वसिष्ठ उवाच
विश्वास-प्रस्तुतिः
अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम
पृच्छते कार्तवीर्याय दत्तात्रेयेण भाषितम् ॥ १ ॥
मूलम्

दत्तात्रेयं हरिं साक्षाद्वसन्तं सह्य पर्वते
पप्रच्छ तं द्विजं गत्वा राजा माहिष्मतीपतिः ॥ २ ॥

सहस्रार्जुन उवाच
भगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मया
माघस्नानफलं ब्रूहि कृपया मम सुव्रत ॥ ३ ॥

दत्तात्रेय उवाच
श्रूयतां नृपशार्दूल एतत्प्रश्नोत्तरं शुभम्
ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने ॥ ४ ॥

तत्सर्वं कथयिष्यामि माघस्नानफलं महत्
यथादेशं यथातीर्थं यथाविधि यथाक्रियम् ॥ ५ ॥

अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः
अमाघस्नायिनां नॄणां निष्फलं जन्मकीर्तितम् ॥ ६ ॥

असूर्यं गगनं यद्वदचन्द्रमुडुमण्डलम्
तद्वन्नाभाति सत्कर्म माघस्नानं विना नृप ॥ ७ ॥

व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः
माघमज्जनमात्रेण यथा प्रीणाति केशवः ॥ ८ ॥

न समं विद्यते किञ्चित्तेजः सौरेण तेजसा
तद्वत्स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥ ९ ॥

प्रीतये वासुदेवस्य सर्वपापापनुत्तये
माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः ॥ १० ॥

किं रक्षितेन देहेन सुपुष्टेन बलीयसा
अध्रुवेणाप्यशुचिना माघस्नानं विना भवेत् ॥ ११ ॥

अस्थिस्तम्भं स्नायुबद्धं मांसक्षतज लेपनम्
चर्मावनद्धं दुर्गन्धं पात्रं मूत्रपुरीषयोः ॥ १२ ॥

जराशोकविपद्व्याप्तं रोगमन्दिरमातुरम्
रजस्वलमनित्यं च सर्वदोषसमाश्रयम् ॥ १३ ॥
मूलम्
जराशोकविपद्व्याप्तं रोगमन्दिरमातुरम्
रजस्वलमनित्यं च सर्वदोषसमाश्रयम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
परोपतापितापार्तं परद्रोहि परं विषम्
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥ १४ ॥

दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम्
अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् ॥ १५ ॥

निसर्गतोऽधर्मरतं तृष्णाशत समाकुलम्
कामक्रोध महालोभ नरकद्वार संस्थितम् ॥ १६ ॥

क्रिमिविड्भस्मभवति परिणामे शुनां हविः
ईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितम् ॥ १७ ॥

बुद्बुदाइव तोयेषु पूतिका इव जन्तुषु
जायन्ते मरणायैव माघस्नानविवर्जिताः ॥ १८ ॥

अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च
अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् ॥ १९ ॥

सदम्भश्च हतो धर्मः क्रोधेनैव हतं तपः
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥ २० ॥

गुर्वभक्ता हता नारी ब्रह्मचारी तया हतः
अदीप्तेऽग्नौ हतो होमो हता भुङ्क्तिरसाक्षिका ॥ २१ ॥

उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता
शूद्रभिक्षो हतो यागः कृपणस्य हतं धनम् ॥ २२ ॥

अनभ्यासा हता विद्या हतो राजा विरोधकृत्
जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् ॥ २३ ॥

असत्या च हता वाणी तथा पैशुन्यवादिनी
सन्दिग्धश्च हतो मन्त्रो व्यग्रचित्तो हतो जपः ॥ २४ ॥

हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः
अश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम् ॥ २५ ॥

इहलोको हतो नॄणां दरिद्राणां यथा नृप
मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥ २६ ॥

मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ
कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत् ॥ २७ ॥

ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः
माघस्नायी विपापः स्यात्तत्संसर्गी च पञ्चमः ॥ २८ ॥

माघमासे रटन्त्यापः किञ्चिदभ्युदिते रवौ
ब्रह्मघ्नं वा सुरापं वा कम्पन्तं तं पुनीमहे ॥ २९ ॥

