१३२

पार्वत्युवाच

विश्वास-प्रस्तुतिः

अनन्तवासुदेवस्य कीदृशं स्मरणं स्मृतम्
यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते ॥ १ ॥

मूलम्

अनन्तवासुदेवस्य कीदृशं स्मरणं स्मृतम्
यच्छ्रुत्वा न पुनर्मोहो मानुषाणां प्रजायते ॥ १ ॥

विश्वास-प्रस्तुतिः

महादेव उवाच
दृष्टतत्वेन देवेशि स्मरन्ति विष्णुं नित्यशः
तृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहम् ॥ २ ॥

मूलम्

महादेव उवाच
दृष्टतत्वेन देवेशि स्मरन्ति विष्णुं नित्यशः
तृषातुरो यथा वारि तद्वद्विष्णुं स्मराम्यहम् ॥ २ ॥

विश्वास-प्रस्तुतिः

हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथा
तद्वदेव तु वै विष्णुं स्मरन्ति विबुधादयः ॥ ३ ॥

मूलम्

हिमेनाकुलितं विश्वं स्मरत्यग्निं यथा तथा
तद्वदेव तु वै विष्णुं स्मरन्ति विबुधादयः ॥ ३ ॥

विश्वास-प्रस्तुतिः

पतिव्रता यथा नारी पतिं स्मरति नित्यशः
तथा स्मरन्ति लोकेशं विष्णुं विश्वेश्वरेश्वरम् ॥ ४ ॥

मूलम्

पतिव्रता यथा नारी पतिं स्मरति नित्यशः
तथा स्मरन्ति लोकेशं विष्णुं विश्वेश्वरेश्वरम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

भयार्त्तः शरणं यद्वदर्थलोभी यथा धनम्
पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ॥ ५ ॥

मूलम्

भयार्त्तः शरणं यद्वदर्थलोभी यथा धनम्
पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ॥ ५ ॥

विश्वास-प्रस्तुतिः

दूरस्थोऽपि यथा गेहं चातको माधवं यथा
ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहम् ॥ ६ ॥

मूलम्

दूरस्थोऽपि यथा गेहं चातको माधवं यथा
ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णुं स्मराम्यहम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

हंसा मानसमिच्छन्ति ऋषयः स्मरणं हरेः
भक्ताश्च भक्तिमिच्छन्ति तथा विष्णुं स्मराम्यहम् ॥ ७ ॥

मूलम्

हंसा मानसमिच्छन्ति ऋषयः स्मरणं हरेः
भक्ताश्च भक्तिमिच्छन्ति तथा विष्णुं स्मराम्यहम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठति
आयुर्वाञ्च्छन्ति ये जीवास्तथा विष्णुं स्मराम्यहम् ॥ ८ ॥

मूलम्

प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठति
आयुर्वाञ्च्छन्ति ये जीवास्तथा विष्णुं स्मराम्यहम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम्
यथात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् ॥ ९ ॥

मूलम्

भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम्
यथात्मवल्लभा भक्तिस्तथा विष्णुं स्मराम्यहम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

अन्धेनाकुलिता लोका दीपं वाञ्च्छन्ति वै यथा
तथा वै पुरुषा लोके स्मरणं केशवस्य च ॥ १० ॥

मूलम्

अन्धेनाकुलिता लोका दीपं वाञ्च्छन्ति वै यथा
तथा वै पुरुषा लोके स्मरणं केशवस्य च ॥ १० ॥

विश्वास-प्रस्तुतिः

यथा श्रमार्त्ता विश्रामं निद्रा व्यसनिनो यथा
गतालस्या यथा विद्यां तथा विष्णुं स्मराम्यहम् ॥ ११ ॥

मूलम्

यथा श्रमार्त्ता विश्रामं निद्रा व्यसनिनो यथा
गतालस्या यथा विद्यां तथा विष्णुं स्मराम्यहम् ॥ ११ ॥

विश्वास-प्रस्तुतिः

मातङ्गाः पार्वतीं भूमिं सिंहा वनगजादिकम्
तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः ॥ १२ ॥

मूलम्

मातङ्गाः पार्वतीं भूमिं सिंहा वनगजादिकम्
तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः ॥ १२ ॥

विश्वास-प्रस्तुतिः

सूर्यकान्ते रवेर्योगाद्वह्निस्तत्र प्रजायते
एवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते ॥ १३ ॥

मूलम्

सूर्यकान्ते रवेर्योगाद्वह्निस्तत्र प्रजायते
एवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते ॥ १३ ॥

विश्वास-प्रस्तुतिः

शीतरश्मेर्यथा कान्तश्चन्द्रयोगादपः श्रयेत्
एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती ॥ १४ ॥

मूलम्

शीतरश्मेर्यथा कान्तश्चन्द्रयोगादपः श्रयेत्
एवं वैष्णवसंयोगान्मुक्तिर्भवति शाश्वती ॥ १४ ॥

विश्वास-प्रस्तुतिः

कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकासते
तद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् ॥ १५ ॥

मूलम्

कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकासते
तद्वद्देवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

यथानलायाः सन्त्रस्ता भ्रमरी स्मरणं चरेत्
तेन स्मरणयोगेन नलासारूप्यतामियात् ॥ १६ ॥

मूलम्

यथानलायाः सन्त्रस्ता भ्रमरी स्मरणं चरेत्
तेन स्मरणयोगेन नलासारूप्यतामियात् ॥ १६ ॥

विश्वास-प्रस्तुतिः

गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम्
ताश्च सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् ॥ १७ ॥

मूलम्

गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम्
ताश्च सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

केऽपि वै दुष्टभावेन च्छद्मभावेन केचन
के चापि लोभभावेन चिन्तयन्ति जनार्दनम् ॥ १८ ॥

