महादेव उवाच
विश्वास-प्रस्तुतिः
साभ्रमत्युत्तरे कूले अग्नितीर्थमिति श्रुतम्
तस्याश्चोत्तरपूर्वेण नातिदूरे कृतास्पदम् ॥ १ ॥
मूलम्

तीर्थं पालेश्वरं नाम चण्डी यत्र प्रतिष्ठिता
पीठं तद्योगमातॄणां सर्वसिद्धिविधायकम् ॥ २ ॥

यत्र ताः सर्वदेवानां कार्यार्थे मातरः स्थिताः
परमं यत्नमास्थाय लोकानुग्रहकारणात् ॥ ३ ॥

त्रिरात्रमुषितो भूत्वा तस्मिंस्तीर्थे दृढव्रतः
अभिगच्छेत्तमीशानं देवेशं चण्डिकेश्वरम् ॥ ४ ॥

साभ्रमत्यां कृतस्नानो मातृतीर्थस्य सन्निधौ
समाधिविधिना युक्तो गच्छेद्वै मातृमण्डलम् ॥ ५ ॥

गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः
अग्नितीर्थे नरः स्नात्वा चामुण्डादर्शने कृते ॥ ६ ॥

न भयं जायते तस्य रक्षोभूतपिशाचजम्
गोखुरा च नदी यत्र साभ्रमत्यां तु सङ्गता ॥ ७ ॥

तत्र तीर्थसहस्राणि तिष्ठन्तीति सुरेश्वरि
श्राद्धं तत्र प्रकर्त्तव्यं तिलचूर्णेन पार्वति ॥ ८ ॥

पिण्डान्दत्त्वा द्विजान्भोज्य अक्षयं पदमाप्नुयात्
यत्र कुकर्दमो राजा पापिष्ठो दुर्द्धरः खलः ॥ ९ ॥

मूढोऽहङ्कारसंयुक्तो द्विजानां परिनिन्दकः
गोघ्नोऽपि बलहा चैव पापिष्ठो दुर्दमः सदा ॥ १० ॥

राज्यं च कुर्वतस्तस्य पुरे पिण्डारसञ्ज्ञके
तदा मृत्तिः समापन्ना धर्मे योगे सुरेश्वरि ॥ ११ ॥

मृतोऽसौ तत्र सञ्जातः प्रेतरूपो महेश्वरि
पीतास्यः शुष्कतुण्डश्च पीतरोमाऽथ कर्कशः ॥ १२ ॥

उच्चस्तरो बहुरोमा क्षुत्पिपासाप्रपीडितः
वायुभक्षं प्रकुर्वाणः प्रगच्छति इतस्ततः ॥ १३ ॥

बहुप्रेतैः समायुक्तो हाहेति करुणो रुदन्
किं कर्तव्यमिति प्राहुः प्रेतास्ते वै समीपगाः ॥ १४ ॥

तेऽपि तदा रोदमानाः क्षुत्पिपासादि पीडिताः
अन्ये प्रेता दुरात्मानो राज्ञः सङ्गतिमाययुः ॥ १५ ॥

राज्ञा सार्द्धं च गच्छन्ति लोकान्विजनकान्बहून्
नोदकमथवा चान्नं न मार्गे दृश्यते कदा ॥ १६ ॥

ते प्रेता दुष्टरूपाश्च विचरन्ति महीतले
भक्षन्ति शवमांसानि पिबन्ति रुधिरं सदा ॥ १७ ॥

एवं कुकर्दमो राजा सदा तैः परिवारितः
कदाचिद्दैवयोगेन गुरोराश्रममन्वगात् ॥ १८ ॥

पूर्वजन्मकृतं पुण्यं तेन योगेन सङ्गतः
पार्वत्युवाच
किं कृतं तेन वै पुण्यं वद विश्वेश्वर प्रभो ॥ १९ ॥

अयं पापी दुरात्मा च ब्राह्मणानां च दुःखदः
सत्सङ्गतिः कथं जाता तन्मे दुस्तरतो वद ॥ २० ॥

एतेन नरदेवेन पूर्वजन्मनि यत्कृतम्
तत्सर्वं कथयिष्यामि शृणु त्वं नगनन्दिनि ॥ २१ ॥

पूर्वजन्मन्ययं देवि ब्राह्मणो वेदपाठकः
सम्पूज्य च महादेवं कृत्वा चातिथिपूजनम् ॥ २२ ॥

