वसिष्ठ उवाच
विश्वास-प्रस्तुतिः
कथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम्
अधुनाऽहं प्रवक्ष्यामि माघस्नानस्य यत्फलम् ॥ १ ॥
मूलम्
कथितं माघमाहात्म्यं दत्तात्रेयेण भाषितम्
अधुनाऽहं प्रवक्ष्यामि माघस्नानस्य यत्फलम् ॥ १ ॥
विश्वास-प्रस्तुतिः
सर्वक्रतुवरिष्ठं तु सर्वदानफलप्रदम्
सर्वव्रततपस्तुल्यं माघस्नानं परन्तप ॥ २ ॥
मूलम्
सर्वक्रतुवरिष्ठं तु सर्वदानफलप्रदम्
सर्वव्रततपस्तुल्यं माघस्नानं परन्तप ॥ २ ॥
विश्वास-प्रस्तुतिः
स्नानेन माघस्य विशुद्धमानसा पितॄन्दिवि स्थाप्य कुलद्वयस्य वै
स्वर्गं प्रयान्ति स्वयमुज्ज्वलानना वरैर्विमानै रुचिरैश्च कामगैः ॥ ३ ॥
मूलम्
स्नानेन माघस्य विशुद्धमानसा पितॄन्दिवि स्थाप्य कुलद्वयस्य वै
स्वर्गं प्रयान्ति स्वयमुज्ज्वलानना वरैर्विमानै रुचिरैश्च कामगैः ॥ ३ ॥
विश्वास-प्रस्तुतिः
ये मानवाः पापकृतोऽपि सर्वदा सदा दुराचाररता विमार्गगाः
स्नात्वा हि माघे हरिमर्चयन्ति ये मुञ्चन्ति तेपीह महाघसञ्चयम् ॥ ४ ॥
मूलम्
ये मानवाः पापकृतोऽपि सर्वदा सदा दुराचाररता विमार्गगाः
स्नात्वा हि माघे हरिमर्चयन्ति ये मुञ्चन्ति तेपीह महाघसञ्चयम् ॥ ४ ॥
विश्वास-प्रस्तुतिः
सत्येन हीनाः पितृमातृदुःखदा ह्यनाश्रमस्थाः कुलधर्मवर्जिताः
ये दाम्भिकास्तेऽपि नराः सतां गतिं स्नानैः प्रयान्त्यत्र हि माघसम्भवैः ॥ ५ ॥
मूलम्
सत्येन हीनाः पितृमातृदुःखदा ह्यनाश्रमस्थाः कुलधर्मवर्जिताः
ये दाम्भिकास्तेऽपि नराः सतां गतिं स्नानैः प्रयान्त्यत्र हि माघसम्भवैः ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुण्येषु तीर्थेषु च माघमासे स्नानं नराणामतिदुर्लभं भुवि
तस्माद्यतो ब्रह्मविदां पदं नरैः सम्प्राप्यते नात्र विचारणा मम ॥ ६ ॥
मूलम्
पुण्येषु तीर्थेषु च माघमासे स्नानं नराणामतिदुर्लभं भुवि
तस्माद्यतो ब्रह्मविदां पदं नरैः सम्प्राप्यते नात्र विचारणा मम ॥ ६ ॥
विश्वास-प्रस्तुतिः
माघे तपो दान जप प्रसेवनं स्थानं हरेः पूजनमक्षयं नृप
तस्माद्यथाशक्ति नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्नकाञ्चनम् ॥ ७ ॥
मूलम्
माघे तपो दान जप प्रसेवनं स्थानं हरेः पूजनमक्षयं नृप
तस्माद्यथाशक्ति नरैः प्रयत्नतः स्नात्वा प्रदेयं वसनान्नकाञ्चनम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
माघेऽन्नदाताऽमृतपः सुरालये हेम्नश्च दाता बलभित्समीपगः
दीपाग्निवासांसि ददन्नरः सदा सूर्यस्यलोके वसति प्रभामयः ॥ ८ ॥
मूलम्
माघेऽन्नदाताऽमृतपः सुरालये हेम्नश्च दाता बलभित्समीपगः
दीपाग्निवासांसि ददन्नरः सदा सूर्यस्यलोके वसति प्रभामयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
यज्ञैः सुदानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचर्यार्चनयोगसेवया
शुद्धा भवन्तीह तथा न पापिनः स्नानैर्यथा पुण्यभवैस्तु माघजैः ॥ ९ ॥
मूलम्
यज्ञैः सुदानैः सुतपोभिरुज्ज्वलैः सुब्रह्मचर्यार्चनयोगसेवया
शुद्धा भवन्तीह तथा न पापिनः स्नानैर्यथा पुण्यभवैस्तु माघजैः ॥ ९ ॥
विश्वास-प्रस्तुतिः
दुःखौघसन्तप्तिमसह्ययातनां याम्यां न ते यान्त्यपि पापकारिणः
ये माघमासे वरतीर्थमज्जनं कुर्वन्ति चार्धोदितसूर्यमण्डले ॥ १० ॥
मूलम्
दुःखौघसन्तप्तिमसह्ययातनां याम्यां न ते यान्त्यपि पापकारिणः
ये माघमासे वरतीर्थमज्जनं कुर्वन्ति चार्धोदितसूर्यमण्डले ॥ १० ॥
विश्वास-प्रस्तुतिः
स्नात्वा च माघे हरिमर्चयन्ति ये स्वर्गच्युता भूपतयो भवन्ति
भव्याः सुरूपाः सुभगाः प्रियंवदा धर्मान्विता भूरिधनाः शतायुषः ॥ ११ ॥
मूलम्
स्नात्वा च माघे हरिमर्चयन्ति ये स्वर्गच्युता भूपतयो भवन्ति
भव्याः सुरूपाः सुभगाः प्रियंवदा धर्मान्विता भूरिधनाः शतायुषः ॥ ११ ॥
विश्वास-प्रस्तुतिः
दीप्तानले काष्ठचयो यथाहुतो भस्मावशेषो भवतीह तत्क्षणात्
स्नानेन माघस्य तथा विलीयते क्षुद्रोऽपि पापौघ महाघसञ्चयः ॥ १२ ॥
मूलम्
दीप्तानले काष्ठचयो यथाहुतो भस्मावशेषो भवतीह तत्क्षणात्
स्नानेन माघस्य तथा विलीयते क्षुद्रोऽपि पापौघ महाघसञ्चयः ॥ १२ ॥
विश्वास-प्रस्तुतिः
कायेन वाचा मनसापि पातकं ज्ञातं यदज्ञातमलङ्कृतं नरैः
स्नानं च माघे वरतीर्थसम्भवं सर्वं दहद्विष्णुरिवाशु हृद्गतः ॥ १३ ॥
मूलम्
कायेन वाचा मनसापि पातकं ज्ञातं यदज्ञातमलङ्कृतं नरैः
स्नानं च माघे वरतीर्थसम्भवं सर्वं दहद्विष्णुरिवाशु हृद्गतः ॥ १३ ॥
विश्वास-प्रस्तुतिः
सम्भुज्यमानाघफलं हि पार्थिव प्रमादतोपीह नृणां कदाचन
स्नानं हि माघस्य यतः प्रसज्यते तदैव तत्सङ्क्षयमेति निश्चितम् ॥ १४ ॥
मूलम्
सम्भुज्यमानाघफलं हि पार्थिव प्रमादतोपीह नृणां कदाचन
स्नानं हि माघस्य यतः प्रसज्यते तदैव तत्सङ्क्षयमेति निश्चितम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
गन्धर्वं कन्याः पृथिवी शशापजं सम्भुज्यमानाघफलं दुरत्ययम्
स्नानाद्विमुक्ताः खलु माघमासजाद्वाक्यात्पुरा लोमशजातमद्भुतम् ॥ १५ ॥
मूलम्
गन्धर्वं कन्याः पृथिवी शशापजं सम्भुज्यमानाघफलं दुरत्ययम्
स्नानाद्विमुक्ताः खलु माघमासजाद्वाक्यात्पुरा लोमशजातमद्भुतम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
श्रुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपङ्कजम्
श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसम् ॥ १६ ॥
मूलम्
सूत उवाच
श्रुत्वैतत्पार्थिवः प्रीत्या नत्वा तत्पादपङ्कजम्
श्रद्धया परया नम्रस्तं पप्रच्छ पुरोधसम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
भगवन्ब्रूहि कन्याभिः शापो ह्यभिगतः कुतः
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ॥ १७ ॥
मूलम्
भगवन्ब्रूहि कन्याभिः शापो ह्यभिगतः कुतः
कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ॥ १७ ॥
विश्वास-प्रस्तुतिः
कथं लोमशवाक्येन विपाकाच्छापसम्भवात्
विमुक्ताः कुत्र ताः सस्नुर्मासं ताः कतिसङ्ख्यया ॥ १८ ॥
मूलम्
कथं लोमशवाक्येन विपाकाच्छापसम्भवात्
विमुक्ताः कुत्र ताः सस्नुर्मासं ताः कतिसङ्ख्यया ॥ १८ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
श्रूयतां राजशार्दूल धर्मगर्भां कथां पराम्
यथाऽरणिर्वह्निगर्भा धर्मसूर्वह्निसूरिव ॥ १९ ॥
मूलम्
वसिष्ठ उवाच
श्रूयतां राजशार्दूल धर्मगर्भां कथां पराम्
यथाऽरणिर्वह्निगर्भा धर्मसूर्वह्निसूरिव ॥ १९ ॥
विश्वास-प्रस्तुतिः
गन्धर्वः सुखसङ्गीतिस्तस्य कन्या प्रमोदिनी
