पार्वत्युवाच
विश्वास-प्रस्तुतिः
शालग्रामशिला शुद्धा मूर्त्तयः सन्ति भूतले
तासां चैव तु मूर्तीनां पूजनं कतिधा स्मृतम् ॥ १ ॥
मूलम्

ब्राह्मणैः कति पूज्यास्ताः क्षत्रियैर्वा सुरेश्वर
वैश्यैर्वापि कथं शूद्रैः स्त्रीभिर्वापि समादिश ॥ २ ॥

महादेव उवाच
शालग्रामशिला पुण्या पवित्रा धर्मकारिणी
यस्या दर्शनमात्रेण ब्रह्महा शुध्यते नरः ॥ ३ ॥

तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितम्
यत्रेयं सर्वदा मूर्तिः शालग्रामशिला शुभा ॥ ४ ॥

ब्राह्मणैः पञ्चपूज्या स्युश्चतस्रः क्षत्रियैस्तथा
वैश्यैस्तिस्रस्तथापूज्याएकापूज्याप्रयत्नतः ॥ ५ ॥

तस्यादर्शनमात्रेणशूद्रो मुक्तिमवाप्नुयात्
अनेन विधिना देवि ये नराः पूजयन्ति वै ॥ ६ ॥

भोगान्सर्वांस्तत्र भुक्त्वा यान्ति विष्णोः सनातनम्
इयं सा महती मूर्तिः सर्वदा पापहारिणी ॥ ७ ॥

कैलासाद्यं फलं देवि जायते पूजनाद्यतः
तत्र गङ्गा च यमुना गोदावरी सरस्वती ॥ ८ ॥

तिष्ठते च शिला यत्र सर्वं तत्र न संशयः
किमत्र बहुनोक्तेन भूयोभूयो वरानने ॥ ९ ॥
मूलम्
तिष्ठते च शिला यत्र सर्वं तत्र न संशयः
किमत्र बहुनोक्तेन भूयोभूयो वरानने ॥ ९ ॥
विश्वास-प्रस्तुतिः
पूजनं मनुजैः सम्यक्कर्त्तव्यं मुक्तिमिच्छुभिः
भक्तिभावेन देवेशि येऽर्चयन्ति जनार्दनम् ॥ १० ॥

तेषां दर्शनमात्रेण ब्रह्महा शुध्यते जनः
दासभावेन ये शूद्राः स्वर्चनं कुर्वते सदा ॥ ११ ॥

तेषां पुण्यं न जानन्ति ब्रह्माद्याश्च सुरेश्वरि
भक्तिभावेन ये विप्रा हरिमभ्यर्चयन्ति वै ॥ १२ ॥

एकविंशतिकुलं तैस्तु तारितं तेषु जन्मसु
शङ्खचक्राङ्कितो यस्तु विप्रः पूजनमाचरेत् ॥ १३ ॥

पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनात्
पितरः संवदन्त्यस्मत्कुले जाताश्च वैष्णवाः ॥ १४ ॥

तत्कुलं तारितं तैस्तु यावदाभूतसम्प्लवम्
ते तु चास्मान्समुद्धृत्य नयन्ते विष्णुमन्दिरम् ॥ १५ ॥

स एव दिवसो धन्यो धन्या माताऽथ बान्धवाः
पिता तस्य च वै धन्यो धन्या वै सुहृदस्तथा ॥ १६ ॥

सर्वे धन्यतमा ज्ञेया विष्णुभक्तिपरायणाः
तेषां दर्शनमात्रेण महापापात्प्रमुच्यते ॥ १७ ॥

उपपातकानि सर्वाणि महान्ति पातकानि च
तानि सर्वाणि नश्यन्ति वैष्णवानां च दर्शनात् ॥ १८ ॥

पावका इव दीप्यन्ते ये नरा वैष्णवा भुवि
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ १९ ॥

आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम्
तत्सर्वं नाशमायाति वैष्णवानां च दर्शनात् ॥ २० ॥

हिंसादिकं च यत्पापं ज्ञानाज्ञानं कृतं च यत्
तत्सर्वं नाशमायाति दर्शनाद्वैष्णवस्य च ॥ २१ ॥

निःपापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धिताम्
दर्शनादेव साधूनां सत्यं तुभ्यं मयोदितम् ॥ २२ ॥

संसारकर्दमालेपप्रक्षालनविशारदः
पावनः पावनानां च विष्णुभक्तो न संशयः ॥ २३ ॥

प्रत्यहं विष्णुभक्ता ये स्मरन्ति मधुसूदनम्
ते तु विष्णुमया ज्ञेया विष्णुस्तत्र न संशयः ॥ २४ ॥

नवनीलघनश्यामं नलिनायतलोचनम्
शङ्खचक्रगदापद्मधरं पीताम्बरावृतम् ॥ २५ ॥

कौस्तुभेन विराजन्तं वनमालाधरं हरिम्
उल्लसत्कुण्डलज्योतिः कपोलवदनश्रिया ॥ २६ ॥

विराजितं किरीटेन वलयाङ्गदनूपुरैः
प्रसन्नवदनाम्भोजं चतुर्बाहुं श्रियान्वितम् ॥ २७ ॥

एवं ध्यायन्ति ये विप्रा विष्णुं चैव तु पार्वति
ते विप्रा विष्णुरूपाश्च वैष्णवास्ते न संशयः ॥ २८ ॥

तेषां दर्शनमात्रेण भक्त्या वा भोजनेन वा
पूजनेन च देवेशि वैकुण्ठं लभते ध्रुवम् ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे शालग्रामशिलापूजनमाहात्म्यन्नामैकत्रिंशाधिकशततमोऽध्यायः १३१