१२५

ऋषय ऊचुः

विश्वास-प्रस्तुतिः

सूतसूत महाभाग त्वया लोकहितैषिणा
कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् ॥ १ ॥

मूलम्

सूतसूत महाभाग त्वया लोकहितैषिणा
कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् ॥ १ ॥

विश्वास-प्रस्तुतिः

अधुना माघमाहात्म्यं वद नो लोमहर्षणे
श्रुतेन येन लोकानां संशयः क्षीयते महान् ॥ २ ॥

मूलम्

अधुना माघमाहात्म्यं वद नो लोमहर्षणे
श्रुतेन येन लोकानां संशयः क्षीयते महान् ॥ २ ॥

विश्वास-प्रस्तुतिः

पुरा केन महाभाग लोकेऽस्मिन्सम्प्रकाशितम्
माघस्नानस्य माहात्म्यं सेतिहासं तदादिश ॥ ३ ॥

मूलम्

पुरा केन महाभाग लोकेऽस्मिन्सम्प्रकाशितम्
माघस्नानस्य माहात्म्यं सेतिहासं तदादिश ॥ ३ ॥

विश्वास-प्रस्तुतिः

सूत उवाच
साधुसाधु मुनिश्रेष्ठा यूयं कृष्णपरायणः
यत्पृच्छथ मुदायुक्ता भक्त्या कृष्णकथा मुहुः ॥ ४ ॥

मूलम्

सूत उवाच
साधुसाधु मुनिश्रेष्ठा यूयं कृष्णपरायणः
यत्पृच्छथ मुदायुक्ता भक्त्या कृष्णकथा मुहुः ॥ ४ ॥

विश्वास-प्रस्तुतिः

कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनम्
पापघ्नं शृण्वतां पुंसां स्नातानां चारुणोदये ॥ ५ ॥

मूलम्

कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनम्
पापघ्नं शृण्वतां पुंसां स्नातानां चारुणोदये ॥ ५ ॥

विश्वास-प्रस्तुतिः

एकदापार्वती विप्राः शङ्करं लोकशङ्करम्
पप्रच्छ विनयोपेता स्पृष्ट्वा तच्चरणाम्बुजम् ॥ ६ ॥

मूलम्

एकदापार्वती विप्राः शङ्करं लोकशङ्करम्
पप्रच्छ विनयोपेता स्पृष्ट्वा तच्चरणाम्बुजम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

पार्वत्युवाच
देवदेव महादेव भक्तानामभयप्रद
प्रसीद नाथ विश्वेश यत्पृच्छे तद्वदाधुना ॥ ७ ॥

मूलम्

पार्वत्युवाच
देवदेव महादेव भक्तानामभयप्रद
प्रसीद नाथ विश्वेश यत्पृच्छे तद्वदाधुना ॥ ७ ॥

विश्वास-प्रस्तुतिः

श्रुता नानाविधा धर्मास्त्वत्तः पूर्वं मया विभो
अधुना श्रोतुमिच्छामि माहात्म्यं माघजं वद ॥ ८ ॥

मूलम्

श्रुता नानाविधा धर्मास्त्वत्तः पूर्वं मया विभो
अधुना श्रोतुमिच्छामि माहात्म्यं माघजं वद ॥ ८ ॥

विश्वास-प्रस्तुतिः

तत्तु केन पुरा चीर्णं को विधिः का च देवता
तत्सर्वं विस्तराद्ब्रूहि यतस्त्वं भक्तवत्सलः ॥ ९ ॥

मूलम्

तत्तु केन पुरा चीर्णं को विधिः का च देवता
तत्सर्वं विस्तराद्ब्रूहि यतस्त्वं भक्तवत्सलः ॥ ९ ॥

विश्वास-प्रस्तुतिः

महेश उवाच
अध्वराऽवभृथस्नात ऋषिभिः कृतमङ्गलः
पूजितो नागरैः सर्वैः स्वपुरान्निर्गतो बहिः ॥ १० ॥

मूलम्

महेश उवाच
अध्वराऽवभृथस्नात ऋषिभिः कृतमङ्गलः
पूजितो नागरैः सर्वैः स्वपुरान्निर्गतो बहिः ॥ १० ॥