मूलम्

केऽपि वै दुष्टभावेन च्छद्मभावेन केचन
के चापि लोभभावेन चिन्तयन्ति जनार्दनम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः
केऽपि स्वामित्त्वभावेन बुद्धया वा बुद्धिपूर्वकम् ॥ १९ ॥

मूलम्

भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः
केऽपि स्वामित्त्वभावेन बुद्धया वा बुद्धिपूर्वकम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

येनकेनापि भावेन चिन्तयन्ति जनार्दनम्
इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् ॥ २० ॥

मूलम्

येनकेनापि भावेन चिन्तयन्ति जनार्दनम्
इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् ॥ २० ॥

विश्वास-प्रस्तुतिः

अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम्
यदृच्छयापि स्मरणं त्रिधामुक्तिप्रदायकम् ॥ २१ ॥

मूलम्

अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम्
यदृच्छयापि स्मरणं त्रिधामुक्तिप्रदायकम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

न धनेन समृद्धेन विपुलाविद्यया तथा
एकेन भक्तियोगेन समीपे दृश्यते क्षणात् ॥ २२ ॥

मूलम्

न धनेन समृद्धेन विपुलाविद्यया तथा
एकेन भक्तियोगेन समीपे दृश्यते क्षणात् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सान्निध्येऽपि स्थितो दूरे नेत्रयोरञ्जनं यथा
भक्तियोगेन दृश्येन भक्तैश्चैव सनातनः ॥ २३ ॥

मूलम्

सान्निध्येऽपि स्थितो दूरे नेत्रयोरञ्जनं यथा
भक्तियोगेन दृश्येन भक्तैश्चैव सनातनः ॥ २३ ॥

विश्वास-प्रस्तुतिः

इदं तत्वमिदं तत्वं मोहितो देवमायया
भक्तितत्वं यदा प्राप्तं तदा विष्णुमयं जगत् ॥ २४ ॥

मूलम्

इदं तत्वमिदं तत्वं मोहितो देवमायया
भक्तितत्वं यदा प्राप्तं तदा विष्णुमयं जगत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

इन्द्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुन्दरि
तथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना ॥ २५ ॥

मूलम्

इन्द्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुन्दरि
तथापि दुःखितास्ते वै भक्त्या विष्णोर्यथा विना ॥ २५ ॥

विश्वास-प्रस्तुतिः

भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायते
वैकुण्ठाख्यं पदं प्राप्य मोदते विष्णुसन्निधौ ॥ २६ ॥

मूलम्

भक्तिमेवामृतं प्राप्य पुनर्दुःखं न जायते
वैकुण्ठाख्यं पदं प्राप्य मोदते विष्णुसन्निधौ ॥ २६ ॥

विश्वास-प्रस्तुतिः

वारि त्यक्त्वा यथा हंसः पयः पिबति नित्यशः
एवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् ॥ २७ ॥

मूलम्

वारि त्यक्त्वा यथा हंसः पयः पिबति नित्यशः
एवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् ॥ २७ ॥

विश्वास-प्रस्तुतिः

अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेत्
तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् ॥ २८ ॥

मूलम्

अन्यभक्तिं परित्यज्य विष्णुभक्तिं समाश्रयेत्
तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् ॥ २८ ॥

विश्वास-प्रस्तुतिः

प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः
विष्णुभक्तिं विना धर्मानुपदिशन्ति ये जनाः
ते पतन्ति सदा घोरे नरके नात्र संशयः ॥ २९ ॥

मूलम्

प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः
विष्णुभक्तिं विना धर्मानुपदिशन्ति ये जनाः
ते पतन्ति सदा घोरे नरके नात्र संशयः ॥ २९ ॥

विश्वास-प्रस्तुतिः

बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवाञ्छति
संसारसागरं तद्वद्विष्णुभक्तिं विना नरः ॥ ३० ॥

मूलम्

बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवाञ्छति
संसारसागरं तद्वद्विष्णुभक्तिं विना नरः ॥ ३० ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तिं च रक्षन्ति कर्मणा पात्यते यदि
अकिञ्चनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् ॥ ३१ ॥

मूलम्

विष्णुभक्तिं च रक्षन्ति कर्मणा पात्यते यदि
अकिञ्चनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तव भक्तौ तथा देव मया हि क्रियते स्पृहा
जन्मान्तरे हि सा भक्तिर्मामकी यत्करोति हि ॥ ३२ ॥

मूलम्

तव भक्तौ तथा देव मया हि क्रियते स्पृहा
जन्मान्तरे हि सा भक्तिर्मामकी यत्करोति हि ॥ ३२ ॥

विश्वास-प्रस्तुतिः

वह्निर्यथेह स्वल्पोऽपि दहते विविधं वनम्
तद्वदेव तु सा भक्तिरणुमात्रा कृता मया ॥ ३३ ॥

मूलम्

वह्निर्यथेह स्वल्पोऽपि दहते विविधं वनम्
तद्वदेव तु सा भक्तिरणुमात्रा कृता मया ॥ ३३ ॥

विश्वास-प्रस्तुतिः

शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते
तेषां मध्ये तु देवेशि भक्तोह्येकः प्रजायते ॥ ३४ ॥

मूलम्

शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते
तेषां मध्ये तु देवेशि भक्तोह्येकः प्रजायते ॥ ३४ ॥

विश्वास-प्रस्तुतिः

बुद्धिं परेषां दास्यन्ति लोके बहुविधा जनाः
स्वयमाचरते सोऽपि नरः कोटिषु दृश्यते ॥ ३५ ॥