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः ॥ २० ॥
मूलम्
गन्धर्वः सुखसङ्गीतिस्तस्य कन्या प्रमोदिनी
सुशीलस्य सुशीला च सुस्वरा स्वरवेदिनः ॥ २० ॥
विश्वास-प्रस्तुतिः
सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च
इमानि वरनामानि तासामप्सरसां नृप ॥ २१ ॥
मूलम्
सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च
इमानि वरनामानि तासामप्सरसां नृप ॥ २१ ॥
विश्वास-प्रस्तुतिः
कुमार्यः पञ्च सर्वास्ता वयसा सुसमाः पुनः
चन्द्रादिवविनिष्क्रान्ताश्चन्द्रिकेव समुज्ज्वलाः ॥ २२ ॥
मूलम्
कुमार्यः पञ्च सर्वास्ता वयसा सुसमाः पुनः
चन्द्रादिवविनिष्क्रान्ताश्चन्द्रिकेव समुज्ज्वलाः ॥ २२ ॥
विश्वास-प्रस्तुतिः
चन्द्राननाः सुकेशिन्यश्चन्द्रामृतरसाधराः
नेत्रेष्वानन्दकारिण्यः कौमुदी कुमुदेष्विव ॥ २३ ॥
मूलम्
चन्द्राननाः सुकेशिन्यश्चन्द्रामृतरसाधराः
नेत्रेष्वानन्दकारिण्यः कौमुदी कुमुदेष्विव ॥ २३ ॥
विश्वास-प्रस्तुतिः
लावण्यपिण्डसम्भूताश्चारुरूपामनोहराः
उदिभन्नकुचकुम्भिन्यः पद्मिन्य इव माधवे ॥ २४ ॥
मूलम्
लावण्यपिण्डसम्भूताश्चारुरूपामनोहराः
उदिभन्नकुचकुम्भिन्यः पद्मिन्य इव माधवे ॥ २४ ॥
विश्वास-प्रस्तुतिः
उन्मील्य यौवनं कान्तं वल्लीव नवपल्लवैः
हेमगौराश्च हेमाभा हेमालङ्कारभूषिताः ॥ २५ ॥
मूलम्
उन्मील्य यौवनं कान्तं वल्लीव नवपल्लवैः
हेमगौराश्च हेमाभा हेमालङ्कारभूषिताः ॥ २५ ॥
विश्वास-प्रस्तुतिः
हेमचम्पकमालिन्यो हेमच्छविसुवाससः
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च ॥ २६ ॥
मूलम्
हेमचम्पकमालिन्यो हेमच्छविसुवाससः
स्वरग्रामावलीहासु विविधा मूर्च्छनासु च ॥ २६ ॥
विश्वास-प्रस्तुतिः
तालदानविनोदेषु वेणुवीणाप्रवादने
मृदङ्गनादसम्भिन्नं लास्यमार्गलवेषु च ॥ २७ ॥
मूलम्
तालदानविनोदेषु वेणुवीणाप्रवादने
मृदङ्गनादसम्भिन्नं लास्यमार्गलवेषु च ॥ २७ ॥
विश्वास-प्रस्तुतिः
चित्रादिषु विनोदेषु कलासु च विशारदाः
एवम्भूतास्तु ताः कन्या मुमुहुः क्रीडने वने ॥ २८ ॥
मूलम्
चित्रादिषु विनोदेषु कलासु च विशारदाः
एवम्भूतास्तु ताः कन्या मुमुहुः क्रीडने वने ॥ २८ ॥
विश्वास-प्रस्तुतिः
पितृभिर्लालिताः सत्यश्चेरुश्च धनदालये
कौतुकादेकदा पञ्च मिलित्वा मासि माधवे
कन्या मन्दारपुष्पाणि विचिन्वन्त्यो वनाद्वनम् ॥ २९ ॥
मूलम्
पितृभिर्लालिताः सत्यश्चेरुश्च धनदालये
कौतुकादेकदा पञ्च मिलित्वा मासि माधवे
कन्या मन्दारपुष्पाणि विचिन्वन्त्यो वनाद्वनम् ॥ २९ ॥
विश्वास-प्रस्तुतिः
गौरीं समाराधयितुं वराङ्गनाः कदाचिदच्छोदसरोवरं ययुः
हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह ॥ ३० ॥
मूलम्
गौरीं समाराधयितुं वराङ्गनाः कदाचिदच्छोदसरोवरं ययुः
हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरोत्पलैः सह ॥ ३० ॥
विश्वास-प्रस्तुतिः
वैडूर्यशुद्धस्फटिकाच्छविद्रुमे स्नात्वा तडागे परिधाय चाम्बरम्
मौनेन च स्थण्डिलपिण्डिकामयी स्वर्णस्य सिक्ताभिरुमां विनिर्ममुः ॥ ३१ ॥
मूलम्
वैडूर्यशुद्धस्फटिकाच्छविद्रुमे स्नात्वा तडागे परिधाय चाम्बरम्
मौनेन च स्थण्डिलपिण्डिकामयी स्वर्णस्य सिक्ताभिरुमां विनिर्ममुः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
समर्चितां चन्दनचन्द्रकुङ्कुमैरभ्यर्च्य गौरीं वरपङ्कजादिभिः
नानोपचारैश्च सुभक्तिभावितास्तालप्रयोगैर्ननृतुः कुमारिकाः ॥ ३२ ॥
मूलम्
समर्चितां चन्दनचन्द्रकुङ्कुमैरभ्यर्च्य गौरीं वरपङ्कजादिभिः
नानोपचारैश्च सुभक्तिभावितास्तालप्रयोगैर्ननृतुः कुमारिकाः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
गान्धारमाश्रित्य वरं स्वरं ततो गेयं सुतारध्वनिभिः सुमूर्च्छितम्
एणीदृशस्ताः प्रजगुः कलाक्षरं चारुप्रबन्धं गतिभिस्तु सुस्वरम् ॥ ३३ ॥
मूलम्
गान्धारमाश्रित्य वरं स्वरं ततो गेयं सुतारध्वनिभिः सुमूर्च्छितम्
एणीदृशस्ताः प्रजगुः कलाक्षरं चारुप्रबन्धं गतिभिस्तु सुस्वरम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
तस्मिन्सुनादे रसवर्षहर्षदे कन्यास्वलं निर्भरनृत्यवृत्तिषु
अच्छोदतीर्थप्रवरे तदा गतः स्नातुं मुनेर्वेदनिधेः सुताग्निपः ॥ ३४ ॥
मूलम्
तस्मिन्सुनादे रसवर्षहर्षदे कन्यास्वलं निर्भरनृत्यवृत्तिषु
अच्छोदतीर्थप्रवरे तदा गतः स्नातुं मुनेर्वेदनिधेः सुताग्निपः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
रूपेण निःसीमतरो वराननः सरोजपत्रायतलोचनो युवा
विशालवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छविः कामइवापरो हि सः ॥ ३५ ॥
मूलम्
रूपेण निःसीमतरो वराननः सरोजपत्रायतलोचनो युवा
विशालवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छविः कामइवापरो हि सः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
स ब्रह्मचारी सशिखो विराजते दण्डेनयुक्तो धनुषैव मन्मथः
एणाजिनप्रावरणः सुसूत्रधृग्घेमाभमौञ्जी कटिसूत्रमेखलः ॥ ३६ ॥
मूलम्
स ब्रह्मचारी सशिखो विराजते दण्डेनयुक्तो धनुषैव मन्मथः
एणाजिनप्रावरणः सुसूत्रधृग्घेमाभमौञ्जी कटिसूत्रमेखलः ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे
जहर्षुः कौतुकाविष्टाः कोऽयं नो नयनातिथिः ॥ ३७ ॥
मूलम्
तं दृष्ट्वा ब्राह्मणं बालास्तास्तत्र सरसस्तटे
जहर्षुः कौतुकाविष्टाः कोऽयं नो नयनातिथिः ॥ ३७ ॥
विश्वास-प्रस्तुतिः
सन्त्यक्तनृत्यगीतास्तास्तस्यालोकनतत्पराः
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः ॥ ३८ ॥
मूलम्
सन्त्यक्तनृत्यगीतास्तास्तस्यालोकनतत्पराः
हरिण्यो लुब्धकेनेव विद्धाः कामेन सायकैः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
पश्यपश्येति जल्पन्त्यो मुग्धाः पञ्चसु सम्भ्रमम्
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ॥ ३९ ॥
मूलम्
पश्यपश्येति जल्पन्त्यो मुग्धाः पञ्चसु सम्भ्रमम्
तस्मिन्विप्रवरे यूनि कामदेवभ्रमं ययुः ॥ ३९ ॥
विश्वास-प्रस्तुतिः
पुनः पुनस्तमभ्यर्च्य नयनैः पङ्कजैरिव
पश्चाद्विचारमायासुस्ताश्च कन्याः परस्परम् ॥ ४० ॥
मूलम्
पुनः पुनस्तमभ्यर्च्य नयनैः पङ्कजैरिव
पश्चाद्विचारमायासुस्ताश्च कन्याः परस्परम् ॥ ४० ॥
विश्वास-प्रस्तुतिः
यद्ययं कामदेवो हि रतिहीनः कथं व्रजेत्
अथायमश्विनौ देवौ तौ नूनं युग्मचारिणौ ॥ ४१ ॥
मूलम्
यद्ययं कामदेवो हि रतिहीनः कथं व्रजेत्
अथायमश्विनौ देवौ तौ नूनं युग्मचारिणौ ॥ ४१ ॥
विश्वास-प्रस्तुतिः
