पार्वत्युवाच
विश्वास-प्रस्तुतिः
द्वीपेऽस्मिन्यानि तीर्थानि तानि मे वद सुव्रत
द्वीपानां द्वीपराजोऽयं सर्वदा भुवि निर्मितः
सङ्ख्यया त्वं वद स्वामिन्कृपां कृत्वा ममोपरि ॥ १ ॥
मूलम्

महादेव उवाच
सर्वगः सर्वभूतेषु द्रष्टव्यः सर्वतो भुवि
सप्तलोकेषु यत्किञ्चिद्दृश्यते सचराचरम् ॥ २ ॥

तत्वं तेन विना देवि न दृष्टं न श्रुतं मया
अतो विष्णुर्महादेवः केशवः क्लेशनाशनः
तीर्थरूपेण वर्तेत द्वीपे ह्यस्मिन्सुरेश्वरि ॥ ३ ॥

तानि तीर्थानि वक्ष्यामि साम्प्रतं नात्र संशयः
प्रथमं पुष्करं क्षेत्रं तीर्थानां प्रवरं शुभम्
वाराणसी द्वितीयं तु क्षेत्रं मुक्तिप्रदायकम् ॥ ४ ॥

तृतीयं नैमिषं क्षेत्रमृषीणां पावनं स्मृतम्
प्रयागं वै चतुर्थं तु तीर्थानामुत्तमं स्मृतम् ॥ ५ ॥

कार्मुकं पञ्चमं प्रोक्तं उत्पन्नं गन्धमादने
एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ॥ ६ ॥

सप्तमं विश्वकायं तु अवरे पर्वते शुभे
अष्टमं गौतमाख्यं च मन्दरे निर्मितं पुरा ॥ ७ ॥

मदोत्कटं तु नवमं दशमं रथचैत्रकम्
एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ॥ ८ ॥

द्वादशं मलयं चैव कुब्जाम्रकमतः परम्
विश्वेश्वरं गिरिकर्णं केदारं गतिदायकम् ॥ ९ ॥

बाह्यं हिमवतः पृष्ठे गोकर्णे गोपकं तथा
स्थानेश्वरं हिमाद्रौ च बिल्वके बिल्वपत्रिकम् ॥ १० ॥

श्रीशैले माधवं तीर्थं भद्रं भद्रेश्वरे तथा
वाराहे विजयं प्रोक्तं वैष्णवं वैष्णवे गिरौ ॥ ११ ॥

रौद्रं तु रुद्रकोटे तु पैत्र्यं कालिजरे गिरौ
कम्पिले कापिलं तीर्थं मुकुटे कर्कोटकं तथा ॥ १२ ॥

शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि
नर्मदायां शिवाख्यं तु मायायां विश्वरूपकम् ॥ १३ ॥

उत्पलाक्षं सहस्राक्षं जातं वै रैवते गिरौ
गङ्गायां पितृतीर्थं च विष्णुपादोद्भवं तथा ॥ १४ ॥

विपाशायां विपापा च पाटले पुण्ड्रवर्द्धनम्
नारायणंसुपार्श्वेतुत्रिकूटेविष्णुमन्दिरम् ॥ १५ ॥

विपुले विपुलं नाम कल्याणं मलयाचले
कौरवं कोटितीर्थे च सुगन्धं गन्धमादने ॥ १६ ॥

कुब्जाम्रके त्रिसन्ध्यं तु गङ्गान्द्वारे हरिप्रियम्
शैलं विन्ध्यप्रदेशे तु बदर्यां सारस्वतं स्मृतम् ॥ १७ ॥

कालिद्यां कालरूपं च सह्ये वै सायकं स्मृतम्
चान्द्रं चन्द्रप्रदेशे तु रमणं तीर्थनायकम् ॥ १८ ॥

यमुनायां मृगाख्यं तु करवीरे कुरूद्भवम्
विनायके पर्वते वै उमाख्यं तीर्थमेव च ॥ १९ ॥

आरोग्यं भास्करे देशे महाकाले महेश्वरम्
तीर्थं अभयदं नामामृताख्यं विन्ध्यकन्धरे ॥ २० ॥

मण्डपे विश्वरूपं च स्वाहाख्यं ईश्वरे पुरे
वैगलेयं प्रचण्डायां चाण्डिकम्मरकण्टके ॥ २१ ॥

सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा
देवमात्रं सरस्वत्यां पारावततटे स्थितम् ॥ २२ ॥

महालयं महापद्मे पयोष्ण्यां पिङ्गलेश्वरम्
सिंहिकायां तथा तीर्थं सौरवेरविसञ्ज्ञकम् ॥ २३ ॥

कार्तिकं कृत्तिकाक्षेत्रे शाङ्करं शङ्करे गिरौ
उत्पलाख्यं ततो दिव्यं सुभद्रा सिन्धुसङ्गमे ॥ २४ ॥

गाणपत्यं ततश्चैव पर्वतो विष्णुसञ्ज्ञके
जालन्धरे ततः प्रोक्तं तीर्थं विष्णुमुखं च यत् ॥ २५ ॥

तारे वै तारकं प्रोक्तं पर्वते विष्णुसञ्ज्ञके
देवदारुवने पौण्ड्रं पौष्कं काश्मीरमण्डले ॥ २६ ॥

भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः
कपालमोचनं तीर्थं जातं मायापुरे तथा ॥ २७ ॥

शङ्खोद्धारं ततश्चैव देवं वै शङ्खधारकम्
पिण्डे वै पिण्डनामानं सिद्धे वैखानसं भवेत् ॥ २८ ॥

अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम्
औषध्यं चोत्तरेकूले कुशद्वीपे कुशोदकम् ॥ २९ ॥

मन्मथं हेमकूटे तु कुमुदे सत्यवादनम्
वदन्त्यावाश्वकं तीर्थं विन्ध्ये वै मातृकं स्मृतम् ॥ ३० ॥

चित्ते ब्रह्ममयं तीर्थं तीर्थानां पावनं स्मृतम्
एतेषां सर्वतीर्थानामुत्तमं शृणु सुन्दरि ॥ ३१ ॥

विष्णोर्नाममयं तीर्थं न भूतं न भविष्यति
ब्रह्महा हेमहारी वा बालहा गोघ्न एव च ॥ ३२ ॥

मुच्यते नाममात्रेण प्रसादात्केशवस्य तु
कलौ द्वारवती रम्या धन्यो देवो जनार्दनः ॥ ३३ ॥

ये पश्यन्ति नरा देवं मुक्तिस्तेषां सुनिश्चला
एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम् ॥ ३४ ॥

चिन्तयामि महादेवि विद्वत्संस्थो जनार्दनम्
अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम् ॥ ३५ ॥

यो जपेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते
एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम् ॥ ३६ ॥

सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम्
जगन्नाथं महातीर्थं लोकानां पावनं स्मृतम् ॥ ३७ ॥

ये गच्छन्ति नरश्रेष्ठास्तेपि यान्ति परां गतिम्
शताष्टकं महापुण्यं श्रावयेत्पितृकर्मणि ॥ ३८ ॥

इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम्
गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः ॥ ३९ ॥

देवार्चनविधौ विद्वान्परं ब्रह्माधिगच्छति ॥ ४० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां उत्तरखण्डे जम्बूद्वी
पतीर्थवर्णनन्नाम त्रयस्त्रिंशाधिकशततमोऽध्यायः १३३