मूलम्

बुद्धिं परेषां दास्यन्ति लोके बहुविधा जनाः
स्वयमाचरते सोऽपि नरः कोटिषु दृश्यते ॥ ३५ ॥

विश्वास-प्रस्तुतिः

पूजया हस्यते भक्तिर्जयेन परिहस्यते
एवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते ॥ ३६ ॥

मूलम्

पूजया हस्यते भक्तिर्जयेन परिहस्यते
एवं भावो हि देवेशे भक्तिस्तेनैव गृह्यते ॥ ३६ ॥

विश्वास-प्रस्तुतिः

सागरे च यथा पातः कूपे त्राणोपवेशनम्
यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते ॥ ३७ ॥

मूलम्

सागरे च यथा पातः कूपे त्राणोपवेशनम्
यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते ॥ ३७ ॥

विश्वास-प्रस्तुतिः

मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यते
भजनादेव भो देवि फलमग्रे प्रतिष्ठितम् ॥ ३८ ॥

मूलम्

मूले सिक्तस्य वृक्षस्य पत्रं शाखासु दृश्यते
भजनादेव भो देवि फलमग्रे प्रतिष्ठितम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

पानीयहारिणा यद्वत्घटे चित्तं प्रधीयते
तद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयात् ॥ ३९ ॥

मूलम्

पानीयहारिणा यद्वत्घटे चित्तं प्रधीयते
तद्वद्देवे हरौ चित्तं धृत्वा मोक्षमवाप्नुयात् ॥ ३९ ॥

विश्वास-प्रस्तुतिः

शैशवे च यथा माता गुडं स्तोकं ददाति वै
पुनर्याचति वै बालो गुडं वै लोभकारणात् ॥ ४० ॥

मूलम्

शैशवे च यथा माता गुडं स्तोकं ददाति वै
पुनर्याचति वै बालो गुडं वै लोभकारणात् ॥ ४० ॥

विश्वास-प्रस्तुतिः

नीरे नीरं यथाक्षिप्तं दुग्धे दुग्धं घृते घृतम्
तद्वद्भेदं न पश्यन्ति विष्णुभक्तिप्रसादतः ॥ ४१ ॥

मूलम्

नीरे नीरं यथाक्षिप्तं दुग्धे दुग्धं घृते घृतम्
तद्वद्भेदं न पश्यन्ति विष्णुभक्तिप्रसादतः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा
भक्तिः स्थितस्तथा भक्तः कर्मभिर्नैव बाध्यते ॥ ४२ ॥

मूलम्

भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा
भक्तिः स्थितस्तथा भक्तः कर्मभिर्नैव बाध्यते ॥ ४२ ॥

विश्वास-प्रस्तुतिः

अजामिलः स्वधर्मं च त्यक्त्वा पापं समाचरन्
पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान्ध्रुवम् ॥ ४३ ॥

मूलम्

अजामिलः स्वधर्मं च त्यक्त्वा पापं समाचरन्
पुत्रं नारायणं स्मृत्वा मुक्तिं वै प्राप्तवान्ध्रुवम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

दिवारात्रौ च ये भक्ता नाममात्रोपजीविनः
वैकुण्ठवासिनस्ते वै तत्र वेदा हि साक्षिणः ॥ ४४ ॥

मूलम्

दिवारात्रौ च ये भक्ता नाममात्रोपजीविनः
वैकुण्ठवासिनस्ते वै तत्र वेदा हि साक्षिणः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते
तत्फलं तु समग्रं वै भुक्त्वा वै सम्पतन्ति च ॥ ४५ ॥

मूलम्

अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते
तत्फलं तु समग्रं वै भुक्त्वा वै सम्पतन्ति च ॥ ४५ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशः
वैकुण्ठं प्राप्य वा तेषां पुनरागमनं कदा ॥ ४६ ॥

मूलम्

विष्णुभक्तिस्तथा देवि भुक्त्वा भोगाननेकशः
वैकुण्ठं प्राप्य वा तेषां पुनरागमनं कदा ॥ ४६ ॥

विश्वास-प्रस्तुतिः

विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौ
दृष्टान्तं पश्य देवेशि विष्णुभक्तिप्रसादतः ॥ ४७ ॥

मूलम्

विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौ
दृष्टान्तं पश्य देवेशि विष्णुभक्तिप्रसादतः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताः
विना जलं सोमकान्तो विष्णुभक्तस्य मानसम् ॥ ४८ ॥

मूलम्

ग्रावाणो जलमध्यस्थाः शतशस्तेन तारिताः
विना जलं सोमकान्तो विष्णुभक्तस्य मानसम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

दर्दुरो वसते नीरे षट्पदो हि वनान्तरे
गन्धं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः ॥ ४९ ॥

मूलम्

दर्दुरो वसते नीरे षट्पदो हि वनान्तरे
गन्धं वेत्ति कुमुद्वत्या भक्तो भक्तौ तथा हरेः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

गङ्गातटे वसन्त्येके एके वै शतयोजनम्
कश्चिद्गङ्गाफलं वेत्ति विष्णुभक्तिं परस्तथा 6.132.॥ ५० ॥

मूलम्

गङ्गातटे वसन्त्येके एके वै शतयोजनम्
कश्चिद्गङ्गाफलं वेत्ति विष्णुभक्तिं परस्तथा 6.132.॥ ५० ॥

विश्वास-प्रस्तुतिः

कर्पूरागुरुभारं हि उष्ट्रो वहति नित्यशः
मध्यगन्धं न जानाति तथा विष्णुं बहिर्मुखाः ॥ ५१ ॥

