१३०

पार्वत्युवाच

विश्वास-प्रस्तुतिः

श्रुतं कार्तिकमाहात्म्यं माघस्य च मया विभो
अधुना श्रोतुमिच्छामि मुक्तिदं कर्म चोत्तमम् ॥ १ ॥

मूलम्

श्रेष्ठा भक्तिस्तु का प्रोक्ता वद विश्वेश्वर प्रभो
येन विज्ञानमात्रेण नराः सुखमवाप्नुयुः ॥ २ ॥

महादेव उवाच
तल्लीनचित्तः स पुमान्सा भक्तिः परमा मता
दयाधर्मपरो नित्यं विष्णुधर्मेषु तत्परः ॥ ३ ॥

फलमूलजलाहारी शङ्खचक्रप्रधारकः
त्रिकालं पूजयेद्विष्णुं सा भक्तिः सात्विकी मता ॥ ४ ॥

उत्तमा सात्विकी प्रोक्ता राजसी चैव मध्यमा
कनिष्ठा तामसी चैव त्रिविधा भक्तिरुच्यते ॥ ५ ॥

श्रीधरे तु प्रकर्त्तव्या मुक्तिकामफलेप्सुभिः
अहङ्कारेण रूपेण दम्भमात्सर्यमायया ॥ ६ ॥

ये कुर्वन्ति जना भक्तिं तामसी सा उदाहृता
परस्योत्सादनार्थं वा दम्भमुद्दिश्यवाऽथवा ॥ ७ ॥

या भक्तिः क्रियते देवे तामसी सा प्रकीर्तिता
विषयान्प्रतिसन्धाय यश ऐश्वर्यमेव वा ॥ ८ ॥

अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः
कर्मक्षयार्थे कर्त्तव्या ब्राह्मणैर्ज्ञानतत्परैः ॥ ९ ॥

विष्णौ ह्यात्मार्पणीं बुद्धिं सा भक्तिः सात्विकी मता
अतो वै सर्वथा देवि संसेव्यः सर्वदा हरिः ॥ १० ॥

तामसेन तु भावेन तामसत्वं हि लभ्यते
राजसो राजसेनैव सात्विकेन तु सात्विकः ॥ ११ ॥

वेदाध्यायरतः श्रीमान्रागद्वेषविवर्जितः
शङ्खचक्रधरो विप्रः सर्वदा शुचिरुच्यते ॥ १२ ॥

कर्मकाण्डे प्रवृत्तो यः सर्वदा विष्णुनिन्दकः
निन्दकस्तज्जनानां च महाचण्डाल उच्यते ॥ १३ ॥

वेदाध्यायरता नित्यं नित्यं वै यज्ञयाजकाः
अग्निहोत्ररता नित्यं विष्णुधर्मपराङ्मुखाः
निन्दन्ति विष्णुधर्मांश्च वेदबाह्याः सुरेश्वरि ॥ १४ ॥

कुर्वन्ति शान्तिं विबुधाः प्रहृष्टाः क्षेमं प्रकुर्वन्ति पितामहाद्याः
स्वस्ति प्रयच्छन्ति मुनीन्द्रमुख्या गोविन्दभक्तिं वहतां नराणाम् ॥ १५ ॥

शुभा ग्रहा भूतपिशाचयुक्ता ब्रह्मादयो देवगणाः प्रसन्नाः
लक्ष्मी स्थिरा तिष्ठति मन्दिरे च गोविन्दभक्तिं वहतां नराणाम् ॥ १६ ॥

गङ्गा गया नैमिषपुष्कराणि काशी प्रयागं कुरुजाङ्गलानि
तिष्ठन्ति देहे कृतभक्तिपूर्वं गोविन्दभक्तिं वहतां नराणाम् ॥ १७ ॥

एवमाराधयेद्विद्वान्भगवन्तं श्रिया सह
कृतकृत्यो भवेन्नित्यं स विप्रो नात्र संशयः ॥ १८ ॥

क्षत्रियो वाथ वैश्यो वा शूद्रो वासुरसत्तमे
भक्तिं कुर्वन्विशेषेण मुक्तिं याति स वै नरः ॥ १९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे विष्णु
भक्तिमहिमावर्णनन्नाम त्रिंशाधिकशततमोऽध्यायः १३०