महादेव उवाच
विश्वास-प्रस्तुतिः
वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुन्दरि
यत्र स्नात्वा विमुच्यन्ते यावदाभूतसम्प्लवम् ॥ १ ॥
मूलम्

वृत्रेण च कृतः कूपो महागम्भीरसञ्ज्ञकः
कूपात्सा निःसृता देवी महापापौघनाशिनी ॥ २ ॥

यथा गङ्गा तथेयं च सरिच्छ्रेष्ठा सुरोत्तमे
अस्या दर्शनमात्रेण पापौघाः शमयन्ति च ॥ ३ ॥

शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम्
यच्छ्रुत्वा पापिनो दोषैर्विमुक्ताः कर्मबन्धनात् ॥ ४ ॥

चम्पके नगरे चैव राजा राज्यं करोति सः
सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः ॥ ५ ॥

अधर्मो धर्मरूपश्च विष्णुनिन्दापरायणः
देव द्विज निहन्ता च आश्रमाणां विदूषकः ॥ ६ ॥

वेदनिन्दापरः श्रीमान्मूर्खो वा निर्घृणः शठः
असच्छास्त्रेषु निरतः परदाराभिमर्शकः ॥ ७ ॥

विदारुणेति नामा च सञ्जातो मूर्ख एव च
कदाचिद्दैवयोगेन आगतस्तां नदीं प्रति ॥ ८ ॥

आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि
महापापादयं जातो ब्राह्मणानां च निन्दनात् ॥ ९ ॥

वृथावादी दुरात्मा च शठो वै निर्घृणः पशुः
वेदनिन्दारतो नित्यं गोशास्त्राणां प्रदूषकः ॥ १० ॥

एवंविधो वने भ्राम्यंस्तृषार्तः स सुहृद्वृतः
अश्वादुत्तीर्य राजाऽसौ जलं पीत्वा गृहं गतः ॥ ११ ॥

तेनैवोदकपानेन गतं कुष्ठं न संशयः
बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः ॥ १२ ॥

विष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि
ततः प्रभृति कालेन स्नानं वै कृतवान्सदा ॥ १३ ॥

निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरि
इहलोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः ॥ १४ ॥

विप्रेभ्यो दक्षिणां दत्वा स गतो वैष्णवं पदम्
इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः ॥ १५ ॥

स्नानं कुर्वन्ति ये विप्रास्ते मुक्ता नगनन्दिनि
राजन्यो वाथ वैश्यो वा शूद्रो वा सुरसत्तमे ॥ १६ ॥

यत्र स्नानं प्रकुर्वन्ति ते मुक्ताः पापबन्धनात्
कार्तिके वाऽथ माघे वा बाह्यो वा वेदनिन्दकः ॥ १७ ॥

सरितां सङ्गमे स्नात्वा मुच्यते देवि किल्बिषात्
साभ्रमत्याः समं यत्र तस्याः सङ्गः प्रदृश्यते ॥ १८ ॥

तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा
खेटकं नगरं दिव्यं स्वर्गरूपं तु वाऽनघे ॥ १९ ॥

ब्रह्मणा तत्र वै देवि योगाश्च बहवः कृताः
तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विद्यते ॥ २० ॥

सा द्वितीया स्मृता गङ्गा कलौ देवि विशेषतः
ये नराः सुखमिच्छन्ति धनमिच्छन्ति ये नराः ॥ २१ ॥

स्वर्गमिच्छन्ति ये लोकास्ते वै स्नात्वा पुनःपुनः
इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् ॥ २२ ॥

सूर्यवंशे च ये जाताः सोमवंशे तथैव च
आगता वेत्रवत्यां तु स्नात्वा निर्वृतिमागताः ॥ २३ ॥

दर्शनाद्धरते दुःखं स्पर्शनान्मानसं ह्यघम्
स्नात्वा भुक्त्वा तथा देवि मुक्तिभागी न संशयः ॥ २४ ॥

स्नानाज्जपात्तथाहोमादनन्तं फलमश्नुते
गत्वा वाराणसीतीर्थं भक्त्या चान्द्रायणं चरेत् ॥ २५ ॥

तत्र गत्वा महत्पुण्यं तत्पुण्यं सुरसत्तमे
वेत्रवत्यां विशेषेण पञ्चत्वं यदि गच्छति ॥ २६ ॥

स वै चतुर्भुजो भूत्वा याति विष्णोः परं पदम्
पृथिव्यां यानि तीर्थानि ये देवाः पितरस्तथा ॥ २७ ॥

ते सर्वे च वसन्तीह वेत्रवत्यां सुरेश्वरि
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ॥ २८ ॥

वेत्रवत्याः समं तीर्थं पृथिव्यां न सनातनि
अहं विष्णुस्तथा ब्रह्मा देवाश्च परमर्षयः ॥ २९ ॥

तिष्ठन्ति देवताः सर्वे वेत्रवत्यां महेश्वरि
एककालं द्विकालं वा त्रिकालं च विशेषतः ॥ ३० ॥

स्नानं कुर्वन्ति ये तत्र ते वै मुक्ता न संशयः ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे वेत्रवती माहात्म्ये चतुस्त्रिंशाधिकशततमोऽध्यायः १३४