मूलम्

कर्पूरागुरुभारं हि उष्ट्रो वहति नित्यशः
मध्यगन्धं न जानाति तथा विष्णुं बहिर्मुखाः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

मृगाः शालं हि जिघ्रन्ति कस्तूरीगन्धमिच्छवः
स्वनाभिस्थं न जानन्ति तथा विष्णुं बहिर्मुखाः ॥ ५२ ॥

मूलम्

मृगाः शालं हि जिघ्रन्ति कस्तूरीगन्धमिच्छवः
स्वनाभिस्थं न जानन्ति तथा विष्णुं बहिर्मुखाः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

उपदेशो हि मूर्खाणां वृथा वै नगनन्दिनि
तथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे ॥ ५३ ॥

मूलम्

उपदेशो हि मूर्खाणां वृथा वै नगनन्दिनि
तथैव विष्णुभक्तेर्हि उपदेशो बहिर्मुखे ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अहिना च पयः पीतं तत्पयो हि विषायते
तथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते ॥ ५४ ॥

मूलम्

अहिना च पयः पीतं तत्पयो हि विषायते
तथा वै चान्यभक्तानां विष्णुभक्तिर्विषायते ॥ ५४ ॥

विश्वास-प्रस्तुतिः

चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव च
समीपस्था न पश्यन्ति तथा विष्णुं बहिर्मुखाः ॥ ५५ ॥

मूलम्

चक्षुर्विना यथा दीपं दृष्ट्वा दर्पणमेव च
समीपस्था न पश्यन्ति तथा विष्णुं बहिर्मुखाः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

पावको हि यथा धूमैरादर्शोपि मलेन च
यथोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः ॥ ५६ ॥

मूलम्

पावको हि यथा धूमैरादर्शोपि मलेन च
यथोल्बेनावृतो गर्भो देहे कृष्णस्तथावृतः ॥ ५६ ॥

विश्वास-प्रस्तुतिः

दुग्धे सर्पिः स्थितं यद्वत्तिले तैलं तु सर्वदा
चराचरे तथा विष्णुर्दृश्यते नगनन्दिनि ॥ ५७ ॥

मूलम्

दुग्धे सर्पिः स्थितं यद्वत्तिले तैलं तु सर्वदा
चराचरे तथा विष्णुर्दृश्यते नगनन्दिनि ॥ ५७ ॥

विश्वास-प्रस्तुतिः

एकसूत्रे मणिगणा धार्यन्ते बहवो यथा
एवं ब्रह्मादिभिर्विश्वं सम्प्रोतं ब्रह्मचिन्मये ॥ ५८ ॥

मूलम्

एकसूत्रे मणिगणा धार्यन्ते बहवो यथा
एवं ब्रह्मादिभिर्विश्वं सम्प्रोतं ब्रह्मचिन्मये ॥ ५८ ॥

विश्वास-प्रस्तुतिः

यथा काष्ठे स्थितो वह्निर्मन्थनादेव दृश्यते
एवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते ॥ ५९ ॥

मूलम्

यथा काष्ठे स्थितो वह्निर्मन्थनादेव दृश्यते
एवं सर्वगतो विष्णुर्ध्यानादेव प्रदृश्यते ॥ ५९ ॥

विश्वास-प्रस्तुतिः

आदिरेको भवेद्दीपस्तस्माज्जाताः सहस्रशः
एवमेकः स्थितो विष्णुः सर्वव्याप्य प्रतिष्ठति ॥ ६० ॥

मूलम्

आदिरेको भवेद्दीपस्तस्माज्जाताः सहस्रशः
एवमेकः स्थितो विष्णुः सर्वव्याप्य प्रतिष्ठति ॥ ६० ॥

विश्वास-प्रस्तुतिः

यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदा
दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः ॥ ६१ ॥

मूलम्

यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदा
दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

मारुतः प्रकृतिस्थोऽपि नानागन्धवहः सदा
ईश्वरः सर्वजीवस्थो भुङ्क्ते प्रकृतिजान्गुणान् ॥ ६२ ॥

मूलम्

मारुतः प्रकृतिस्थोऽपि नानागन्धवहः सदा
ईश्वरः सर्वजीवस्थो भुङ्क्ते प्रकृतिजान्गुणान् ॥ ६२ ॥

विश्वास-प्रस्तुतिः

शर्करा विषसंयोगान्नीरं भवति यादृशम्
सम्भूत्त्वा तादृशो ह्यात्मा कर्मणः फलमश्नुते ॥ ६३ ॥

मूलम्

शर्करा विषसंयोगान्नीरं भवति यादृशम्
सम्भूत्त्वा तादृशो ह्यात्मा कर्मणः फलमश्नुते ॥ ६३ ॥

विश्वास-प्रस्तुतिः

उर्वी च नीरसंयोगान्नानावृक्षा प्रजायते
प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते ॥ ६४ ॥

मूलम्

उर्वी च नीरसंयोगान्नानावृक्षा प्रजायते
प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते ॥ ६४ ॥

विश्वास-प्रस्तुतिः

गजे वै मशके चैव देवे वा मानुषेऽपि वा
नाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ॥ ६५ ॥

मूलम्

गजे वै मशके चैव देवे वा मानुषेऽपि वा
नाधिको न च न्यूनो वै निष्ठो देहे स निश्चलः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

ब्रह्मादिस्तम्बपर्यन्ता ये चात्र भुवि मानवाः
देवा यज्ञास्तथा नागा गन्धर्वाः किन्नरादयः ॥ ६६ ॥

मूलम्

ब्रह्मादिस्तम्बपर्यन्ता ये चात्र भुवि मानवाः
देवा यज्ञास्तथा नागा गन्धर्वाः किन्नरादयः ॥ ६६ ॥