विश्वास-प्रस्तुतिः

दिलीपो भूभृतां श्रेष्ठो मृगयारसिको नृपः
कौतूहलसमाविष्ट आखेटव्यूहसंवृतः ॥ ११ ॥

मूलम्

दिलीपो भूभृतां श्रेष्ठो मृगयारसिको नृपः
कौतूहलसमाविष्ट आखेटव्यूहसंवृतः ॥ ११ ॥

विश्वास-प्रस्तुतिः

उपानद्रूढपादस्तु नीलोष्णीष उरच्छदी
बद्धगोधाङ्गुलित्राणो धनुष्पाणिः सरीसृपः ॥ १२ ॥

मूलम्

उपानद्रूढपादस्तु नीलोष्णीष उरच्छदी
बद्धगोधाङ्गुलित्राणो धनुष्पाणिः सरीसृपः ॥ १२ ॥

विश्वास-प्रस्तुतिः

बद्धक्षुद्रासिधानुष्कैस्तथाभूतैश्च पत्तिभिः
गान्धारेषु सुरम्येषु वनेषु विपुलेषु च ॥ १३ ॥

मूलम्

बद्धक्षुद्रासिधानुष्कैस्तथाभूतैश्च पत्तिभिः
गान्धारेषु सुरम्येषु वनेषु विपुलेषु च ॥ १३ ॥

विश्वास-प्रस्तुतिः

उल्लङ्घितमहास्रोता युवा पञ्चास्यविक्रमः
मुदा क्रीडति तैः सार्द्धं कुञ्जेषु मृगयन्मृगान् ॥ १४ ॥

मूलम्

उल्लङ्घितमहास्रोता युवा पञ्चास्यविक्रमः
मुदा क्रीडति तैः सार्द्धं कुञ्जेषु मृगयन्मृगान् ॥ १४ ॥

विश्वास-प्रस्तुतिः

हन्यतां हन्यतामेष मृगो वैष पलायते
इति जल्पन्स्वभृत्येषु स्वयमुत्पत्त्य हन्ति च ॥ १५ ॥

मूलम्

हन्यतां हन्यतामेष मृगो वैष पलायते
इति जल्पन्स्वभृत्येषु स्वयमुत्पत्त्य हन्ति च ॥ १५ ॥

विश्वास-प्रस्तुतिः

इतस्ततः पुनर्याति क्वचित्पश्यन्वनस्थलीम्
विटपोड्डीनसन्त्रस्त लीन केकिकुलाकुलाम् ॥ १६ ॥

मूलम्

इतस्ततः पुनर्याति क्वचित्पश्यन्वनस्थलीम्
विटपोड्डीनसन्त्रस्त लीन केकिकुलाकुलाम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

हरिणीगणवित्रस्तां धावच्छावकदिङ्मुखाम्
क्वचित्फेरवफेत्कारतारारावविभीषणाम् ॥ १७ ॥

मूलम्

हरिणीगणवित्रस्तां धावच्छावकदिङ्मुखाम्
क्वचित्फेरवफेत्कारतारारावविभीषणाम् ॥ १७ ॥

विश्वास-प्रस्तुतिः

खड्गयूथैः क्वचिल्लक्ष्मीं दधानामिव दन्तिनाम्
क्वचित्कोटरसन्दष्टोलूकनादविनादिनीम् ॥ १८ ॥

मूलम्

खड्गयूथैः क्वचिल्लक्ष्मीं दधानामिव दन्तिनाम्
क्वचित्कोटरसन्दष्टोलूकनादविनादिनीम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

मृगारिपदमुद्राभिर्मुद्रितां च क्वचित्क्वचित्
शार्दूलनखनिर्भिन्न रोहिद्रक्तारुणां क्वचित् ॥ १९ ॥

मूलम्

मृगारिपदमुद्राभिर्मुद्रितां च क्वचित्क्वचित्
शार्दूलनखनिर्भिन्न रोहिद्रक्तारुणां क्वचित् ॥ १९ ॥

विश्वास-प्रस्तुतिः

पीवरस्तनभारार्त सुस्निग्धमहिषीगणैः
अवरोधाजिरक्षोणीं सूचयन्ती मनः क्वचित् ॥ २० ॥

मूलम्

पीवरस्तनभारार्त सुस्निग्धमहिषीगणैः
अवरोधाजिरक्षोणीं सूचयन्ती मनः क्वचित् ॥ २० ॥

विश्वास-प्रस्तुतिः

क्वचिद्वृक्षघनच्छन्नां वन्यपुष्पसुगन्धिनीम्
क्वचिल्लतागृहद्वारां भृङ्गशब्दसुशोभनाम् ॥ २१ ॥

मूलम्

क्वचिद्वृक्षघनच्छन्नां वन्यपुष्पसुगन्धिनीम्
क्वचिल्लतागृहद्वारां भृङ्गशब्दसुशोभनाम् ॥ २१ ॥

