१३५

श्रीमहादेव उवाच

विश्वास-प्रस्तुतिः

साभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथातथम्
कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महत् ॥ १ ॥

मूलम्

अनेकवर्षपर्यन्तं तेन तप्तं महत्तपः
अर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले ॥ २ ॥

तत्र गत्वा तपस्तप्तं ऋषिणा कश्यपेन वै
सरस्वती यत्र रम्या पवित्रा पापनाशिनी ॥ ३ ॥

एकस्मिन्दिवसे देवि गतोऽसौ नैमिषं प्रति
तदा ते ऋषयः सर्वे कथां चक्रुरनेकशः ॥ ४ ॥

तदा तैस्तु द्विजैः सम्यक्पृष्टोऽसौ कश्यपो मुनिः
अहो कश्यप नः प्रीत्यै गङ्गेहानीयतां प्रभो ॥ ५ ॥

भवन्नाम्ना तु सा गङ्गा भविष्यति सरिद्वरा
तेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान् ॥ ६ ॥

आगतो ह्यर्बुदारण्ये सरस्वतीतीरसन्निधौ
तत्र तप्तं तदा तेन तपः परमदुष्करम् ॥ ७ ॥

आराधितो ह्यहं तेन कश्यपेन द्विजेन वै
प्रत्यक्षोऽहं तदा जातस्तस्य द्विजवरस्य च ॥ ८ ॥

वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥ ९ ॥

कश्यप उवाच
वरं दातुं समर्थोऽसि देवदेव जगत्पते
शिरःस्थिता या गङ्गेयं पवित्रा पापहारिणी ॥ १० ॥

मम देया विशेषेण महादेव नमोस्तुते
तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम ॥ ११ ॥

जटामेकां परित्यज्य दत्ता गङ्गा तदा मया
तां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षतो ययौ ॥ १२ ॥

केशरन्ध्रं नाम तीर्थं वासो वै कश्यपस्य च
गतस्तत्र तु देवेशि मुनिभिः परिवारितः ॥ १३ ॥

कश्यपेन समानीता काश्यपी सा सरिद्वरा
यस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल ॥ १४ ॥

पार्वत्युवाच
स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे
विश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि ॥ १५ ॥

दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट्
महिमा कीदृशो ब्रह्मन्सर्वं त्वं वक्तुमर्हसि ॥ १६ ॥

महादेव उवाच
मया श्रुतान्यनेकानि तीर्थान्यायतनानि च
श्रीविष्णोश्च प्रसादाच्च नद्यः सागरगाः प्रभोः ॥ १७ ॥

गङ्गा च यमुना रेवा तापी चैव महानदी
गोदावरी तुङ्गभद्रा कौशिकी गल्लिका तथा ॥ १८ ॥

कावेरी वेदिका भद्रा सरयूः पापहारिणी
अन्याश्च विविधा नद्यः सर्वपापहरा भुवि ॥ १९ ॥

प्रयागस्तीर्थराजश्च काशी पुष्कर एव च
नैमिषारण्यसञ्ज्ञं तु तीर्थं चामरकण्टकम् ॥ २० ॥

उत्तमं द्वारकाक्षेत्रमर्बुदारण्यमुत्तमम्
एवंविधानि दिव्यानि क्षेत्राणि विविधानि च ॥ २१ ॥

श्रुतानि तत्र देवेशि माया विष्णोः प्रसादतः
पूर्वं भगीरथेनैव याचितोऽहं तु पार्वति ॥ २२ ॥

तदा दत्ता इयं गङ्गा विष्णोर्लोकमभीप्सुना
कश्यपाय पुनर्दत्ता ऋषीणां वचनान्मया ॥ २३ ॥

इयं वै काश्यपी गङ्गा रोगदोषहरा सदा
इयं या कथ्यते लोके युगे वै नामपूर्वकम् ॥ २४ ॥

तदहं कथयिष्यामि शृणु सुन्दरि तत्वतः
कृते कृतवती नाम त्रेतायां गिरिकर्णिका ॥ २५ ॥

द्वापरे चन्दना नाम कलौ साभ्रमती स्मृता
दिनेदिने विशेषेण स्नानार्थं तु नराश्च ये ॥ २६ ॥

सर्वपापविनिर्मुक्ता यान्ति विष्णोः सनातनम्
प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि ॥ २७ ॥

केदारे च कुरुक्षेत्रे यत्फलं स्नानतो भवेत्
तत्फलं तु नृणां नूनं साभ्रमत्या दिने दिने ॥ २८ ॥

