१३६

पार्वत्युवाच

विश्वास-प्रस्तुतिः

साभ्रमत्यपि यान्देशान्नन्दिकुण्डाद्विनिःसृता
गच्छन्ती पावयामास कान्कान्देशान्वदस्व मे
चकार कानि तीर्थानि विलङ्घ्यार्बुदपर्वतम् ॥ १ ॥

मूलम्

सूत उवाच
इति तत्रोदिते देव्या महादेवः स विश्वराट्
उवाच वचनं तां वै पार्वतीं विश्वमोहिनीम् ॥ २ ॥

महादेव उवाच
नन्दिकुण्डात्प्रथमतः तीर्थात्परमपावनात्
कपालमोचनं तीर्थं मुनिभिः सम्प्रकारितम् ॥ ३ ॥

सर्वतेजोधिकं तीर्थं पावनात्पावनं परम्
अत्र मया परित्यक्तं कपालं ब्रह्मसञ्ज्ञकम् ॥ ४ ॥

कपालमोचनं तीर्थमतो जातं हि पार्वति
पावनं सर्वभूतानां प्रकटं लोकविश्रुतम् ॥ ५ ॥

कपालकुण्डमाख्यातं तत्तीर्थं तीर्थराजकम्
यत्र देवास्तथा नागा गन्धर्वाः किन्नरादयः ॥ ६ ॥

निवसन्ति महात्मानस्तीर्थे वै निर्मले शुभे
त्रैलोक्ये विश्रुतं तीर्थं दानदं मुक्तिदायकम् ॥ ७ ॥

तत्र स्नात्वा शुचिर्भूत्वा कपालेशं प्रपूजयेत्
उपोष्य रजनीमेकां कृत्वा ब्राह्मणभोजनम् ॥ ८ ॥

तत्रापि वस्त्रदानेन अग्निहोत्रफलं लभेत्
तस्मिंस्तीर्थे तु यः कश्चिद्दर्शनव्रतमास्थितः ॥ ९ ॥

सन्त्यज्य देहमात्मानं शिवलोकं व्रजेद्ध्रुवम्
अस्मिंस्तीर्थे पुरा स्नानात्सौदासो ब्रह्महत्यया ॥ १० ॥

मोचितो विमलं ज्ञानं प्राप्तवान्वै सुरेश्वरि
भागीरथ्यान्वये जातः सुदासाख्यो महाबली ॥ ११ ॥

तस्य पुत्रो मित्रसहः सौदासेति च विश्रुतः
वसिष्ठशापतः प्राप्तः सौदासो राक्षसीं तनुम् ॥ १२ ॥

साभ्रमत्यां कृतस्नानो विमुक्तः शापजादघात्
अत्र गङ्गा च यमुना गोदावरी सरस्वती ॥ १३ ॥

नन्दितीर्थे वसन्त्येताः पवित्राः पुण्यदाः सदा
गोदानं भूमिदानं च शय्यादानं तथैव च ॥ १४ ॥

कन्यादानं विशेषेण कर्तव्यं ज्ञानिभिर्नरैः
एतद्दानसमं प्रोक्तं साभ्रमत्यावगाहनम् ॥ १५ ॥

यत्र वै सकलान्येव पतितानीह भूतले
वारिणा स्पर्शमात्रेण शुद्धत्वं यान्ति तान्यपि ॥ १६ ॥

अत्र श्राद्धं प्रकुर्वाणो नरो वै भक्तितत्परः
पितरस्तस्य सन्तुष्टा गच्छन्ति परमं पदम् ॥ १७ ॥

एतदाख्यानकं दिव्यं ये शृण्वन्ति नराः सदा
सर्वपापविनिर्मुक्ता विष्णोः सायुज्यमाप्नुयुः ॥ १८ ॥

कर्मणा मनसा वाचा ये स्तुवन्ति महेश्वरम्
न तेषां विद्यते दुःखं यावदाभूतसम्प्लवम् ॥ १९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमा
महेश्वरसंवादे नन्दितीर्थमहिमानाम षट्त्रिंशाधिकशततमोऽध्यायः १३६