उपपापानि सर्वाणि पातकानि महान्त्यपि
भस्मीभवन्ति सर्वाणि माघस्नानोद्यतं नरम् ॥ ३० ॥

कम्पन्ति सर्वपापानि माघस्नानसमागमे
नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ॥ ३१ ॥

एवं क्रोशन्ति पापानि दृष्ट्वा स्नानोद्यतं नरम्
पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः ॥ ३२ ॥

विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः
आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ॥ ३३ ॥

माघस्नानं दहेत्पापं पावकः समिधो यथा
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ॥ ३४ ॥

स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे
निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धताम् ॥ ३५ ॥

सन्देहो नात्र कर्तव्यो माघस्नाने नराधिप
सर्वेऽधिकारिणो माघे विष्णुभक्तौ यथा नृप ॥ ३६ ॥

सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः
एष एव परो मन्त्रो ह्येतदेव परं तपः ॥ ३७ ॥

प्रायश्चित्तं परं चैतन्माघस्नानमनुत्तमम्
नृणां जन्मान्तराभ्यासान्माघस्नाने मतिर्भवेत् ॥ ३८ ॥

अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप
संसारकर्दमालेप प्रक्षालन विशारदम् ॥ ३९ ॥

पावनं पावनानां च माघस्नानपरं नृप
स्नान्ति माघे न ये राजन्सर्वकामफलप्रदे ॥ ४० ॥

कथं ते भुञ्जते भोगांश्चन्द्रसूर्यग्रहोपमान्
शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम् ॥ ४१ ॥

कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजा
बालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम् ॥ ४२ ॥

विन्ध्यपादे महाक्षेत्रे रेवाकपिलसङ्गमे
तत्र सा व्रतिनी भूत्वा नारायणपरायणा ॥ ४३ ॥

सदाचारवती नित्यं नित्यं सङ्गविवर्जिता
जितेन्द्रिया जितक्रोधा सत्यवागल्पभाषिणी ॥ ४४ ॥

सुशीला दानशीला च देहशोषणशालिनी
पितृदेवद्विजेभ्यश्च दत्वा हुत्त्वा तथानले ॥ ४५ ॥

षष्ठे काले च सा भुङ्क्ते ह्युञ्च्छवृत्तिः सदा नृप
कृच्छ्रातिकृच्छ्र पाराक तप्तकृच्छ्रादिभिर्व्रतैः ॥ ४६ ॥

पुण्यान्नयति सा मासान्नर्मदायाश्च रोधसि
एवं तया तपस्विन्या वल्कलिन्या सुशीलया ॥ ४७ ॥

सुमहासत्त्वशालिन्या धृति सन्तोषयुक्तया
षष्टिर्माघास्तया स्नाता रेवाकपिलसङ्गमे ॥ ४८ ॥

ततः सा तपसा क्षीणा तस्मिंस्तीर्थे मृता नृप
माघस्नानजपुण्येन तेन सा वैष्णवे पुरे ॥ ४९ ॥

उवास प्रमुदा युक्ता चतुर्युगसहस्रकम्
सुन्दोपसुन्दनाशाय पश्चात्पद्मभवात्पुनः 6.126.॥ ५० ॥

तिलोत्तमेति नाम्ना सा ब्रह्मलोकेऽवतारिता
तेन पुण्यस्यशेषेण रूपस्यैकायनं ययौ ॥ ५१ ॥

अयोनिजाबलारत्नं देवानामपि मोहिनी
लावण्यहृदनी तन्वी साभूदप्सरसां वरा ॥ ५२ ॥

निपुणस्य विधेः स्रष्टुर्नूनमाश्चर्यकारिणी
तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ ॥ ५३ ॥

एणशावाक्षि गच्छ त्वं दैत्यनाशाय सत्वरम्
ततः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी ॥ ५४ ॥

गता पुष्करमार्गेण यत्र तौ देववैरिणौ
तत्र स्नात्वा तु रेवायाः पवित्रे निर्मले जले ॥ ५५ ॥