भवतीति न सन्देहो व्यासस्य वचनं यथा
नभस्येपरपक्षे तु प्रत्यहं वा सुरेश्वरि ॥ २९ ॥

अमावास्यादिने सम्यक्श्राद्धदाने च यत्फलम्
नरस्तत्फलमाप्नोति साभ्रमत्यावगाहनात् ॥ ३० ॥

कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतः
तत्फलं लभते मर्त्यो साभ्रमत्यावगाहनात् ॥ ३१ ॥

एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनी
इयं धन्यतमा देवि पवित्रा ह्यघनाशिनी ॥ ३२ ॥

यस्यां वै साभ्रमत्यां च एते तिष्ठन्ति नित्यशः
पूर्वं सम्बन्धिनो ये च उत्तरे ये तथा पुनः ॥ ३३ ॥

पाश्चात्या दाक्षिणात्याश्च सर्वे यान्ति च नित्यशः
तीर्थयात्रामिषेणैव खेटके ब्रह्मसन्निधौ ॥ ३४ ॥

आयान्ति सर्वदा देवि कार्तिक्यां च न संशयः
तत्र श्राद्धं प्रकुर्वन्ति तथा वै विप्रभोजनम् ॥ ३५ ॥

नाना धर्मान्प्रकुर्वन्ति नानायज्ञांश्च नित्यशः
विविधानि च दानानि प्रकुर्वन्ति जनाः सदा ॥ ३६ ॥

चतुर्युगेषु सर्वेषु नात्र कार्या विचारणा
यवक्रीतोऽथ रैभ्यश्च काक्षीवानुशिजस्तथा ॥ ३७ ॥

भृग्वङ्गिरास्तथा कण्वो मेधावी च पुनर्वसुः
बन्दी च गुणसम्पन्नः प्राच्यां दिशि उपश्रिताः ॥ ३८ ॥

उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा
सुबन्धुश्च महाभागो दत्तात्रेयश्च वीर्यवान् ॥ ३९ ॥

शिखी दीर्घतमाश्चैव गौतमः कश्यपस्तथा
श्वेतकेतुः कहोडश्च पुलहो देवलस्तथा ॥ ४० ॥

विश्वामित्र भरद्वाजौ जमदग्निश्च वीर्यवान्
ऋचीकपुत्रो गर्गश्च ऋषिरुद्दालकस्तथा ॥ ४१ ॥

देवशर्माऽथ धौम्यश्च आस्तीकः कश्यपस्तथा
लोमशो नाभिकेतुश्च लोमहर्षण एव च ॥ ४२ ॥

मूलम्

देवशर्माऽथ धौम्यश्च आस्तीकः कश्यपस्तथा
लोमशो नाभिकेतुश्च लोमहर्षण एव च ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा
वालखिल्यादयो ये च सर्वे गच्छन्ति तत्र वै ॥ ४३ ॥

कृतस्नाना निराहाराः सदा विष्णुपरायणाः
शङ्खचक्रगदाधरास्तटे तिष्ठन्ति नित्यशः ॥ ४४ ॥

पितृतीर्थं गयानाम सर्वतीर्थवरं शुभम्
यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥ ४५ ॥

गीतायाः पितृभिर्गाथा श्राद्धभागमपीप्सुभिः
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ ४६ ॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्
तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ॥ ४७ ॥

या चैव मम सान्निध्याद्भुक्तिमुक्तिफलप्रदा
ममाज्ञया तु देवेशो बिन्दुमाधवसञ्ज्ञकः ॥ ४८ ॥

नित्यं तिष्ठति देवेशि वाराणस्यां विशेषतः
अतो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा ॥ ४९ ॥

पितॄणां वल्लभं तीर्थं पुण्यं वै विमलेश्वरम्
पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितम् 6.135.॥ ५० ॥

साभ्रमत्युदके देवि आयान्ति वचनान्मम
वटेश्वरश्च भगवान्माधवेन समन्वितः ॥ ५१ ॥

मूलम्

साभ्रमत्युदके देवि आयान्ति वचनान्मम
वटेश्वरश्च भगवान्माधवेन समन्वितः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

दशाश्वमेधकं पुण्यं गङ्गाद्वारं तथैव च
मन्नियोगाच्च देवेशि साभ्रमत्यां वसन्ति हि ॥ ५२ ॥