विश्वास-प्रस्तुतिः

अर्धनिःसृतनिर्मोक नागभीमबृहद्विलाम्
बिलेषु लीनाजगरैर्भीमां निर्मोकसर्पिणीम् ॥ २२ ॥

मूलम्

अर्धनिःसृतनिर्मोक नागभीमबृहद्विलाम्
बिलेषु लीनाजगरैर्भीमां निर्मोकसर्पिणीम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

क्वचिद्दावानलज्वालां शिलाज्योतिः सुशोभनाम्
फूत्कारशब्दसम्पूर्णां मृगव्याघ्रसमाकुलाम् ॥ २३ ॥

मूलम्

क्वचिद्दावानलज्वालां शिलाज्योतिः सुशोभनाम्
फूत्कारशब्दसम्पूर्णां मृगव्याघ्रसमाकुलाम् ॥ २३ ॥

विश्वास-प्रस्तुतिः

प्रविमुञ्चञ्छुनां यूथं शशकेषु क्वचित्क्वचित्
पल्वलेषु च विश्रम्य पुनर्याति वनान्तरम् ॥ २४ ॥

मूलम्

प्रविमुञ्चञ्छुनां यूथं शशकेषु क्वचित्क्वचित्
पल्वलेषु च विश्रम्य पुनर्याति वनान्तरम् ॥ २४ ॥

विश्वास-प्रस्तुतिः

एवं व्रजति राजेन्द्रे व्याधवर्गे च वल्गति
कुर्वन्कोलाहलं तत्र सारङ्गो निर्गतो वनात् ॥ २५ ॥

मूलम्

एवं व्रजति राजेन्द्रे व्याधवर्गे च वल्गति
कुर्वन्कोलाहलं तत्र सारङ्गो निर्गतो वनात् ॥ २५ ॥

विश्वास-प्रस्तुतिः

स्फालवेगक्रमाक्रान्त दुर्गमार्गमहीतलः
कदाचिद्गगनारूढः कदाचिद्भूमिगोचरः ॥ २६ ॥

मूलम्

स्फालवेगक्रमाक्रान्त दुर्गमार्गमहीतलः
कदाचिद्गगनारूढः कदाचिद्भूमिगोचरः ॥ २६ ॥

विश्वास-प्रस्तुतिः

वक्रस्रोतोऽतिगम्भीरं कण्टकद्रुमसङ्कुलम्
प्रविष्टो विषमारण्यं राजाऽसौ तत्पदानुगः ॥ २७ ॥

मूलम्

वक्रस्रोतोऽतिगम्भीरं कण्टकद्रुमसङ्कुलम्
प्रविष्टो विषमारण्यं राजाऽसौ तत्पदानुगः ॥ २७ ॥

विश्वास-प्रस्तुतिः

दूराद्दूरतरं गत्वा देशाद्देशं च निर्जनम्
मृगादर्शनसंरम्भ संशुष्कगलकन्धरः ॥ २८ ॥

मूलम्

दूराद्दूरतरं गत्वा देशाद्देशं च निर्जनम्
मृगादर्शनसंरम्भ संशुष्कगलकन्धरः ॥ २८ ॥

विश्वास-प्रस्तुतिः

ताम्रतालुमुखः स्विन्नः श्रान्तपत्तिः स्खलद्ध्वनिः
अतीत्य दीर्घमार्गान्स तृषार्तो मध्यगे रवौ ॥ २९ ॥

मूलम्

ताम्रतालुमुखः स्विन्नः श्रान्तपत्तिः स्खलद्ध्वनिः
अतीत्य दीर्घमार्गान्स तृषार्तो मध्यगे रवौ ॥ २९ ॥

विश्वास-प्रस्तुतिः

ददर्शाग्रे तु कासारं स्पर्धयन्तमपाम्पतिम्
घनपादपतीरस्थं सुतीर्थं विमलं शुभम् ॥ ३० ॥

मूलम्

ददर्शाग्रे तु कासारं स्पर्धयन्तमपाम्पतिम्
घनपादपतीरस्थं सुतीर्थं विमलं शुभम् ॥ ३० ॥

