज्जन्ति वीतकल्मषाः ॥ ७ ॥

वसिष्ठाद्याश्च ये विप्रा वालखिल्यादयश्च ये
यत्र मज्जन्ति देवेशि हिरण्या सह सङ्गमे ॥ ८ ॥

यत्र हिरण्मयं रूपं स्नानाद्वै भवति ध्रुवम्
कपिलागोसहस्रस्य दानेनैव तु यत्फलम् ॥ ९ ॥

तत्फलं समवाप्नोति हिरण्यासङ्गमे सदा
दशाश्वमेधे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः ॥ १० ॥

तदनन्तगुणं प्रोक्तं हिरण्यासङ्गमे पुनः
तुलापुरुषदाने च यत्फलं समवाप्नुयात् ॥ ११ ॥

हिरण्याक्षो महादैत्यस्तेन तप्तं महत्तपः ॥ १२ ॥

हिरण्यसदृशं तत्र शरीरमभवत्पुरा
जनमेजये तथा राज्ञि यत्र स्नानं प्रकुर्वति ॥ १३ ॥

ब्रह्महत्या गता देवि हिरण्यासङ्गमे तदा
विश्वामित्रोऽथ राजर्षिः स्नानार्थं वै समागतः ॥ १४ ॥

स्नानं कृत्वा विशेषेण गतोऽसौ मामकीं पुरीम् ॥ १५ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चाथ सुरेश्वरि
स्नानं येऽत्र प्रकुर्वन्ति ते गच्छन्ति शिवालयम् ॥ १६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे हिरण्यासङ्गमं तीर्थं नाम चत्वारिंशदधिकशततमोऽध्यायः १४०