गन्धर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक्
ऋषिपुत्रोथवा कश्चित्कश्चिद्वा मानुषोत्तमः ॥ ४२ ॥
मूलम्
गन्धर्वः किन्नरो वाथ सिद्धो वा कामरूपधृक्
ऋषिपुत्रोथवा कश्चित्कश्चिद्वा मानुषोत्तमः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
अस्तु वा कश्चिदेवायं धात्रासृष्टो हि नः कृते
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥ ४३ ॥
मूलम्
अस्तु वा कश्चिदेवायं धात्रासृष्टो हि नः कृते
यथाभाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तथास्माकं कुमारीणां गौर्या नीतो वरोत्तमः
करुणाजलकल्लोल प्लवार्द्रीकृतचित्तया ॥ ४४ ॥
मूलम्
तथास्माकं कुमारीणां गौर्या नीतो वरोत्तमः
करुणाजलकल्लोल प्लवार्द्रीकृतचित्तया ॥ ४४ ॥
विश्वास-प्रस्तुतिः
मया वृतस्त्वया चायं त्वया वृतस्तथा मया
एवं पञ्चसु कन्यासु वदन्तीषु नृपोत्तम ॥ ४५ ॥
मूलम्
मया वृतस्त्वया चायं त्वया वृतस्तथा मया
एवं पञ्चसु कन्यासु वदन्तीषु नृपोत्तम ॥ ४५ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तद्वचनं तत्र कृत्वा माध्याह्निकीः क्रियाः
आलोच्य हृदये सोऽपि विघ्नमेतदुपस्थितम् ॥ ४६ ॥
मूलम्
श्रुत्वा तद्वचनं तत्र कृत्वा माध्याह्निकीः क्रियाः
आलोच्य हृदये सोऽपि विघ्नमेतदुपस्थितम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मविष्णुगिरिशादयः सुरा ये च सिद्धमुनयः पुरातनाः
तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ॥ ४७ ॥
मूलम्
ब्रह्मविष्णुगिरिशादयः सुरा ये च सिद्धमुनयः पुरातनाः
तेऽपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः
धन्विनामकरकेतुना हतः कस्य नो पतति हा मनोमृगः ॥ ४८ ॥
मूलम्
योषितां नयनतीक्ष्णसायकैर्भ्रूलतासुदृढचापनिर्गतैः
धन्विनामकरकेतुना हतः कस्य नो पतति हा मनोमृगः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तावदेव नयधीर्विराजते तावदेव जनता भयं भजेत्
तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ॥ ४९ ॥
मूलम्
तावदेव नयधीर्विराजते तावदेव जनता भयं भजेत्
तावदेव दृढचित्तता भृशं तावदेव गणना कुलस्य च ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तावदेव तपसः प्रगल्भता तावदेव यमधारणं नृणाम्
यावदेव वनितेक्षणबाणैर्मोहयन्त्युरुमदैर्न मानुषाः 6.128.॥ ५० ॥
मूलम्
तावदेव तपसः प्रगल्भता तावदेव यमधारणं नृणाम्
यावदेव वनितेक्षणबाणैर्मोहयन्त्युरुमदैर्न मानुषाः 6.128.॥ ५० ॥
विश्वास-प्रस्तुतिः
मोहयन्तु मदयन्तु रागिणां योषितः सुललितैर्मनोहरैः
मोहयन्ति मदयन्ति मामिमं धर्मरक्षणपरं हि कैर्गुणैः ॥ ५१ ॥
मूलम्
मोहयन्तु मदयन्तु रागिणां योषितः सुललितैर्मनोहरैः
मोहयन्ति मदयन्ति मामिमं धर्मरक्षणपरं हि कैर्गुणैः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
मांसशुक्रमलमूत्रनिर्मिते योषितां वपुषि निर्घृणेऽशुचौ
कामिनश्च परिकल्प्य चारुतां मा रमन्तु सुविमूढचेतसः ॥ ५२ ॥
मूलम्
मांसशुक्रमलमूत्रनिर्मिते योषितां वपुषि निर्घृणेऽशुचौ
कामिनश्च परिकल्प्य चारुतां मा रमन्तु सुविमूढचेतसः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
दारुणो हि परिकीर्तितोङ्गना सन्निधिर्विमलबुद्धिभिर्बुधैः
यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ॥ ५३ ॥
मूलम्
दारुणो हि परिकीर्तितोङ्गना सन्निधिर्विमलबुद्धिभिर्बुधैः
यावदत्र न समीपगा इमास्तावदेव हि गृहं व्रजाम्यहम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
समीपं तस्य यावद्धि नागच्छन्ति वराङ्गनाः
वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः ॥ ५४ ॥
मूलम्
समीपं तस्य यावद्धि नागच्छन्ति वराङ्गनाः
वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
तस्य योगबलाद्भूप गतस्यादर्शनं तदा
दृष्ट्वा तदद्भुतं कर्म ऋषिपुत्रस्य धीमतः ॥ ५५ ॥
मूलम्
तस्य योगबलाद्भूप गतस्यादर्शनं तदा
दृष्ट्वा तदद्भुतं कर्म ऋषिपुत्रस्य धीमतः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
वित्रस्तनयना बालाः कुरङ्ग्य इव कातराः
सम्भ्रान्त नयनाः शून्या ददृशुस्ता दिशो दश ॥ ५६ ॥
मूलम्
वित्रस्तनयना बालाः कुरङ्ग्य इव कातराः
सम्भ्रान्त नयनाः शून्या ददृशुस्ता दिशो दश ॥ ५६ ॥
विश्वास-प्रस्तुतिः
इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः
दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुश्च परस्परम् ॥ ५७ ॥
मूलम्
इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः
दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुश्च परस्परम् ॥ ५७ ॥
विश्वास-प्रस्तुतिः
व्याप्तं तु हृदयं तासां सदैव विरहाग्निना
ज्वलद्दावानलेनेव सुस्निग्धं सान्द्र काननम् ॥ ५८ ॥
मूलम्
व्याप्तं तु हृदयं तासां सदैव विरहाग्निना
ज्वलद्दावानलेनेव सुस्निग्धं सान्द्र काननम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
त्यक्त्वैन्द्रजालिकीं विद्यां कान्त दर्शय सत्वरम्
स्वात्मानं नो मनोयुक्तं प्राग्ग्रासे मक्षिकोपमम् ॥ ५९ ॥
मूलम्
त्यक्त्वैन्द्रजालिकीं विद्यां कान्त दर्शय सत्वरम्
स्वात्मानं नो मनोयुक्तं प्राग्ग्रासे मक्षिकोपमम् ॥ ५९ ॥
विश्वास-प्रस्तुतिः
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः पुनः
ज्ञातं महानुसन्तापहेतोर्नस्त्वं विनिर्मितः ॥ ६० ॥
मूलम्
हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः पुनः
ज्ञातं महानुसन्तापहेतोर्नस्त्वं विनिर्मितः ॥ ६० ॥
विश्वास-प्रस्तुतिः
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मनः
कच्चिद्धूर्तोऽसि हे कान्त कच्चिन्मुष्णासि नो मनः ॥ ६१ ॥
मूलम्
कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मनः
कच्चिद्धूर्तोऽसि हे कान्त कच्चिन्मुष्णासि नो मनः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
कच्चिन्न प्रत्ययोस्मासु कच्चिदऽस्मान्परीक्षसे
कच्चिन्नर्मकलाशीलः कच्चिन्मायाविशारदः ॥ ६२ ॥
मूलम्
कच्चिन्न प्रत्ययोस्मासु कच्चिदऽस्मान्परीक्षसे
कच्चिन्नर्मकलाशीलः कच्चिन्मायाविशारदः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम्
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ॥ ६३ ॥
मूलम्
कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम्
कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