परिधायाम्बरं रक्तं बन्धूककुसुमप्रभम्
रणद्वलयिनीचारु सिञ्जन्मेखलनूपुरा ॥ ५६ ॥
मूलम्
परिधायाम्बरं रक्तं बन्धूककुसुमप्रभम्
रणद्वलयिनीचारु सिञ्जन्मेखलनूपुरा ॥ ५६ ॥
विश्वास-प्रस्तुतिः
लोलमुक्तावलीकण्ठी चलत्कुण्डलशोभना
माधवी कुसुमापीडा कङ्केली विटपे स्थिता ॥ ५७ ॥

गायन्ती सुस्वरं सापि पीडयन्ती तु वल्लकीम्
मूर्च्छयन्ती स्वरषट्कं सुस्निग्धं कोमलं कलम् ॥ ५८ ॥

इत्थं तिलोत्तमा बाला तिष्ठन्त्यशोककानने
दृष्ट्वा दैत्यभटैरिन्दोः कलेव सुखदा हृदि ५९पु
तां दृष्ट्वा विस्मितै राजन्सानन्दैः सैनिकैर्भृशम्
त्वरमाणैरदृष्ट्वैव गत्वा सुन्दोपसुन्दयोः ॥ ६० ॥

कथिता सम्भ्रमेणैव वर्णयित्वा पुनः पुनः
हे दैत्यौ न विजानीमो देवी वा दानवी नु किम् ॥ ६१ ॥

नागाङ्गनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सा
युवां रत्नभुजौ लोके रत्नभूता हि साबला ॥ ६२ ॥

वर्तते नाति दूरेऽग्रे अशोके शोकहारिणी
गत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम् ॥ ६३ ॥

इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम्
चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम् ॥ ६४ ॥

उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात्
शतभारायसीं क्रूरां कालदण्डोपमां गदाम् ॥ ६५ ॥

भिन्नाभिन्नां गृहीत्वा तु जवेनाभिप्लुतं गतौ
यत्र शृङ्गारसज्जा सा हन्तुं चण्डीव संस्थिता ॥ ६६ ॥

राजन्सन्धुक्षयन्तीव दैत्ययोर्मन्मथानलम्
स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेणविमोहितौ ॥ ६७ ॥

विशेषान्मधुनामत्तावूचतुस्तौपरस्परम्
भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी ॥ ६८ ॥

त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम्
इत्याग्रहेण संरब्धौ मातङ्गाविव सोन्मदौ ॥ ६९ ॥

अन्योन्यं कालनिर्दिष्टौ गदया जघ्नतुस्तदा
परस्परप्रहारेण गतासू पतितौ भुवि ॥ ७० ॥

तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान्
कालरात्रिसमा केयं हा किमेतदुपस्थितम् ॥ ७१ ॥

एवं वदत्सु सैन्येषु दैत्यौ सुन्दोपसुन्दकौ
पातयित्वा गिरेः शृङ्गे ह्रादिनीव त्तिलोत्तमा ॥ ७२ ॥

प्रस्थिता गगनं शीघ्रं द्योतयन्ती दिशो दश
देवकार्यं ततः कृत्वा आगता ब्रह्मणः पुरः ॥ ७३ ॥

ततस्तुष्टेन देवेन विधिना सानुमोदिता
स्थानं सूर्यरथे दत्तं तव चन्द्रानने मया ॥ ७४ ॥

भुङ्क्ष्व भोगाननेकांस्त्वं यावत्सूर्योम्बरे स्थितः
इत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा ॥ ७५ ॥

भुङ्क्तेद्यापि रवेर्लोके माघस्नानफलं महत्
तस्मात्प्रयत्नतो राजन्श्रद्दधानैः सदा नरैः ॥ ७६ ॥

स्नातव्यं मकरादित्ये वाञ्च्छद्भिः परमां गतिम्
नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन ॥ ७७ ॥

नाक्षीणं पातकं कञ्चिन्माघे मज्जति यो नरः
तुलयन्ति न तेनात्र यज्ञाः सर्वे सदक्षिणाः ॥ ७८ ॥

माघस्नानेन राजेन्द्र तीर्थे चैव विशेषतः
न चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम् ॥ ७९ ॥

न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि ॥ ८० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानप्रशंसायां सुन्दोपसुन्ददैत्यवधोनाम षड्विंशत्यधिकशततमोध्यायः १२६