१३८

महादेव उवाच

विश्वास-प्रस्तुतिः

गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः
त्रिविष्टपमिति प्रोक्तं गणैस्तु चन्दना तटे ॥ १ ॥

मूलम्

त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः
संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया ॥ २ ॥

चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे
सोऽपि पुण्यो महाभागे रुद्रलोके महीयते ॥ ३ ॥

गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
बकुलासङ्गमे स्नात्वा स्वर्गं गच्छति मानवः ॥ ४ ॥

तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च
गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात् ॥ ५ ॥

इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम्
श्रुत्वा तु लभते पुण्यं गङ्गास्नानसमं नरः ॥ ६ ॥

अत्र स्थित्वा निराहारो जितेन्द्रिय समाहितः
जपत्येवं परं देवं गणेश्वरं मनोरमम् ॥ ७ ॥

सम्प्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने
अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ॥ ८ ॥

तेन तपो महत्तप्तं बहुकालं सुरेश्वरि
गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः ॥ ९ ॥

वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः
भरद्वाजोङ्गिराश्चैव विश्वामित्रोऽथ वामनः ॥ १० ॥

एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि
नित्यं सेवां प्रकुर्वन्ति श्रीगणेशप्रसादतः ॥ ११ ॥

अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम्
अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ १२ ॥

किमन्यद्बहुनोक्तेन भूयोभूयो वरानने
योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च ॥ १३ ॥

सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ १४ ॥

नान्तरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः ॥ १५ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चात्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर
संवादे बकुलासङ्गमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः१३८