नदाथ ललितादेवी तीर्थं यत्सप्तधारकम्
तथा मित्रपदं नाम केदारं शङ्करालयम् ॥ ५३ ॥

गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम्
तीर्थं ब्रह्मसरस्तद्वच्छतद्रु सलिले ह्रदे ॥ ५४ ॥

तीर्थं तु नैमिषं नाम आज्ञया मम सर्वदा
साभ्रमत्युदके देवि निवसन्ति न संशयः ॥ ५५ ॥

श्वेता वल्कलिनी पुण्या ततः श्वेता हिरण्मयी
हस्तिमत्यथवार्त्तघ्नी नदी सागरगामिनी ॥ ५६ ॥

पितॄणां वल्लभा ह्येताः श्राद्धकोटिफलप्रदः
तत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै ॥ ५७ ॥

पाटलं वाडवाख्यं च नगरं तत्र सुन्दरि
साभ्रमत्यां सदा एताः प्राप्ता नद्यो विशेषतः ॥ ५८ ॥

तत्र स्नानं च दानं च ये कुर्वन्ति नरा भुवि
इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् ॥ ५९ ॥

जम्बूद्वीपं महापुण्यं यत्र पुण्यं विवर्द्धते
तत्रार्याख्यं महापुण्यं सर्वकामफलप्रदम् ॥ ६० ॥

नीलकण्ठमिति ख्यातं तीर्थं नन्दह्रदस्तथा
तथा रुद्रह्रदस्तीर्थं पुण्यं रुद्र महालयम् ॥ ६१ ॥

मन्दाकिनी महापुण्या तथाच्छोदा महानदी
साभ्रमत्यां वहन्त्येते स्वात्मना दर्शनीकृते ॥ ६२ ॥

धूम्रा मित्रपदं तद्वद्वैजनाथं दृषद्वरम्
क्षिप्रा नदी महाकालं तथा कालिञ्जरो गिरिः ॥ ६३ ॥

गङ्गोद्भूतं हरोद्भेदं नर्मदाकारमेव च
गङ्गापिण्डप्रदानेन समान्याहुर्मनीषिणः ॥ ६४ ॥

एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तटे
गुप्तीकृतानि देवेशि देवैर्ब्रह्मपुरोगमैः ॥ ६५ ॥

स्मरणादपि लोकानां पापघ्नानि महेश्वरि
किं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि ॥ ६६ ॥

ॐकारं पितृतीर्थं च कावेरी कपिलोदकम्
सम्भेदश्चण्डवेगायास्तथैवामरकण्टकम् ॥ ६७ ॥

कुरुक्षेत्राच्छतगुणमस्मिन्स्नानादिकं भवेत्
वार्तघ्नीसङ्गमे देवि गणेश्वरपुरःसरम् ॥ ६८ ॥

साभ्रमत्यां पुरा नीतं गणैस्तीर्थकदङ्कबम्
एष तूद्देशतः प्रोक्तस्तीर्थानां सङ्गमो मया ॥ ६९ ॥

वागीशापि न शक्नोति तीर्थानां तत्वविस्तरम्
सत्यं तीर्थं दयातीर्थं तीर्थमिन्द्रियविग्रहः ॥ ७० ॥

तस्यास्तीर्थे प्रयत्नेन स्नानं कुर्यान्न संशयः
प्रातःकालो मुहूर्तांस्त्रीन्सङ्गवस्तावदेव तु ॥ ७१ ॥

तदा स्नानादिकं तीर्थे देवानां प्रीतिदायकम्
मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥ ७२ ॥

पितॄणां प्रीतिजननं स्नानपिण्डादि तर्पणम्
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥ ७३ ॥

राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु
अह्नो मुहूर्ता विख्याता दशपञ्च च सर्वदा ॥ ७४ ॥

तत्राष्टमो मुहूर्तो यः स कालः कुतुपः स्मृतः
मध्याह्ने सर्वदा यस्मान्मन्दी भवति भास्करः ॥ ७५ ॥

तस्मादनन्तफलदः पितॄणां पिण्डदानतः
मध्याह्नः खङ्गपात्रं च तथा नेपालकम्बलः ॥ ७६ ॥

रूप्यं दर्भास्तथा गावो दौहित्रं कुतपास्तिलाः
पापं कुत्सितमित्याहुस्तस्य सन्तापकारकाः ॥ ७७ ॥

अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः
ऊर्द्ध्वं मुहूर्तात्कुतुपात्यन्मुहूर्त चतुष्टयम् ॥ ७८ ॥