विश्वास-प्रस्तुतिः

तेषु सर्वेषु दृश्यन्ते जले चन्द्रमसो यथा
स सच्चिदानन्दशिवः स महेशो हि दृश्यते ॥ ६७ ॥

मूलम्

तेषु सर्वेषु दृश्यन्ते जले चन्द्रमसो यथा
स सच्चिदानन्दशिवः स महेशो हि दृश्यते ॥ ६७ ॥

विश्वास-प्रस्तुतिः

स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिः
वेदान्तवेद्यः सर्वेशः कालातीतो ह्यनामयः ॥ ६८ ॥

मूलम्

स वै विष्णुस्तथा प्रोक्तः सोऽयं सर्वगतो हरिः
वेदान्तवेद्यः सर्वेशः कालातीतो ह्यनामयः ॥ ६८ ॥

विश्वास-प्रस्तुतिः

एवं तं वेत्ति यो देवि स भक्तो नात्र संशयः
एको हि बहुधा ज्ञेयो बहुधाप्येक एव सः ॥ ६९ ॥

मूलम्

एवं तं वेत्ति यो देवि स भक्तो नात्र संशयः
एको हि बहुधा ज्ञेयो बहुधाप्येक एव सः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

नामरूपविभेदेन जल्प्यते बहुधा भुवि
चक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते ॥ ७० ॥

मूलम्

नामरूपविभेदेन जल्प्यते बहुधा भुवि
चक्षुषा न रवेर्ज्योतिर्भानुना चक्षुरेधते ॥ ७० ॥

विश्वास-प्रस्तुतिः

परमात्मा तथा चात्मा प्रतिदेहे तु सर्वदा
घटे घटे यथाकाशस्तस्मिन्भग्ने यथा स्थितः ॥ ७१ ॥

मूलम्

परमात्मा तथा चात्मा प्रतिदेहे तु सर्वदा
घटे घटे यथाकाशस्तस्मिन्भग्ने यथा स्थितः ॥ ७१ ॥

विश्वास-प्रस्तुतिः

रूपे रूपे तथा त्वं हि भग्ने तस्मिन्सुनिश्चलः
यथा काष्ठमयं रूपं पतते प्रभुणा विना ॥ ७२ ॥

मूलम्

रूपे रूपे तथा त्वं हि भग्ने तस्मिन्सुनिश्चलः
यथा काष्ठमयं रूपं पतते प्रभुणा विना ॥ ७२ ॥

विश्वास-प्रस्तुतिः

क्रिमिभेदमयो देहो पतते चात्मना विना
हेम्नो भवन्ति वर्णाश्च वह्निना यान्ति पूर्ववत् ॥ ७३ ॥

मूलम्

क्रिमिभेदमयो देहो पतते चात्मना विना
हेम्नो भवन्ति वर्णाश्च वह्निना यान्ति पूर्ववत् ॥ ७३ ॥

विश्वास-प्रस्तुतिः

तद्वज्जीवाः प्रपद्यन्ते भक्ता वै पूर्वरूपताम्
स्वघनेनावृतं सूर्यं मूढाः पश्यन्ति निष्प्रभम् ॥ ७४ ॥

मूलम्

तद्वज्जीवाः प्रपद्यन्ते भक्ता वै पूर्वरूपताम्
स्वघनेनावृतं सूर्यं मूढाः पश्यन्ति निष्प्रभम् ॥ ७४ ॥

विश्वास-प्रस्तुतिः

तथाऽज्ञानधियो मूढा न जानन्ति तमीश्वरम्
निर्विकल्पं निराकारं वेदां तैः परिपाठ्यते ॥ ७५ ॥

मूलम्

तथाऽज्ञानधियो मूढा न जानन्ति तमीश्वरम्
निर्विकल्पं निराकारं वेदां तैः परिपाठ्यते ॥ ७५ ॥

विश्वास-प्रस्तुतिः

निराकाराच्च साकारं स्वेच्छया च प्रकाशते
तस्मात्सञ्जातमाकाशं निःशब्दं गुणवर्जितम् ॥ ७६ ॥

मूलम्

निराकाराच्च साकारं स्वेच्छया च प्रकाशते
तस्मात्सञ्जातमाकाशं निःशब्दं गुणवर्जितम् ॥ ७६ ॥

विश्वास-प्रस्तुतिः

आकाशान्मारुतो जातः सशब्दं च तदाऽभवत्
वातादजायत ज्योतिर्ज्योतिषश्चाभवज्जलम् ॥ ७७ ॥

मूलम्

आकाशान्मारुतो जातः सशब्दं च तदाऽभवत्
वातादजायत ज्योतिर्ज्योतिषश्चाभवज्जलम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपधृक्
तस्य नाभिसरोजे च ब्रह्माण्डानां च कोटयः ॥ ७८ ॥

मूलम्

तज्जले रुक्मगर्भश्च विराड्वै विश्वरूपधृक्
तस्य नाभिसरोजे च ब्रह्माण्डानां च कोटयः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

प्रकृतिः पुरुषस्तस्मान्निर्मितं तु त्रिधा जगत्
तयोर्द्वयोश्च संयोगात्तत्त्वयोगो ऽभ्यजायत ॥ ७९ ॥

मूलम्

प्रकृतिः पुरुषस्तस्मान्निर्मितं तु त्रिधा जगत्
तयोर्द्वयोश्च संयोगात्तत्त्वयोगो ऽभ्यजायत ॥ ७९ ॥

विश्वास-प्रस्तुतिः

सात्विकी विष्णुसम्भूतिर्ब्रह्मा वै राजसः स्मृतः
शिवस्तु तामसः प्रोक्त एभिः सर्वं प्रवर्तितम् ॥ ८० ॥