कच्चिद्विनापराधं तु त्वमस्मासु प्रकुप्यसे
कच्चिद्दुःखं विजानासि परेषां विप्रलम्भजम् ॥ ६४ ॥
मूलम्
कच्चिद्विनापराधं तु त्वमस्मासु प्रकुप्यसे
कच्चिद्दुःखं विजानासि परेषां विप्रलम्भजम् ॥ ६४ ॥
विश्वास-प्रस्तुतिः
त्वद्दर्शनं विना नूनं हृदयेश्वर साम्प्रतम्
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ॥ ६५ ॥
मूलम्
त्वद्दर्शनं विना नूनं हृदयेश्वर साम्प्रतम्
न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ॥ ६५ ॥
विश्वास-प्रस्तुतिः
अस्मांश्च नीयतां तत्र यत्र शीघ्रं गतो भवान्
त्वद्दर्शनहरो धाता व्यदधादङ्कुरच्छिदम् ॥ ६६ ॥
मूलम्
अस्मांश्च नीयतां तत्र यत्र शीघ्रं गतो भवान्
त्वद्दर्शनहरो धाता व्यदधादङ्कुरच्छिदम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा
पर्यन्तं न प्रपश्यन्ति सर्वथा सज्जना जनाः ॥ ६७ ॥
मूलम्
सर्वथा दर्शनं देहि कारुण्यं भज सर्वथा
पर्यन्तं न प्रपश्यन्ति सर्वथा सज्जना जनाः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम्
पितृर्भिया गृहं गन्तुं शीघ्रमारेभिरे गतिम् ॥ ६८ ॥
मूलम्
इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम्
पितृर्भिया गृहं गन्तुं शीघ्रमारेभिरे गतिम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
तत्प्रेमनिगडैर्बद्धा भृशं विरह विक्लवाः
कथञ्चिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमागताः ॥ ६९ ॥
मूलम्
तत्प्रेमनिगडैर्बद्धा भृशं विरह विक्लवाः
कथञ्चिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमागताः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
आगत्य पतिताः सर्वा जलयन्त्रसमीपतः
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ॥ ७० ॥
मूलम्
आगत्य पतिताः सर्वा जलयन्त्रसमीपतः
किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् ॥ ७० ॥
विश्वास-प्रस्तुतिः
कन्या ऊचुः
क्रीडन्त्यः किन्नरीभिस्तु सार्धं सङ्गीतकं मुदा
संस्थितास्तेन न ज्ञातं दिवसादि सरोवरे ॥ ७१ ॥
मूलम्
कन्या ऊचुः
क्रीडन्त्यः किन्नरीभिस्तु सार्धं सङ्गीतकं मुदा
संस्थितास्तेन न ज्ञातं दिवसादि सरोवरे ॥ ७१ ॥
विश्वास-प्रस्तुतिः
पथिश्रान्ता वयं मातः सन्तापस्तेन नस्तनौ
मोहेन महता वक्तुं न केनाप्युत्सहामहे ॥ ७२ ॥
मूलम्
पथिश्रान्ता वयं मातः सन्तापस्तेन नस्तनौ
मोहेन महता वक्तुं न केनाप्युत्सहामहे ॥ ७२ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा लुलुठुस्तत्र मणिभूमौ कुमारिकाः
आकारं गोपयन्त्यस्ता मुग्धा जल्पन्ति मातृभिः ॥ ७३ ॥
मूलम्
इत्युक्त्वा लुलुठुस्तत्र मणिभूमौ कुमारिकाः
आकारं गोपयन्त्यस्ता मुग्धा जल्पन्ति मातृभिः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा
न पाठयति तं कीरं पञ्जरेऽन्या कुतूहलात् ॥ ७४ ॥
मूलम्
काचिन्नर्तयति क्रीडामयूरं न मुदा तदा
न पाठयति तं कीरं पञ्जरेऽन्या कुतूहलात् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
लालयेन्नकुलं नान्या नोल्लासयति सारिकाम्
अपरातीव सम्मुग्धा नैव क्रीडति सारसैः ॥ ७५ ॥
मूलम्
लालयेन्नकुलं नान्या नोल्लासयति सारिकाम्
अपरातीव सम्मुग्धा नैव क्रीडति सारसैः ॥ ७५ ॥
विश्वास-प्रस्तुतिः
भेजिरे न विनोदांस्ता रेमिरे नैव मन्दिरे
ऊचिरे बान्धवैर्नालं वीणावाद्यं न चक्रिरे ॥ ७६ ॥
मूलम्
भेजिरे न विनोदांस्ता रेमिरे नैव मन्दिरे
ऊचिरे बान्धवैर्नालं वीणावाद्यं न चक्रिरे ॥ ७६ ॥
विश्वास-प्रस्तुतिः
कल्पद्रुमप्रसूनं यद्रसवत्तु सुधोपमम्
मन्दारकुसुमामोदि न पपुर्मधुरं मधु ॥ ७७ ॥
मूलम्
कल्पद्रुमप्रसूनं यद्रसवत्तु सुधोपमम्
मन्दारकुसुमामोदि न पपुर्मधुरं मधु ॥ ७७ ॥
विश्वास-प्रस्तुतिः
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः
अलक्ष्यध्यानसन्तानाः पुरुषोत्तममानसाः ॥ ७८ ॥
मूलम्
योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः
अलक्ष्यध्यानसन्तानाः पुरुषोत्तममानसाः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
चन्द्रकान्तमणिच्छन्ने स्रवद्वारिकणद्रवे
क्षणं वातायने स्थित्वा जलयन्त्रेक्षणं क्षणात् ॥ ७९ ॥
मूलम्
चन्द्रकान्तमणिच्छन्ने स्रवद्वारिकणद्रवे
क्षणं वातायने स्थित्वा जलयन्त्रेक्षणं क्षणात् ॥ ७९ ॥
विश्वास-प्रस्तुतिः
रचयन्ति क्षणं शय्यां दीर्घिकां भोजिनीदलैः
वीज्यमाना सखीभिस्ताः शीतलैः कदलीदलैः ॥ ८० ॥
मूलम्
रचयन्ति क्षणं शय्यां दीर्घिकां भोजिनीदलैः
वीज्यमाना सखीभिस्ताः शीतलैः कदलीदलैः ॥ ८० ॥
विश्वास-प्रस्तुतिः
इत्थं युगसमां रात्रिं मन्वानास्ता वरस्त्रियः
कथञ्चिद्धीरतां कृत्वा विह्वलाः सज्वरा इव ॥ ८१ ॥
मूलम्
इत्थं युगसमां रात्रिं मन्वानास्ता वरस्त्रियः
कथञ्चिद्धीरतां कृत्वा विह्वलाः सज्वरा इव ॥ ८१ ॥
विश्वास-प्रस्तुतिः
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम्
विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गताः ॥ ८२ ॥
मूलम्
प्रातर्व्योममणिं दृष्ट्वा मन्यमानाः स्वजीवितम्
विज्ञाप्य मातरं स्वां स्वां गौरीं पूजयितुं गताः ॥ ८२ ॥
विश्वास-प्रस्तुतिः
स्नात्वा तेन विधानेन पुष्पैर्धूपैर्यथा तथा
विधाय पूजनं देव्या गायन्त्यस्तत्र ताः स्थिताः ॥ ८३ ॥
मूलम्
स्नात्वा तेन विधानेन पुष्पैर्धूपैर्यथा तथा
विधाय पूजनं देव्या गायन्त्यस्तत्र ताः स्थिताः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः
पित्राश्रमपदात्तस्मादच्छोदे च सरोवरे ॥ ८४ ॥
मूलम्
एतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः
पित्राश्रमपदात्तस्मादच्छोदे च सरोवरे ॥ ८४ ॥
विश्वास-प्रस्तुतिः
मित्रं दृष्ट्वैव रात्र्यन्ते नलिन्य इव कन्यकाः
उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ॥ ८५ ॥
मूलम्
मित्रं दृष्ट्वैव रात्र्यन्ते नलिन्य इव कन्यकाः
उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
गत्वा तदैव ताः कन्याः समीपं ब्रह्मचारिणः
सव्यापसव्यबन्धेन भुजपाशं च चक्रिरे ॥ ८६ ॥
मूलम्
गत्वा तदैव ताः कन्याः समीपं ब्रह्मचारिणः
सव्यापसव्यबन्धेन भुजपाशं च चक्रिरे ॥ ८६ ॥
विश्वास-प्रस्तुतिः
गतोऽसि धूर्त पूर्वेद्युर्गन्तुमद्य न शक्यसे
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्तु विचारणा ॥ ८७ ॥
मूलम्
गतोऽसि धूर्त पूर्वेद्युर्गन्तुमद्य न शक्यसे
वृतस्त्वं नूनमस्माभिर्नात्र तेऽस्तु विचारणा ॥ ८७ ॥