महूर्तपञ्चकं चैतच्छ्राद्धकाले समिष्यते
विष्णोर्देहात्समुद्भूताः कुशाः कृष्णतिलाः स्मृताः ॥ ७९ ॥

श्राद्धस्य रक्षणार्थाय एवमाहुर्दिवौकसः
तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः ॥ ८० ॥

सदर्भहस्तैरेकेन श्राद्धमेवं न हिंस्यते
साभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनम् ॥ ८१ ॥

कारयित्वा मया देवि दत्ता वै कश्यपाय च
मम भक्तः कश्यपोसौ वल्लभो मम सर्वदा ॥ ८२ ॥

दत्ता तस्मादियं गङ्गा पवित्रा पापनाशिनी
साभ्रमत्यां महाभागे तीर्थे वै ब्रह्मचारिके ॥ ८३ ॥

आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शङ्करो ह्यहम्
स्थितो लोकहितार्थाय ब्रह्मचारीश सञ्ज्ञकः ॥ ८४ ॥

साभ्रमत्यामुपकण्ठे ब्रह्मचारीश सञ्ज्ञके
कलौ भक्तो विशेषेण पूजनं कुरुते यदा ॥ ८५ ॥

इहलोके सुखं भुक्त्वा याति शैवं पदं महत्
महद्भिर्व्याधिभिश्चैव पीडितो यदि गच्छति ॥ ८६ ॥

यस्याशु नश्यति व्याधिर्दर्शनाच्च महेश्वरि
गत्वा वै तस्य संस्थाने उपवासी जितेन्द्रियः ॥ ८७ ॥

पूजनं कुरुते भक्त्या रात्रौ तिष्ठन्सुनिश्चलः
तदाहं योगिरूपेण दर्शनं तस्य यामि हि ॥ ८८ ॥

ददामि वाञ्च्छितान्कामान्सत्यं सत्यं वरानने
ममस्थाने विशेषेण समायान्ति च ये जनाः ॥ ८९ ॥

तेषां व्याधिप्रशमनं करोमि सुचिरादहम्
चतुरशीतिसञ्ज्ञेयो व्याधिः सङ्कथितो मया ॥ ९० ॥

स स व्याधिर्विनश्येत दर्शनादेव सुन्दरि
न लिङ्गं वर्तते तत्र मामकं नगनन्दिनि ॥ ९१ ॥

स्नानमात्रं तु तत्रैव मामकं नात्र संशयः
एकस्मिन्नेव काले तु अस्यां भूमौ महातपाः ॥ ९२ ॥

राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वीर्यवान्
तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरि ॥ ९३ ॥

पञ्चाग्निसाधनं तेन कृतं च बहुधा ततः
मासोपवासकादीनि तपस्तप्तान्यनेकशः ॥ ९४ ॥

मूलम्

पञ्चाग्निसाधनं तेन कृतं च बहुधा ततः
मासोपवासकादीनि तपस्तप्तान्यनेकशः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

एवं बहुतरं कालं राज्ञा तप्तं तपो महत्
प्रत्यक्षोऽहं तदा जातो वरार्थं वरवर्णिनि ॥ ९५ ॥

ब्रह्मदत्त शृणुष्व त्वं महद्वाक्यं नरेश्वर
यं यं वाञ्छयसे नित्यं तं तं दद्मि न संशयः ॥ ९६ ॥

तेनोक्तं मम देवेश वाञ्च्छितं यदि दीयते
एक एव वरो देव दीयतां मम सर्वदा ॥ ९७ ॥

मूलम्

तेनोक्तं मम देवेश वाञ्च्छितं यदि दीयते
एक एव वरो देव दीयतां मम सर्वदा ॥ ९७ ॥

विश्वास-प्रस्तुतिः

मम नाम्ना हि देवेश ईश्वरो भुवि जायताम्
तेन वाक्येन सन्तुष्टो वरो दत्तो मयाऽनघे ॥ ९८ ॥

तदाहं तेन वै सार्द्धं निवसामि सुरेश्वरि
अत्र स्थित्वा निराहारो भक्तिं कुर्यादशेषतः ॥ ९९ ॥

ददामि वाञ्छितान्कामान्यावदिन्द्राश्चतुर्दश
अत्रागत्य तु ये विप्रा रुद्रजाप्यादिकं च यत् 6.135.१००
प्रकुर्वन्ति विशेषेण तेषां दद्मि शृणुष्व तत्
स्त्रीसौख्यं पुत्रसौख्यं च लक्ष्मीवृद्धिकरं पुनः १०१