भोजनं कुरुते नित्यमसौ वाडवसत्तमः
तेन पुण्यप्रभावेन पुरो पिण्डारसञ्ज्ञके ॥ २३ ॥

राजा वै तत्र सञ्जातः कुकर्दम इति श्रुतः
कर्मणा मनसा चैव न कृतं पुण्यमेव च ॥ २४ ॥

तेन देवाभियोगेन मृतो वै प्रेतराडभूत्
शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः ॥ २५ ॥

पूर्वजन्मकृतं पुण्यं न नश्यति सुरेश्वरि
तेन पुण्याभियोगेन सङ्गतो गुरुणाश्रमे ॥ २६ ॥

कहोडो वर्तते तत्र तेन दृष्टोऽथ प्रेतराट्
शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः ॥ २७ ॥

गम्भीराक्षो महापापी दुष्टैः प्रेतैश्च संयुतः
ऊर्द्ध्वरोमा जटायुक्तः कालरूपो भयङ्करः ॥ २८ ॥

एवं दृष्ट्वा तदा देवि विह्वलो वाडवोऽभवत्
कहोड उवाच
अस्मिन्मनोरमे चाहं स्थाने वै परमाद्भुते ॥ २९ ॥

अग्निपालेश्वरे तीर्थे नित्यं तिष्ठामि भूमिप
यजमानस्त्वमस्माकं कथं जातोऽसि प्रेतराट् ॥ ३० ॥

दुरात्मा दुष्टरूपश्च कालरूपो भयङ्करः
केन कर्मविपाकेन जातो वै भूतले शुभे ॥ ३१ ॥

प्रेत उवाच
शृणु वाडव मे पापं पूर्वजन्मनि यत्कृतम्
अहं कुकर्दमो राजा पुरे पिण्डारसञ्ज्ञके ॥ ३२ ॥

तत्रस्थेन मया देव यत्कृतं तच्छृणुष्व हि
ब्रह्मणां हिंसनं चैव पुराऽसत्यादिभाषणम् ॥ ३३ ॥

प्रजानां पीडनं चैव जीवानां हिंसनं सदा
गवां वै दुःखकर्ताऽहं ब्राह्मणव्रतलोपनः ॥ ३४ ॥

अस्नातः सर्वदा विप्र सज्जनानां विदूषकः
विष्णुनिन्दापरो नित्यं वैष्णवानां च निन्दकः ॥ ३५ ॥

दुराचारो दुरात्मा च वृषलीसंयुतः सदा
तत्र तत्र प्रभुञ्जानो नाऽहं शौचपरायणः ॥ ३६ ॥

तेन कर्माभियोगेन मृतो वै द्विजराट्ततः
प्रेतयोनिं प्रपन्नोऽस्मि दुःखी जातो ह्यनेकधा ॥ ३७ ॥

यस्य माता पिता नास्ति यस्य स्वजनबान्धवाः
तस्य बन्धुर्गुरुर्माता पितापि गुरुरेव च ॥ ३८ ॥

इति ज्ञात्वा तु भो ब्रह्मन्मुक्तिं दातुं त्वमर्हसि ॥ ३९ ॥
मूलम्
इति ज्ञात्वा तु भो ब्रह्मन्मुक्तिं दातुं त्वमर्हसि ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कहोड उवाच
शृणु त्वं नृपतिश्रेष्ठ करिष्ये वचनं तव
मुक्तिं यास्यति वै सद्यो भवांस्त्विह न संशयः ॥ ४० ॥

एकादश पुरोगाश्च प्रेता ये तव सङ्गताः
ते चापि मुक्तिमायान्ति सुतीर्थेऽस्मिन्विशेषतः ॥ ४१ ॥

तदा वै तेन विप्रेण तीर्थे गत्वा सुरेश्वरि
सर्वैश्चकारयामास तिलपिण्डोदकक्रियाः ॥ ४२ ॥

न मासो न तिथिर्देवी तीर्थे गत्वा पुनः पुनः
कर्त्तव्यं श्राद्धकर्मादि ब्रह्मणोक्तं पुरा मम ॥ ४३ ॥

कृते कर्मणि देवेशि मुक्तास्ते तीर्थराजके
विमानवरमारूढास्ते गता मामकीं पुरीम् ॥ ४४ ॥

सङ्गता गोखुरा यत्र साभ्रमत्या सुरेश्वरि
तत्र स्नानं च दानं च कोटियज्ञफलं लभेत् ॥ ४५ ॥

यत्राग्नितीर्थं वर्तेत कपालेश्वरसञ्ज्ञकम्
तत्र मुक्तिस्तु सम्प्रोक्ता सत्यं सत्यं भवेद्ध्रुवम् ॥ ४६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे अग्निपालेश्वरमहिमानामैकोनचत्वारिंशत्यधिकशततमोऽध्यायः १३९