मूलम्

सात्विकी विष्णुसम्भूतिर्ब्रह्मा वै राजसः स्मृतः
शिवस्तु तामसः प्रोक्त एभिः सर्वं प्रवर्तितम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

एका ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतः
तया संहरते विष्णुः सर्वलोकानुशेषतः ॥ ८१ ॥

मूलम्

एका ब्राह्मी स्थितिर्लोके कर्मबीजानुसारतः
तया संहरते विष्णुः सर्वलोकानुशेषतः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययः
एवं सर्वगतो विष्णुरादिमध्यान्त एव च ॥ ८२ ॥

मूलम्

तिष्ठत्यसौ तदा तत्र भगवान्विष्णुरव्ययः
एवं सर्वगतो विष्णुरादिमध्यान्त एव च ॥ ८२ ॥

विश्वास-प्रस्तुतिः

अविद्यया न जानन्ति लोका वै कर्मनिश्चिताः
वर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ॥ ८३ ॥

मूलम्

अविद्यया न जानन्ति लोका वै कर्मनिश्चिताः
वर्णोचितानि कर्माणि यः कालेषु प्रकारयेत् ॥ ८३ ॥

विश्वास-प्रस्तुतिः

यत्कर्मविष्णुदैवत्यं न हि गर्भस्य कारणम्
वेदान्तशास्त्रे मुनिभिः सर्वदैव विचार्यते ॥ ८४ ॥

मूलम्

यत्कर्मविष्णुदैवत्यं न हि गर्भस्य कारणम्
वेदान्तशास्त्रे मुनिभिः सर्वदैव विचार्यते ॥ ८४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मज्ञानमिदं देहे तदहं परिकीर्त्तये
शुभाशुभस्य कार्यं च कारणं मन एव हि ॥ ८५ ॥

मूलम्

ब्रह्मज्ञानमिदं देहे तदहं परिकीर्त्तये
शुभाशुभस्य कार्यं च कारणं मन एव हि ॥ ८५ ॥

विश्वास-प्रस्तुतिः

मनसा शुध्यते सर्वं तदा ब्रह्म सनातनम्
मन एव सदा बन्धुर्मन एव सदा रिपुः ॥ ८६ ॥

मूलम्

मनसा शुध्यते सर्वं तदा ब्रह्म सनातनम्
मन एव सदा बन्धुर्मन एव सदा रिपुः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

मनसा तारिताः केचिन्मनसा यातिताश्च के
मध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् ॥ ८७ ॥

मूलम्

मनसा तारिताः केचिन्मनसा यातिताश्च के
मध्ये सर्वपरित्यागः बाह्ये कर्म तथाचरन् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

एवमेव कृतं कर्म कुर्वन्नपि न लिप्यते
पद्मपत्रं यथा नीर लेशैरपि न लिप्यते ॥ ८८ ॥

मूलम्

एवमेव कृतं कर्म कुर्वन्नपि न लिप्यते
पद्मपत्रं यथा नीर लेशैरपि न लिप्यते ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनम्
यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा ॥ ८९ ॥

मूलम्

अग्निरग्नौ यथा क्षिप्तो भक्त्या च किं प्रयोजनम्
यदा भक्तिरसो ज्ञातो न मुक्ती रोचते तदा ॥ ८९ ॥

विश्वास-प्रस्तुतिः

योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि
भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् ॥ ९० ॥

मूलम्

योगैरष्टविधैर्विष्णुर्न प्राप्यश्चेह जन्मनि
भक्त्या वा प्राप्यते विष्णुः सर्वदा सुलभो भवेत् ॥ ९० ॥

विश्वास-प्रस्तुतिः

वेदान्तैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च
तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् ॥ ९१ ॥

मूलम्

वेदान्तैः प्राप्यते ज्ञानं ज्ञानेन ज्ञेयमेव च
तत्तु ज्ञेयं यदा प्राप्तं तदा शून्यमिदं जगत् ॥ ९१ ॥

विश्वास-प्रस्तुतिः

बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम्
सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते ॥ ९२ ॥

मूलम्

बलेन प्राप्यते विष्णुर्योगैरष्टविधैश्च किम्
सर्वेषामेव भावानां भावशुद्धिः प्रशस्यते ॥ ९२ ॥

विश्वास-प्रस्तुतिः

आलिङ्ग्यते यथा कान्ता यथा भावस्तथा फलम्
उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् ॥ ९३ ॥

मूलम्

आलिङ्ग्यते यथा कान्ता यथा भावस्तथा फलम्
उपानद्युक्तपादो हि वेत्ति चर्ममयीं महीम् ॥ ९३ ॥

विश्वास-प्रस्तुतिः

बुद्धिर्यथाविधा यस्य तद्वत्स मन्यते जगत्
दुग्धेन सिक्तो निम्बोऽपि कटुभावं न तु त्यजेत् ॥ ९४ ॥

मूलम्

बुद्धिर्यथाविधा यस्य तद्वत्स मन्यते जगत्
दुग्धेन सिक्तो निम्बोऽपि कटुभावं न तु त्यजेत् ॥ ९४ ॥

विश्वास-प्रस्तुतिः

प्रकृतिं यान्ति भूतानि उपदेशो निरर्थकः
छित्वा वै सहकारं च फलं पत्रं कथं लभेत् ॥ ९५ ॥

मूलम्

प्रकृतिं यान्ति भूतानि उपदेशो निरर्थकः
छित्वा वै सहकारं च फलं पत्रं कथं लभेत् ॥ ९५ ॥

विश्वास-प्रस्तुतिः

इन्द्रियाणां सुखार्थेन वृथा जन्म कथं नयेत्
स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा ॥ ९६ ॥