विश्वास-प्रस्तुतिः
इत्युक्तो ब्राह्मणः प्राह प्रसन्बाहुपाशगः
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ॥ ८८ ॥
मूलम्
इत्युक्तो ब्राह्मणः प्राह प्रसन्बाहुपाशगः
युष्माभिरुच्यते भद्रमनुकूलं प्रियं वचः ॥ ८८ ॥
विश्वास-प्रस्तुतिः
प्रथमाश्रमनिष्ठस्य किन्तु नाद्यापि मे व्रतम्
वेदाभ्यसनशीलस्य पारं याति गुरोः कुले ॥ ८९ ॥
मूलम्
प्रथमाश्रमनिष्ठस्य किन्तु नाद्यापि मे व्रतम्
वेदाभ्यसनशीलस्य पारं याति गुरोः कुले ॥ ८९ ॥
विश्वास-प्रस्तुतिः
आश्रमे यत्र यो धर्मो रक्षणीयः स पण्डितैः
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ॥ ९० ॥
मूलम्
आश्रमे यत्र यो धर्मो रक्षणीयः स पण्डितैः
विवाहोऽयमतो मन्ये न धर्म इति कन्यकाः ॥ ९० ॥
विश्वास-प्रस्तुतिः
आकर्ण्य तस्य वाक्यानि तमूचुस्ता वचस्ततः
सकलध्वनिसोत्कण्ठाः कोकिला इव माधवे ॥ ९१ ॥
मूलम्
आकर्ण्य तस्य वाक्यानि तमूचुस्ता वचस्ततः
सकलध्वनिसोत्कण्ठाः कोकिला इव माधवे ॥ ९१ ॥
विश्वास-प्रस्तुतिः
धर्मादर्थोर्थतः कामः कामाद्धर्मफलोदयः
इत्येव निश्चितं शास्त्रं वर्णयन्ति विपश्चितः ॥ ९२ ॥
मूलम्
धर्मादर्थोर्थतः कामः कामाद्धर्मफलोदयः
इत्येव निश्चितं शास्त्रं वर्णयन्ति विपश्चितः ॥ ९२ ॥
विश्वास-प्रस्तुतिः
सकामो धर्मबाहुल्यात्पुरस्ते समुपागतः
सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं ततः ॥ ९३ ॥
मूलम्
सकामो धर्मबाहुल्यात्पुरस्ते समुपागतः
सेव्यतां विविधैर्भोगैः स्वर्गभूमिरियं ततः ॥ ९३ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा तद्वचनं तासां प्राह गम्भीरया गिरा
तथ्यं वो वचनं किन्तु समाप्येह स्वकं व्रतम् ॥ ९४ ॥
मूलम्
श्रुत्वा तद्वचनं तासां प्राह गम्भीरया गिरा
तथ्यं वो वचनं किन्तु समाप्येह स्वकं व्रतम् ॥ ९४ ॥
विश्वास-प्रस्तुतिः
प्राप्यनुज्ञां गुरोः सर्वं वैवाहं कर्म नान्यथा
इत्युक्त्वा पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दरः ॥ ९५ ॥
मूलम्
प्राप्यनुज्ञां गुरोः सर्वं वैवाहं कर्म नान्यथा
इत्युक्त्वा पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दरः ॥ ९५ ॥
विश्वास-प्रस्तुतिः
दिव्यौषधं ब्रह्मरसायनं च सिद्धिर्निधेः साधुकला वराङ्गनाः
मन्त्रस्तथा सिद्धिरसश्च धर्मतो नेमा निषेध्याः सुधिया समागताः ॥ ९६ ॥
मूलम्
दिव्यौषधं ब्रह्मरसायनं च सिद्धिर्निधेः साधुकला वराङ्गनाः
मन्त्रस्तथा सिद्धिरसश्च धर्मतो नेमा निषेध्याः सुधिया समागताः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
कार्यं हि दैवाद्यदि सिद्धमागतं तस्मिन्नुपेक्षां न च याति नीतिगः
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ॥ ९७ ॥
मूलम्
कार्यं हि दैवाद्यदि सिद्धमागतं तस्मिन्नुपेक्षां न च याति नीतिगः
यस्मादुपेक्षा न पुनः फलप्रदा तस्मान्न दीर्घीकरणं प्रशस्यते ॥ ९७ ॥
विश्वास-प्रस्तुतिः
सान्द्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः
कन्याः सुरूपाः खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेतरे ॥ ९८ ॥
मूलम्
सान्द्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः
कन्याः सुरूपाः खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेतरे ॥ ९८ ॥
विश्वास-प्रस्तुतिः
क्व वयं वरसुन्दर्यः क्व चाऽयं तापसो बटुः
दुर्घटस्य विधाने हि मन्ये धातातिपण्डितः ॥ ९९ ॥
मूलम्
क्व वयं वरसुन्दर्यः क्व चाऽयं तापसो बटुः
दुर्घटस्य विधाने हि मन्ये धातातिपण्डितः ॥ ९९ ॥
विश्वास-प्रस्तुतिः
तस्मादस्मानिदानीं तु स्वीकुर्यान्मङ्गलं भवान्
गान्धर्वेण विवाहेन ह्यन्यथा नो न जीवितम् 6.128.१००
श्रुतवाक्यस्ततः प्राह ब्राह्मणो धर्मवित्तमः
भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः १०१
धर्मश्चार्थश्च कामश्च मोक्षश्चैतच्चतुष्टयम्
यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलम् १०२
नाकालेहं व्रती कुर्यामतो दारपरिग्रहम्
न क्रियाफलमाप्नोति क्रियाकालं न वेत्ति यः १०३
यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानसम्
तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् १०४
एवं ज्ञात्वाशयं तस्य समीक्ष्यैताः परस्परम्
करात्करं विमुच्याथ जग्राहाङ्घ्री प्रमोदिनी १०५
भुजौ जग्रहतुस्तस्य सुशीला सस्वरा तथा
आलिलिङ्ग सुतारा च चुचुम्बे चन्द्रिकामुखम् १०६
तथापि निर्विकारोऽसौ प्रलयानलसन्निभः
शशाप ब्रह्मचारी ताः क्रोधेनात्यन्तमूर्च्छितः १०७
पिशाच्य इव मां लग्नास्तत्पिशाच्यो भविष्यथ
एवं तेनाशु शप्तास्तास्तं सन्त्यज्य पुरास्थिताः १०८
किमेतच्चेष्टितं पाप ह्यनागसि जने त्वया
प्रिये कृत्येऽप्रियं कृत्वा धिक्ता धर्मज्ञतां तव १०९
अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः
पुंसो लोकद्वये सौख्यं नाशं यातीति नः श्रुतम् ११०
तस्मात्त्वमपि नः शापात्पिशाचो भव सत्वरम्
इत्युक्त्वोपरता बाला निःश्वसन्त्यः क्षुधाकुलाः १११
तदा चान्योन्यसंरम्भात्तस्मिन्सरसि पार्थिव
ताः कन्या ब्रह्मचारी सः सर्वे पैशाचमागताः ११२
पिशाच्याः स पिशाचश्च क्रन्दमानाः सुदारुणम
क्षपयन्ति विपाकं तं पूर्वोपात्तस्य कर्मणः ११३
स्वकाले तु फलत्येव पूर्वोपात्तं शुभाशुभम्
स्वच्छाया इव दुर्वारं देवानामपि पार्थिव ११४
क्रन्दन्ति पितरस्तासां मातरस्तत्र तस्य च
अप्रमादश्च बालानां दैवं हि दुरतिक्रमम् ११५
तत ऊर्ध्वं पिशाचास्ते आहारार्थे सुदुःखिताः
इतस्ततश्च धावन्तो वसन्ति सरसस्तटे ११६
एवं बहुतिथे काले लोमशो मुनिसत्तमः
पौषे मासि चतुर्दश्यामच्छोदे स्नातुमागतः ११७
दृष्ट्वा तं ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः
धावन्तो हन्तुकामास्ते मिलित्वा यूथवर्तिनः ११८
दह्यमानासु तीव्रेण तेजसा लोमशस्य च
असमर्थाः पुरःस्थातुं सर्वे ते दूरतः स्थिताः ११९
तत्र वेदनिधिर्विप्रस्तदैव हि समागतः
समीक्ष्य लोमशं राजन्साष्टाङ्गं प्रणिपत्य सः १२०
उवाच सूनृतां वाचं बद्ध्वा शिरसि चाञ्जलिम्
महाभाग्योदये विप्र साधूनां सङ्गतिर्भवेत् १२१
गङ्गादिसर्वतीर्थेषु यो नरः स्नाति सर्वदा
यः करोति सतां सङ्गं तयोः सत्सङ्गतिर्वरा १२२
गुरूणां सङ्गमो विप्र दृष्टादृष्टफलो भुवि
स्वर्गदो रोगहारी च किन्तु सोपद्रवो मतः १२३
इत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम्
इमा गन्धर्वकन्यास्ता बटुः सोऽयं ममात्मजः १२४
