महादेव उवाच
विश्वास-प्रस्तुतिः
अथ नन्दिप्रदेशात्तु यथा साभ्रमती नदी
समायाता विकीर्णं च वनं विप्रर्षिसेवितम् ॥ १ ॥
मूलम्

बहुधा जलवेगेन पर्वतानां च रोधसः
सप्तधा प्रविभक्ता च दक्षिणोदधिगामिनी ॥ २ ॥

आद्या साभ्रमती पुण्या द्वितीया सेटिका तधा
तृतीया वल्किनी पुण्या चतुर्थी च हिरण्मयी ॥ ३ ॥

सर्वपापहरा प्रोक्ता हस्तिमत्यथ पञ्चमी
वेत्रवती सा च षष्ठी वृत्रेण निर्मिता पुरा ॥ ४ ॥

इयं सा परमा देवी वृत्रकूपाद्विनिःसृता
वेत्रवती ततो जाता महापापप्रणाशिनी ॥ ५ ॥
मूलम्
इयं सा परमा देवी वृत्रकूपाद्विनिःसृता
वेत्रवती ततो जाता महापापप्रणाशिनी ॥ ५ ॥
विश्वास-प्रस्तुतिः
भद्रामुखी शुभप्राया सप्तमी लोकपावनी
एतैस्तु सप्तभिर्देवि तांस्तान्जनपदांस्तथा ॥ ६ ॥

पवित्रीकृत्य चैकेन सप्तस्रोता प्रतिष्ठिता
विकीर्णतीर्थे यः श्राद्धं पितॄनुद्दिश्य दास्यति ॥ ७ ॥

गयापिण्डप्रदानस्य फलं यत्तद्भविष्यति
अवकीर्णा च्युता ये च लुप्तपिण्डोदकक्रियाः ॥ ८ ॥

ते विकीर्णे प्रमुच्यन्ते दत्तपिण्डोदकक्रियाः
तत्र श्राद्धं तु यः कुर्याद्गाणपत्यं भवेद्ध्रुवम् ॥ ९ ॥

तस्मात्त्रयीविधानेन श्रद्धया श्राद्धमाचरेत्
अस्मिंस्तीर्थे विशेषेण सप्तनद्युदये द्विजाः ॥ १० ॥

स्नानं कुरुत विप्रेन्द्रा ऋषिलोकमभीप्सवः
इत्युक्तं कश्यपेनाथ द्विजान्प्रति विशेषतः ॥ ११ ॥

यदि चेत्क्रियते स्नानं सर्वदुःखापहं सदा
तीर्थानां प्रवरं तीर्थं क्षेत्राणामुत्तमोत्तमम् ॥ १२ ॥

तीर्थमेतद्विकीर्णं च शुभदं रोगदोषहृत्
कुर्वन्त्यत्र विशेषेण ये स्नानं सर्वदा कलौ ॥ १३ ॥

ते नराः पुण्यभाजो हि जायन्ते नात्र संशयः
गयातीर्थसमं तीर्थं विकीर्णं पावनं परम्
पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम् ॥ १४ ॥

इति विकीर्णतीर्थम्
तीर्थादस्मात्परं तीर्थं श्वेतोद्भवमनुत्तमम्
यत्र श्वेता नदी जाता मत्पृष्ठोदरभस्मना ॥ १५ ॥

विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी
हराङ्गभस्मसंयोगात्जाता देवैस्तु मानिता ॥ १६ ॥

तस्यां स्नातः शुचिर्दान्तस्त्रिरात्रमुषितः पुमान्
महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते ॥ १७ ॥

पिण्डं पितृभ्यो यो दद्यात्तस्यास्तीरे कुशैस्तिलैः
सुतृप्ताः पितरस्तस्य भवन्तीति न संशयः ॥ १८ ॥

श्वेतगङ्गामहापुण्या दुःखदारिद्र्यमोचनी
यत्र स्नानेन भो देवि परं सुखमवाप्यते ॥ १९ ॥

तस्या वै सङ्गमे पुण्ये नित्यं तिष्ठामि पार्वति
येऽत्र दानं प्रकुर्वन्ति स्नानं च तत्र सुन्दरि ॥ २० ॥

तदनन्तफलं तस्य भवेद्वै नात्र संशयः
तत्र भूतेश्वरो देवः सङ्गमे वसते ध्रुवम् ॥ २१ ॥

तत्र धूपं च दीपं च पुष्पमारार्तिकं तथा
ये कुर्वन्ति नरश्रेष्ठास्ते नराः पुण्यरूपिणः ॥ २२ ॥

बिल्वदलं समादाय यो ददाति शिवोपरि
वाञ्च्छितं लभते नित्यं श्वेतायां शिवसन्निधौ ॥ २३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चात्साहस्र्यां संहितायामुत्तरखण्डे
उमामहेश्वरसंवादे श्वेतातीर्थन्नाम सप्तत्रिंशाधिकशततमोऽध्यायः १३७