मूलम्

इन्द्रियाणां सुखार्थेन वृथा जन्म कथं नयेत्
स्थाल्यां वैडूर्यमय्यां हि पच्यते चौषधं यथा ॥ ९६ ॥

विश्वास-प्रस्तुतिः

दह्यते चागदस्तद्वद्वृथाजन्म कथं भवेत्
निधानं च गृहे क्षिप्त्वा शुभः सेवां कथं चरेत् ॥ ९७ ॥

मूलम्

दह्यते चागदस्तद्वद्वृथाजन्म कथं भवेत्
निधानं च गृहे क्षिप्त्वा शुभः सेवां कथं चरेत् ॥ ९७ ॥

विश्वास-प्रस्तुतिः

त्यक्त्वा वैकुण्ठनाथं तमन्यमार्गे कथं रमेत्
भक्तिहीनैश्चतुर्वेदैः पठितैः किं प्रयोजनम् ॥ ९८ ॥

मूलम्

त्यक्त्वा वैकुण्ठनाथं तमन्यमार्गे कथं रमेत्
भक्तिहीनैश्चतुर्वेदैः पठितैः किं प्रयोजनम् ॥ ९८ ॥

विश्वास-प्रस्तुतिः

श्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते
स्वकरे कङ्कणं बद्ध्वा दर्पणैः किं प्रयोजनम् ॥ ९९ ॥

मूलम्

श्वापचो भक्तियुक्तस्तु त्रिदशैरपि पूज्यते
स्वकरे कङ्कणं बद्ध्वा दर्पणैः किं प्रयोजनम् ॥ ९९ ॥