सर्वे पिशाचरूपेण मिथः शापविमोहिताः
दीनाननास्तु तिष्ठन्ति तवाग्रे मुनिसत्तम १२५
त्वद्दर्शनेन बालानां निस्तारोऽद्य भविष्यति
सूर्योदये तमः स्तोमः किं न लीयेत गह्वरे १२६
श्रुत्वा तल्लोमशो राजन्कृपार्द्रीकृतमानसः
प्रत्युवाच महातेजास्तं मुनिं पुत्रदुःखितम् १२७
मत्प्रसादाच्च बालानां स्मृतिः सपदि जायताम्
धर्मं च वच्मि तं येन मिथः शापो लयं व्रजेत् १२८
वेदनिधिरुवाच
महर्षे कथ्यतां धर्मो मुच्यन्ते येन बालकाः
नायं कालो विलम्बस्य शापाग्निर्दारुणो यतः १२९
लोमश उवाच
मया सार्धं प्रकुर्वन्तु माघस्नानं विधानतः
शापान्मुच्यन्ति माघान्ते नान्यथा निष्कृतिर्भवेत् १३०
शापः पापफलं विप्र पापनाशो भवेन्नृणाम्
माघस्नानेन तीर्थे च इति मे निश्चिता मतिः १३१
सप्तजन्मकृतं पापं वर्तमानं च पातकम्
माघस्नानं दहेत्सर्वं पुण्यतीर्थे विशेषतः १३२
प्रायश्चित्तं न पश्यन्ति यस्मिन्पापे मुनीश्वराः
पातकं पुण्यतीर्थेषु नश्येत्तदपि माघतः १३३
ज्ञानकृन्मानसे माघस्तस्मान्मोक्षफलप्रदः
हिमवत्पृष्ठतीर्थेषु सर्वपापप्रणाशनः १३४
इन्द्रलोकप्रदोच्छोदे निर्दिष्टो वेदवादिभिः
सर्वपापहरो माघो मोक्षदो बदरीवने १३५
पापहा दुःखहारी च सर्वकामफलप्रदः
रुद्रलोकप्रदो माघो नार्मदे पापनाशनः १३६
यामुनः सूर्यलोकाय भवेत्कल्मषनाशनः
सारस्वतोऽघविध्वंसी ब्रह्मलोकफलप्रदः १३७
विशालफलदो माघो विशालायां द्विजोत्तम
पातकेन्धनदावाग्निर्गर्भहेतु क्रियापहः १३८
विष्णुलोकाय मोक्षाय जाह्नवः परिकीर्तितः
शरयू गण्डकी सिन्धुश्चन्द्रभागा च कौशिकी १३९
तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका
कावेरी तुङ्गभद्रा च अन्या याश्च समुद्रगाः १४०
आशु माघी नरो याति स्वर्गलोकं विकल्मषः
नैमिषे विष्णुसायुज्यं पुष्करे ब्रह्मणोन्तिकम् १४१
आखण्डलस्य लोको हि कुरुक्षेत्रे तु माघतः
माघो देवह्रदे विप्र योगसिद्धिफलप्रदः १४२
प्रभासे मकरादित्ये स्नानाद्रुद्रगणो भवेत्
देवक्यां देवतादेहो नरो भवति माघतः १४३
माघस्नानेन भो विप्र गोमत्यां न पुनर्भवः
हेमकूटे महाकाले ॐकारे अमरेश्वरे १४४
नीलकण्ठेर्बुदे माघाद्रुद्रलोके महीयते
सर्वासां सरितां विप्र सङ्गमे मकरे रवौ १४५
स्नानेन सर्वकामानामवाप्तिर्जायते नृणाम्
माघस्तु प्राप्यते धन्यैः प्रयागे द्विजसत्तम
अपुनर्भवदं तत्र सितासितजलं यतः १४६
गायन्ति देवाः सततं दिविस्था माघः प्रयागे किल नो भविष्यति
स्नानान्नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसन्निधौ १४७
मज्जन्ति येऽपित्र्यहमत्र मानवास्तीर्थे प्रयागे बहुपापकञ्चुकाः
व्रजन्ति ते नो निरयेषु धर्मिणः स्वर्गे शुभे चारु चरन्ति देववत् १४८
तीर्थैर्व्रतैर्दानतपोभिरध्वरैः सार्धं विधात्रा तुलया धृतं पुरः
माघे प्रयागस्य तयोर्द्वयोरभून्माघो गरीयानत एव सोऽधिकः १४९
वाताम्बुपर्णाशनदेहशोषणैस्तपोभिरुग्रैश्चिरकालसञ्चितैः
योगैश्च संयान्ति नरा नतां गतिं स्नानेन माघस्य हि यान्ति यां गतिम् 6.128.१५०
स्नाताश्च ये मकरभास्करोदये तीर्थे प्रयागे सुरसिन्धुसङ्गमे
तेषां गृहद्वारमलङ्करोति किं भृङ्गावलि कुञ्जरकर्णताडिता १५१
यो राजसूयाद्धयमेधयज्ञतः स्नानात्फलं सम्प्रददाति चाधिकम्
पापानि सर्वाणि विलोप्य लीलया नूनं प्रयागः स कथं न सेव्यते १५२
अवन्तिविषये राजा वीरसेनोऽभवत्पुरा
नर्मदातीरमागत्य राजसूयं चकार सः १५३
षोडशैरश्वमेधैश्च स्वर्णवाटविराजितैः
स्वर्णभूषणयूपाढ्यैरीजे सोऽपि यथाविधि १५४
प्रददौ धान्यराशींश्च द्विजेभ्यः पर्वतोपमान्
वदान्यो देवताभक्तो गोप्रदः स सुवर्णदः १५५
ब्राह्मणो भद्रको नाम मूर्खो हीनकुलस्तथा
कृषीवलो दुराचारः सर्वधर्मबहिष्कृतः १५६
कृषिकर्मसमुद्विग्नो बन्धुभिश्चाप्यसंस्कृतः
इतस्ततः परिभ्रम्य निर्गतः क्षुत्प्रपीडितः १५७
दैवतः सार्थमाविश्य प्रयागं स समागतः
महामाघीं पुरस्कृत्य सस्नौ तत्र दिनत्रयम् १५८
अनघः स्नानमात्रेण भूत्वेह स द्विजोत्तमः
प्रयागाच्चलितस्तत्र पुनर्यस्मात्समागतः १५९
स राजा सोऽपि विप्रश्च विपन्नावेकदा तदा
तयोर्गतिः समादृष्टा मया शक्रस्य सन्निधौ १६०
तेजो रूपं बलं स्त्रैणं देवयानं विभूषणम्
पारिजातमयीमाला नृत्यं गीतं तयोः समम् १६१
इति दृष्टं हि माहात्म्यं क्षेत्रस्य कथमुच्यते
माघः सितासिते विप्र राजसूयैः समो मतः १६२
धनुस्त्रिशतविस्तीर्णे सितनीलाम्बुसङ्गमे
अपुनरावृत्तिर्माघी राजसूयी पुनर्भवेत् १६३
माघमासीय वातोऽपि सितासितजलं स्पृशेत्
अधर्म्यं न स्पृशेन्नूनं महापातकहा हि सः १६४
किमत्र बहुनोक्तेन श्रूयतां द्विज निश्चितम्
समुद्भूतफलं पापं तीर्थे माघः प्रणाशयेत् १६५
अत्र ते कथयिष्यामि सावधानमतिः शृणु
पिशाचमोचनं नाम इतिहासं पुरातनम्
शृण्वन्त्यप्सरसो बालाः शृणोतु त्वत्सुतस्तथा
मत्प्रसादात्स्मृतिर्लब्ध्वा पैशाच्यान्मुक्तिकामिनः ॥ १ ॥

पुरा देवद्युतिर्विप्रो वैष्णवो वेदपारगः १६६
पिशाचान्मोचयामास करुणाप्लुतमानसः १६७
दिलीप उवाच
कुत्र स्थितः कस्य पुत्रो नियमः कोऽस्य वा जपः
केन वा वैष्णवो वृत्तः के पिशाचाश्च मोचिताः १६८
एतद्विस्तरतः सर्वं कीर्तयस्व महामुने
कौतूहलं महापुण्यं शृणुमस्त्वत्प्रसादतः १६९
वसिष्ठ उवाच
प्लक्षप्रस्रवणे पुण्ये सरस्वत्यास्तटे शुभे
तत्राश्रमपदं तस्य शैलमाश्रित्य शोभनम् १७०
शालैस्तालैस्तमालैश्च बिल्वैर्बकुलपाटलैः
तिन्तिडीचिरिबिल्वैश्च चूतचम्पककाञ्चनैः १७१
करञ्जैः कोविदारैश्च केसरैः कुञ्जराशनैः
तिलकैः कर्णिकारैश्च कुम्भैः खादिरतिन्दुकैः १७२
वानीरैः साल्वजम्बीरैः पीलूदुम्बरवेतसैः
शाकोटैरटरूषैश्च करहाटैर्वटद्रुमैः १७३
घोण्टाकुटजपालाशैरशोकैः शोकहारिभिः
जम्बूनिम्बकदम्बैश्च क्षीरिकाकरमर्दकैः १७४
बीजपूरैः सनारिङ्गै रम्भाराजिविराजितैः
पनसै रसवद्भिश्च नारिकेलैः सदाफलैः १७५
सप्तच्छदैस्त्रिपत्रैश्च शिरीषामलकैः शुभैः
कर्कन्धू लकुचैरक्षैः पारिभद्रैर्वचादिभिः १७६
केतकैः सिन्दुवारैश्च तगरैः कुन्दमल्लिकैः
पद्मेन्दीवरकह्लार मालती यूथिकादिभिः १७७
मालती मोगरैश्चैव जातीफलविराजितैः
पुन्नागैः किंशुकैश्चैव बर्बरीतुलसीद्रुमैः १७८
आश्रमो रमणीयः स द्रुमैर्नानाविधैर्नृप
वनमध्ये नदी याति पुण्यतोया सरस्वती १७९
कूजन्ति सारसास्तत्र मदस्निग्धकलं सदा
नदन्ति कोकिलाः शब्दं गुञ्जन्ति च मधुव्रताः १८०
बहुकोलाहलं भूप तद्वनं शुकसारिभिः
चरन्ति श्वापदास्तत्र विविधाः काननोत्तमे १८१
सदाफलं सदापुष्पं परागकणधूसरम्
आच्छन्नं काननं सर्वं मधुवृक्षैः समन्ततः १८२
नवपल्लवसञ्जातमञ्जरीभरवल्लिभिः
आश्लिष्टमभितोरम्यं प्रियाभिरिव वल्लभः १८३
तस्य शापभयात्त्रस्तो वातो वाति समन्ततः
न वर्षन्त्यश्मभिर्मेघा न शोषयति भास्करः १८४
वनं नोपद्रवं तद्धि सदा सिद्धनिषेवितम्
आह्लादजनकं नित्यं वनं चैत्ररथं यथा १८५
तस्मिन्वसति धर्मात्मा देवद्युतिर्द्विजोत्तमः
पुत्रः सुमित्रो विप्रस्य लब्धो लक्ष्मीपतेर्वरात् १८६
नियमः श्रूयतां तस्य सर्वदा नियतात्मनः
ग्रीष्मे पञ्चतपा नित्यं सूर्यन्यस्तविलोचनः १८७
वर्षत्कादम्बिनी यावद्वर्षास्वभ्रावकाशगः
वाते प्रवाते निष्कम्पो दुःसहो हिमवानिव १८८
वसत्यप्सु स हेमन्ते ह्रदे सारस्वते द्विज
उपस्पृशति काले स त्रिवारं वारिनिर्मलम् १८९
पितॄन्देवानृषीन्नित्यं सन्तर्पयति श्रद्धया
ब्रह्मयज्ञपरो नित्यं सत्यवादी जितेन्द्रियः १९०
भूमौ विश्राम्य विश्रान्तः प्रदध्यौ प्रार्थयन्हरिम्
वन्यैर्जुहोत्यग्निहोत्रं श्रद्धयातिथिपूजकः १९१
चान्द्रायणविधानेन कालं नयति सर्वदा
स्वयं विगलितैः पत्रैः फलैर्वृत्तिं समीहते १९२
अनुद्विग्नस्तपोनिष्ठो वेदवेदाङ्गपारगः
धमनी विकरालोसावस्थिमात्रकलेवरः १९३
इत्थं जगाम वर्षाणां सहस्रं तस्य कानने
तदा जज्वाल शैलोऽसौ तपसस्तस्य तेजसा १९४
सोढुं न शक्यते भूतैस्तेजस्तस्य महात्मनः
वैश्वानर इवाभाति प्रज्वलंस्तपसा द्विज १९५
गतवैराणि भूतानि समजायन्त तद्वने
मृगव्याघ्राखुमार्जारा मिथः क्रीडन्ति निर्भयाः १९६
अन्योऽपि नियमस्तस्य श्रूयतामतिदुर्लभः
नारायणं त्रिकालं स सम्पूजयति नित्यशः १९७
पुष्पाणां तु सहस्रेण विकचेन सुगन्धिना
वेदसूक्तविधानेन विष्णुध्यानपरायणः १९८
विष्णोः सम्प्रीतये विप्रः कुरुते कर्म चाखिलम्
दधीचेर्वरदानात्स सञ्जातो वरवैष्णवः १९९
एकदा मासि वैशाखे एकादश्यां महामुनिः
पूजां कृत्वा हरे रम्यां विचित्रामकरोत्स्तुतिम् 6.128.२००
तदैव खगमारुह्य देवो देवो हरिः स्वयम्
आजगाम पुरस्तस्य तया स्तुत्यातिहर्षितः २०१
तं दृष्ट्वा गरुडारूढं प्रत्यक्षं जलदच्छविम्
चतुर्बाहुं विशालाक्षं सर्वालङ्कारभूषितम् २०२
उद्भूतपुलको विप्रः सानन्द जललोचनः
जगाम शिरसा भूमौ कृतकृत्यमनास्तदा २०३
न ममौ तेन हर्षेण स ब्रह्माण्डोदरेऽपि हि
न सस्मार निजं देहं ब्रह्मभूत इवाभवत् २०४
ततः सम्भाषितः प्रीत्या हरिणा वैष्णवो मुनिः
देवद्युते विजानामि मद्भक्तस्त्वं मदाश्रयः २०५
सन्न्यस्ताखिलकर्मासि मद्भावो मन्मनाः सदा
वरं ब्रूहि प्रसन्नोऽस्मि स्तोत्रेणानेन चानघ २०६
इति श्रुत्वा हरेर्वाक्यं प्रत्युवाच स तापसः
देवदेवारविन्दाक्ष स्वमायाधृतविग्रह २०७
त्वद्दर्शनात्सदा देव दुर्लभो नापरो वरः
ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः २०८
त्वां साक्षात्कर्तुमिच्छन्ति सिद्धाश्च कपिलादयः
अहं ममेति पाशा ये मोह लोभाः शुभाशुभाः २०९
सहेतुकाश्च दह्यन्ते दृष्टे त्वयि परावरे
जन्मनः कर्मणो बुद्धेराविर्भूतं फलं मम २१०
यद्दृष्टोऽसि जगन्नाथ प्रार्थये किमतः परम्
न वरार्थं हि देवेश त्वत्पादपङ्कजं हृदि २११
चिन्तयामि सदा भक्त्या त्वद्गतेनान्तरात्मना
इममेव वरं याचे त्वद्भक्तिरचला मम २१२
अस्तु वै कमलानाथ प्रार्थये नापरं वरम्
इति श्रुत्वा वचस्तस्य प्रसन्नवदनो हरिः २१३
प्रत्युवाच प्रसन्नात्मा एवमस्तु द्विजोत्तम
अन्यस्ते तपसः कश्चित्प्रत्यूहो न भविष्यति २१४
एतच्च त्वत्कृतं स्तोत्रं ये पठिष्यन्ति मानवाः
तेषां मद्विषया भक्तिर्निश्चला च भविष्यति २१५
धर्मकार्यं च यत्किञ्चित्साङ्गं सर्वं भविष्यति
ज्ञाने च परमा निष्ठा तेषां स्थास्यति निश्चला २१६
इत्युक्त्वान्तर्हितस्तत्र देवदेवो जनार्दनः
देवद्युतिस्तदारभ्य नारायणपरोऽभवत् २१७
दिलीप उवाच
महर्षेऽनुगृहीतोऽस्मि कथया पावनीकृतः
अनया विष्णुसङ्गत्या गङ्गयेवाहमद्य वै २१८
किं तत्स्तोत्रं समाख्याहि प्रसन्नो येन माधवः
तस्यानघस्य विप्रस्य महत्कौतूहलं मम २१९
त्वत्प्रसादादहं विप्र मन्ये प्राप्तं मनोरथम्
महतां सङ्गतिः कस्य महत्त्वाय न कल्पते २२०
कथयस्व प्रसादेन विष्णोः स्तोत्रमनुत्तमम्
येन तुष्टः स भगवान्ददौ तस्य च दर्शनम् २२१
वसिष्ठ उवाच
कथयामि रहस्यं ते यज्जप्तं स्तोत्रमुत्तमम्
प्राग्गृहीतं सुपर्णेन गरुडान्मयि चागतम् २२२
अध्यात्मगर्भसारं तन्महोदयकरं शुभम्
सर्वपापहरं भूप स्वात्मज्ञानकरं परम् २२३
ॐ नमो वासुदेवाय नमो विश्वाय चक्रिणे
भक्तप्रियाय कृष्णाय जगन्नाथाय शार्ङ्गिणे २२४
स्तोता स्तुत्यः स्तुतिः सर्वं जगद्विष्णुमयं यदा
तदा संस्तूयते केन भक्तिर्मोदकरी नृणाम् २२५
यस्य देवस्य निःश्वासो वेदाः साङ्गाः ससूत्रकाः
का स्तुतिः प्रमुदे तस्य भक्त्याऽहं मुखरोऽभवम् २२६
चक्रवद्भ्रमते सर्वं त्रैलोक्यं सचराचरम्
अतस्त्वं गीयते देव चक्रपाणि वरायुध २२७
वेदो न वक्ति यं साक्षान्न च वाग्वेत्ति नो मनः
मद्विधस्तं कथं स्तौति भक्तिमान्वा कथं भवेत् २२८
ब्रह्मादिब्रह्मविष्णुस्त्वं त्वमेव सकलाश्रयः
स्रष्टा ब्रह्मनिदानं च शुद्धं ब्रह्मत्वमेव च २२९
(कोऽयं कायस्तव विभो भित्त्वा स्पृशति कायिनम्
कायदोषैर्न चाघ्रातस्तस्मै नमोस्तु योगिने १)
देवभावेन जागर्ति न निद्राति निजात्मनि
सुखसन्दोहबुद्धिर्या सा त्वं विष्णो न संशयः २३०
महदादयो महाभावास्तथा वैकारिका गुणाः
त्वमेव नाथ तत्सर्वं नानात्वं मूढकल्पना २३१
केशकेशवरूपाभिः कल्पना तिसृभिस्तथा
त्वमेव कल्पसे ब्रह्म पुमानिव सुतादिभिः २३२
विदोषं विगुणं चैकं चिन्मूर्तिरखिलं जगत्
कवीनां भाति यत्तत्त्वं तं विष्णुं नौमि निर्मलम् २३३
यस्य ज्ञानेन कुर्वन्ति कर्मापि श्रुतिभाषितम्
निरीषणा जगन्मित्राः शुद्धं ब्रह्म नमामि तत् २३४
ध्वस्तेतरच्च सन्मात्रं यत्प्रबोधादुपासते
योगिनः सर्वभूतेषु सद्रूपं नौमि तं हरिम् २३५
ब्रह्माहमिति गायन्ति यं ज्ञात्वैकं वरा द्विजाः
पश्यन्तो हि त्वया तुल्यं देव तं नौमि माधवम् २३६
मायया मोहवैचित्र्यं तथाहं ममतां नृणाम्
यो नाशयति पापौघान्नमस्तस्मै चिदात्मने २३७
प्रयाणे वा प्रयाणे च यन्नामस्मरतां नृणाम्
सद्यो नश्यन्ति पापौघा नमस्तस्मै चिदात्मने २३८
मोहानललसज्ज्वाला ज्वलल्लोकेषु सर्वदा
यत्पादाम्भोरुहच्छायां प्रविष्टश्च न दह्यते २३९
यस्य स्मरणमात्रेण न मोहो नैव दुर्गतिः
न रोगा नैव दुःखानि तमनन्तं नमाम्यहम् २४०
कामयन्ते प्रजा नैव धिषणाभ्यः समुत्थिताः
लोकमात्मैव पश्यन्ति यं बुद्ध्वैकचरा जनाः २४१