ब्रह्मरुद्रादिभिर्देवैर्दत्तैश्वर्याश्च सेवकाः
अर्पितं नैव गृह्णन्ति प्रभोश्चैव तु किञ्चन 6.132.१००
अकिञ्चनाय भक्ताय दातुं नालं गतो वरम्
निःशरीरस्य कृष्णस्य तत्र ध्यानं कथं भवेत् १०१
साकारं बहवो दृष्ट्वा गता भक्त्या च तत्पदम्
पूजा भक्तिः कथं शून्ये साकारे कथ्यते बुधैः १०२
शून्यमार्गे कथं याति आधारेण विना नरः
साकारो यः स्वयं स्वामी निराकारः स वै प्रभुः १०३
साकारो हि सुखेनैव निराकारो न दृश्यते
सेवारसश्च साकारे निराकारेण वैरसः १०४
साकारेण निराकारो ज्ञायते स्वयमेव हि
हरिस्मृतिप्रसादेन रोमाञ्चित तनुर्यदा १०५
नयनानन्दसलिलं मुक्तिर्दासी भवेत्तदा
बाल्ये च यत्कृतं पापं तत्कथं न विनश्यति १०६
पूजादानव्रतैस्तीर्थैर्जपहोमैस्त्वदर्पितैः
निजधर्मं परित्यज्य तपो घोरं कथं चरेत् १०७
स्वधर्मे निधनं श्रेयः परमधर्मो भयावहः
विधिं सन्त्यज्य शास्त्रीयं तपो घोरं कथं चरेत् १०८
आश्रमेण विना मूढो नैव सिद्धिमवाप्नुयात्
ब्रह्मणा निर्मिता वर्णाः स्वे स्वे धर्मे नियोजिताः १०९
स्वधर्मेणागतं द्रव्यं शुक्लद्रव्यं तदुच्यते
शुक्लद्रव्येण यद्दानं दीयते श्रद्धयान्वितम् ११०
स्वल्पेनापि महत्पुण्यं तस्य सङ्ख्या न विद्यते
नीचसङ्गेन यद्द्रव्यमानीतं गृहकर्मसु १११
तेन द्रव्येण यद्दानं कृतं वै मनुजादिभिः
तत्फलं न भवेत्ते वै नैव तत्फलभागिनः ११२
यादृशं कुरुते कर्म इन्द्रियाणां सुखेच्छया
तादृशीं योनिमाप्नोति मूढो हि ज्ञानदुर्बलः ११३
इह यत्कुरुते कर्म तत्परत्रोपभुज्यते
पुण्यमाचरतः पुंसो यदि दुःखं प्रजायते ११४
तदा तापो न कर्त्तव्यस्तत्कर्म पूर्वदेहजम्
पापमाचरतः पुंसो जायते दुःखमेव च ११५
न कर्त्तव्यस्तदा हर्षः सुखे तत्र सुरेश्वरि
रज्जुबद्धाश्च पशवः प्रभुणा स्वेच्छया यथा ११६
नीयन्ते कर्मबन्धेन मनुजा अपि भूतले
शाखामृगो वनचरो नृत्यते च गृहे गृहे ११७
एवं च कर्मणा जीवा नीयन्ते सर्वयोनिषु
क्रीडता कन्दुको यद्वत्प्रेर्यते प्रभुणेच्छया ११८
कर्मणा वा तथा जन्तुर्नीयते सुखदुःखयोः
प्राणी स्वकर्मभिर्बद्धो न शक्तो बन्धनिग्रहे ११९
देवा वै कर्मभिर्बद्धा ऋषयश्च तथापरे
कैलासे रुद्रदेहस्था भुजङ्गा विषभोजिनः १२०
असमर्थाः सुधा भोक्तुं कर्मयोनिर्बलीयसी
नीरोगदेहदाता यो बुधैः सूर्यो हि कथ्यते १२१
तद्रथे सारथिः पङ्गुः कर्मयोनिर्बलीयसी
इन्द्रद्युम्नो हि राजर्षिर्गजत्वं कर्मणा गतः १२२
समर्थस्वामिना तस्मिन्कर्मयोनिर्वृथा कृता
रुद्रब्रह्मादयो देवा मानवाश्चासुराश्च ये १२३
ते सर्वे कर्मबद्धाश्च विचरन्ति महीतले
कर्माधीनं जगत्सर्वं विष्णुना निर्मितं पुरा १२४
तत्कर्मकेशवाधीनं रामनाम्ना विनश्यति
सर्वत्रापि स्थितं तोयं मुक्तिदं तु सितासिते १२५
एवमाचरतां कर्म मुक्तिदं केशवार्चनम्
इन्द्रियाणां सुखार्थाय यः कर्म मनसाचरेत् १२६
अहं कृतेन मन्येत केवलं देहमेव हि
मनसा संस्मरन्जन्तुः प्रायश्चित्तं समाचरेत् १२७
स पूर्वकर्मभोक्ता च अग्रे कर्म न वर्द्धते
प्रशंसन्ति ग्रहान्केचित्केचित्प्रेतपिशाचकान् १२८
केचिद्देवान्प्रशंसन्ति ह्योषधीः केचिदूचिरे
केचिन्मन्त्रं च सिद्धिं च केचिद्बुद्धिपराक्रमम् १२९
उद्यमं साहसं धैर्यं केचिन्नीतिं बलं तथा
अहङ्कर्मप्रशंसाभिः सर्वे कामानुवर्तिनः १३०
इति मे निश्चिता बुद्धिः कथ्यते पूर्वसूरिभिः
यदा पुण्यमयो जन्तुः पापं किञ्चिन्नः विद्यते १३१
ज्ञानं हि द्विविधं चैव तदा पुण्यं सुखं भवेत्
पापं पुण्यं समं यस्य तदा कर्मसु विद्यते १३२
समं योगं यदा द्वन्द्वं तदानन्दपदं व्रजेत्
बाह्ये सर्वपरित्यागी मनसा संस्पृही भवेत् १३३
तद्वृथाचरितं तस्य तेन तत्पापभोगिनः
बाह्ये करोति कर्माणि मनसा निःस्पृहो भवेत् १३४
त्यागोऽसौ मध्यमो ज्ञेयो न तु पूर्णफलं लभेत्
बाह्यमध्ये परित्यज्य बुद्ध्या शून्यावलम्बनम् १३५
त्यागः स उत्तमो ज्ञेयो योगिनामपि दुर्ल्लभः
क्रोधात्सर्वं त्यजन्त्येके केचिद्वादप्रभावतः १३६
कष्टात्सर्वं त्यजन्त्येके त्यागाः सर्वेनुमध्यमाः
सुबुद्ध्या श्रद्धया युक्तो न क्रोधादिवशङ्गतः १३७
कर्मणां ह्यवलिप्तोऽपि सुगतिं याति मानवः
शुचीनां श्रीमतां गेहे धीमतां योगिनामपि १३८
योगाद्भ्रष्टस्तु जायेत कुले वै द्विजपूर्वके
स्वल्पेनैव तु कालेन पूर्णं योगं च विन्दति १३९
चिदानन्दपदं गच्छेद्योगभक्तिप्रसादतः
पङ्केनैव यथा पङ्कं रुधिरं रुधिरेण वै १४०
हिंसया कर्मणा कर्म कथं क्षालयितुं क्षमः
हिंसाकर्ममयोयज्ञः कथं कर्मक्षये क्षमः १४१
स्वर्गकामकृता यज्ञा स्वर्गे ते चाल्पसौख्यदाः
अनित्यानि तु सौख्यानि भवन्ति च बहून्यपि १४२
नित्यं सौख्यं न तेष्वस्ति विना भक्त्या हरेः क्वचित्
सार्वभौमसुखं राज्यं स्वर्गे चापि तथा सुखम् १४३
अन्यत्किञ्चिन्न वाञ्छामि गर्भवासाद्बिभेम्यहम्
ग्रावा वै भिद्यते लोहैर्माणिक्यं नैव भिद्यते १४४
नानाकाममयी बुद्ध्या विष्णुभक्तिर्न भिद्यते
बको जलचरान्भुङ्क्ते मण्डूकादींश्च वर्जयेत् १४५
तथा यमः सर्वहन्ता वर्जयेत्कृष्णसेवकान्
यो रक्षति स हर्ता च स वै पालक उच्यते १४६
अपराधशतैर्युक्तं स्वं स्थाने यत्र वासिता
यथा कृतापराधस्य कृष्णस्तस्य कृपाकरः १४७
फलं च लभते वाद्य रक्षकः किं करोति चेत्
एवमात्मा च देहेस्मिन्परवश्यकृपाकरः १४८
प्राप्तो न पारः शनकैर्मल्लैर्युक्ता न वापि ता
व्याधस्य मुक्तिदाता च कुब्जका तारिता स्वयम् १४९
ब्रह्माद्यैर्दुर्लभः स्वप्ने सुलभो गोपमन्दिरे
गोपोच्छिष्टं यदा भुक्तं तदा ते तारिताः स्वयम् 6.132.१५०
योगिभिर्गीयते नित्यं परमात्मा जनार्दनः
अव्ययः पुरुषः श्रीमान्दृष्ट्वा तैर्देवि विस्मये १५१
एतत्स्मरणकं दिव्यं ये पठन्ति दिने दिने
सर्वपापविनिर्मुक्ता यान्ति विष्णोः सनातनम् १५२
अनया भावबुद्ध्या च पठनं विष्णुसन्निधौ
इहलोके सुखं भुक्त्वा परं पदमवाप्नुयात् १५३
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे विष्णुस्मरणन्नाम द्वात्रिंशाधिकशततमोऽध्यायः १३२