शब्दार्थः संविदर्थश्च विष्णोर्नामपरो यदि
सत्येन तेन संसारो मा संस्पृशतु माधव २४२
नारायणो जगद्व्यापी यदि वेदादिसम्मतः
सत्येन तेन निर्विघ्ना विष्णुभक्तिर्ममास्तु वै २४३
यो न बीजं विना बीजं बीजे यो बीजभावितः
स विष्णुर्भव बीजं मे सितविद्यासि नाद्य तु २४४
त्रितनुर्नटवद्यस्तु सृष्टि स्थिति लयेषु च
गुणैर्भवति कार्येषु स प्रसीदतु मे हरिः २४५
दशधेहाऽवतीर्णो यो धर्मत्राणाय केवलम्
अभ्यर्थितः सुरैः सर्वैः स प्रसीदतु मे हरिः २४६
ब्रह्मादिस्तम्बपर्यन्तं प्राणिहृन्मन्दिरेऽमलः
एको वसति यो देवः स प्रसीदतु मे हरिः २४७
इच्छां चक्रे स देवाग्रे एकश्चैव बहुस्तथा
प्रविष्टो देवताः स्रष्टा स प्रसीदतु मे हरिः २४८
हृत्खगः खसमः खादिः खातीतः खक्रियः खगः
खं ब्रह्मा खादिभुक्चान्ते खमूर्तिस्त्वं मखाशनः २४९
यद्भासायन्मुदा यस्य मायया सज्यते जगत्
जाड्यं दुःखमसत्यं च स भवानेव तन्मयः 6.128.२५०
त्वत्सृष्टं मोदते विश्वं त्वत्त्यक्तमशुचिर्भवेत्
तत्सङ्गतोऽप्यसङ्गस्त्वं विकारस्तेन तेन हि २५१
भूतयोगजचैतन्यं चार्वाकायमुपासते
सौगता ब्रवते तर्कैस्त्वां बुद्धिं क्षणभङ्गुराम् २५२
शरीरपरिमाणं त्वां मन्यन्ते जिनदेवताः
ध्यायन्ति पुरुषं साङ्ख्यास्त्वामेव प्रकृतेः परम् २५३
जन्मादिरहितः पूर्वं यः स्यादानन्दलक्षणम्
त्वामेवोपनिषद्ब्रह्म चिन्तयन्ति परस्परम् २५४
खादिभूतानि देहश्च मनो बुद्धीन्द्रियाणि च
विद्याविद्ये त्वमेवात्र नान्यत्त्वत्तोऽस्ति किञ्चन २५५
त्वं धाता सर्वभूतानां त्वमेव शरणं मम
त्वमग्निस्त्वं हविः शक्रो होता मन्त्रः क्रियाफलम् २५६
त्वमस्ति नास्ति वैकुण्ठ त्वामहं शरणं गतः
त्वं कर्मफलदाता च दीक्षितानां क्रियाफलम् २५७
त्वं हेतुः सर्वभूतानां त्वमेव शरणं मम
युवतीनां यथा यूनि यूनां च युवतौ यथा २५८
मनोऽभिरमते तद्वत्प्रीतिर्मे रमतां त्वयि
अपि पापं दुराचारं नरं त्वत्प्रणतं हरे २५९
नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा
तापत्रयमघौघश्च तावत्पीडयते जनम् २६०
यावत्स्मरति नो नाथ भक्त्या त्वत्पादपङ्कजम् २६१
यं नस्पृशन्ति गुणजातिशरीरधर्मा यं न स्पृशन्ति गतयस्त्वखिलेन्द्रियाणाम्
यं च स्पृशन्ति मुनयो गतसङ्गमोहास्तस्मै नमो भगवते हरये करोमि २६२
स्थूलं विलाप्यकरणे करणं निदाने तत्कारणं करणकारणवर्जिते च
इत्थं विलाप्य मुनयः प्रविशन्ति तत्र तस्मै नमोस्तु हरये मुनिसेविताय २६३
यद्ध्यानसंवहनघूर्णवशीकृतान्तामैश्वर्यचारुगुणिनीं सुखमोक्षलक्ष्मीम्
आलिङ्ग्य शेरत इहात्मसुखैकभाजस्तस्मैनमोऽस्तु हरये मुनिसेविताय २६४
जन्मादिभावविकृतेर्विरहस्वभावे यस्मिन्नयं परिधुनोति षडूर्मिवर्गः
यं तापयन्ति न सदा मदनादिदोषास्तं वासुदेवममलं प्रणतोऽस्मि हार्दम् २६५
यद्ध्यानसङ्गतमलं विजहात्यविद्यां यद्ध्यानवह्निपतितं जगदेति नाशम्
यज्ज्ञानमुल्लसदसिद्यति संशयारिं तं त्वां हरिं विशदिबोधघनं नमामि २६६
चराचराणि भूतानि सर्वाणि च हरेर्वशे
यथात्र तेन सत्येन पुरस्तिष्ठतु मे हरिः २६७
यथा नारायणः सर्वं जगत्स्थावरजङ्गमम्
तेन सत्येन मे रूपं प्रदर्शयतु केशवः २६८
भक्तिर्यथा हरौ मेऽस्ति तद्वरिष्ठा गुरौ यदि
ममास्ति तेन सत्येन स्वं दर्शयतु केशवः २६९
तस्यैवं शपथैः सत्यैर्भक्तिं तस्यानुचिन्तयन्
दर्शयामास चात्मानं स प्रीतः पुरुषोत्तमः २७०
ततो दत्त्वा वरं तस्य पूरयित्वा मनोरथम्
जगाम कमलाकान्तः स्तुत्या विप्रेण तोषितः २७१
कृतकृत्यो द्विजः सोऽपि वासुदेवपरायणः
शिष्यैः सार्धं जपन्स्तोत्रं तस्मिन्नास्ते तपोवने २७२
कीर्तयेद्यनइदन्नस्तोत्रन्नशृणुयाद्योऽपिनमानवः
अश्वमेधस्यनयज्ञस्यनप्राप्नोतिनविपुलन्नफलम् २७३
आत्मविद्याप्रबोधं च लभते ब्राह्मणः सदा
न पापे जायते बुद्धिर्नैव पश्यत्यमङ्गलम् २७४
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा
नृणां भवति सर्वेषामस्य स्तोत्रस्य कीर्तनात् २७५
विचार्यार्थं जपेद्यस्तु श्रद्धया तत्परो नरः
स विधूयेह पापानि लभते वैष्णवं पदम् २७६
लभते वाञ्च्छितान्कामान्पुत्रपौत्रान्पशूंस्तथा
दीर्घमायुर्बलं वीर्यं लभते स सदा पठन् २७७
तिलपात्रसहस्रेण गोसहस्रेण यत्फलम्
तत्फलं समवाप्नोति य इमां कीर्तयेत्स्तुतिम् २७८
धर्मार्थकाममोक्षाणां यं यं कामयते सदा
अचिरात्तमवाप्नोति स्तोत्रेणानेन मानवः २७९
आचारे विनये धर्मे ज्ञाने तपसि सन्नये
नृणां भवति नित्यं धीरिमां संशृण्वतां स्तुतिम् २८०
महापातकयुक्तो वा युक्तो वा ह्युपपातकैः
सद्यो भवति शुद्धात्मा स्तोत्रस्य पठनात्सकृत् २८१
प्रज्ञा लक्ष्मीर्यशः कीर्तिज्ञानधर्मविवर्धनम्
दुष्टग्रहोपशमनं सर्वाशुभविनाशनम् २८२
सर्वव्याधिहरं पथ्यं सर्वारिष्टनिषूदनम्
दुर्गतेस्तरणं स्तोत्रं पठितव्यं द्विजातिभिः २८३
नक्षत्रग्रहापीडासु राजचोरभयेषु च
अग्निचोरनिपातेषु सद्यः सङ्कीर्तयेदिदम् २८४
सिंहव्याघ्रभयं नास्ति नाभिचारभयं तथा
भूतप्रेतपिशाचेभ्यो राक्षसेभ्यस्तथैव च २८५
पूतना जृम्भकेभ्यश्च विघ्नेभ्यश्चैव सर्वदा
नृणां क्वचिद्भयं नास्ति स्तवे ह्यस्मिन्प्रकीर्तिते २८६
वासुदेवस्य पूजां यः कृत्वा स्तोत्रमुदीरयेत्
लिप्यते पातकैर्नासौ पद्मपत्रमिवाम्भसा २८७
गङ्गादिपुण्यतीर्थेषु या स्नानैर्नाप्यते गतिः
तां गतिं समवाप्नोति पठन्पुण्यामिमां स्तुतिम् २८८
एककालं द्विकालं वा त्रिकालं वापि यः पठेत्
सर्वदा सर्वकालेषु सोऽक्षयं सुखमश्नुते २८९
चतुर्णामपि वेदानां त्रिरावृत्त्या च यत्फलम्
तत्फलं लभते स्तोत्रमधीयानः सकृन्नरः २९०
अक्षय्यं धनमाप्नोति स्त्रीणां भवति वल्लभः
पूजां विन्दति लोकेऽस्मिच्छ्रद्धया संस्मरन्हरिम् २९१
सर्वदा सम्पदायुक्तो विपदं नैव गच्छति
गोभिर्न ह्रियते स्तोत्रं नित्यं यः कीर्तयेद्धि यत् २९२
अलक्ष्मी कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम्
सद्यो नश्यन्ति भक्तानामेतं संशृण्वतां स्तवम् २९३
प्रातरुत्थाय योऽधीते शुचिर्विष्णुपरायणः
अक्षय्यं लभते सौख्यमिह लोके परत्र च २९४
देवद्युतिप्रणीतं वै विष्णुप्रीतिकरं शुभम्
विष्णुप्रसादजननं विष्णुदर्शनकारकम् २९५
योगसारमिदं नाम स्तोत्रं परमपावनम्
यः पठेत्सततं भक्त्या विष्णुलोकं स गच्छति २९६
इति ते कथितं स्तोत्रं गुह्यं पापप्रणाशनम्
अत ऊर्ध्वं प्रवक्ष्यामि पिशाचस्य विमोचनम् २९७
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे
योगसारस्तोत्रकथनन्नाम अष्टाविंशत्यधिकशततमोऽध्यायः १२८