विश्वास-प्रस्तुतिः

विशालं विकचाम्भोजं मधुमत्तमधुव्रतम्
पद्मिनीपत्रपालाशच्छन्नं मरकतैरिव ॥ ३१ ॥

मूलम्

विशालं विकचाम्भोजं मधुमत्तमधुव्रतम्
पद्मिनीपत्रपालाशच्छन्नं मरकतैरिव ॥ ३१ ॥

विश्वास-प्रस्तुतिः

स्वच्छन्दमुच्छलन्मत्स्यं स्वच्छं साधुमनो यथा
चलज्जलचरैर्मिश्रं वीचिराजिविराजितम् ॥ ३२ ॥

मूलम्

स्वच्छन्दमुच्छलन्मत्स्यं स्वच्छं साधुमनो यथा
चलज्जलचरैर्मिश्रं वीचिराजिविराजितम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः

अन्तर्ग्राहगणक्रूरं खलानामिव मानसम्
क्वचिच्छैवालदुर्गम्यं कृपणस्यैव मन्दिरम्
नानाविहङ्गसर्वार्तिं शमयन्तं दिवानिशम् ॥ ३३ ॥

मूलम्

अन्तर्ग्राहगणक्रूरं खलानामिव मानसम्
क्वचिच्छैवालदुर्गम्यं कृपणस्यैव मन्दिरम्
नानाविहङ्गसर्वार्तिं शमयन्तं दिवानिशम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

दातारमिव सर्वस्वैरापन्नार्तिप्रणाशनम्
तर्पयन्तं निजाम्भोभिः श्वापदान्स्वपितॄनिव ॥ ३४ ॥

मूलम्

दातारमिव सर्वस्वैरापन्नार्तिप्रणाशनम्
तर्पयन्तं निजाम्भोभिः श्वापदान्स्वपितॄनिव ॥ ३४ ॥

विश्वास-प्रस्तुतिः

हरन्तं सर्वसन्तापं हिमांशुरिव चाह्निकम्
तं दृष्ट्वाभूद्गतग्लानिश्चातको जलदं यथा ॥ ३५ ॥

मूलम्

हरन्तं सर्वसन्तापं हिमांशुरिव चाह्निकम्
तं दृष्ट्वाभूद्गतग्लानिश्चातको जलदं यथा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

तत्र पीतजलो राजा कृतमाध्याह्निकक्रियः
भुक्त्वा खेटकमांसानि सहायैः सहितो नृपः ॥ ३६ ॥

मूलम्

तत्र पीतजलो राजा कृतमाध्याह्निकक्रियः
भुक्त्वा खेटकमांसानि सहायैः सहितो नृपः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

उवास सरसस्तीरे सुरम्यां कथयन्कथाम्
ततः शरासने बाणं कृत्वा रात्रौ स्थितस्तरौ ॥ ३७ ॥

मूलम्

उवास सरसस्तीरे सुरम्यां कथयन्कथाम्
ततः शरासने बाणं कृत्वा रात्रौ स्थितस्तरौ ॥ ३७ ॥

विश्वास-प्रस्तुतिः

व्याधाः सन्धानमास्थाय रुरुधुः ककुभां पथः
एवं स्थितेषु वीरेषु वने विस्तार्य वागुराम् ॥ ३८ ॥

मूलम्

व्याधाः सन्धानमास्थाय रुरुधुः ककुभां पथः
एवं स्थितेषु वीरेषु वने विस्तार्य वागुराम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

निशार्धे निर्गतं यूथं सूकराणां तटे तटे
चरित्वा सरसीकन्दान्पपात व्याधसङ्कुले ॥ ३९ ॥

मूलम्

निशार्धे निर्गतं यूथं सूकराणां तटे तटे
चरित्वा सरसीकन्दान्पपात व्याधसङ्कुले ॥ ३९ ॥

विश्वास-प्रस्तुतिः

राज्ञा विद्धाश्च ते क्रोडा व्याधैश्च बहवो हताः
क्षणेनैव वराहास्ते विद्धाः पेतुर्महीतले ॥ ४० ॥

मूलम्

राज्ञा विद्धाश्च ते क्रोडा व्याधैश्च बहवो हताः
क्षणेनैव वराहास्ते विद्धाः पेतुर्महीतले ॥ ४० ॥

विश्वास-प्रस्तुतिः

तान्दृष्ट्वा तुमुलं नादं व्याधाश्चक्रुः सुदर्पिताः
धावन्तः प्रमुदायुक्ता मिलिता यत्र भूपतिः ॥ ४१ ॥

मूलम्

तान्दृष्ट्वा तुमुलं नादं व्याधाश्चक्रुः सुदर्पिताः
धावन्तः प्रमुदायुक्ता मिलिता यत्र भूपतिः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तानादाय भटैर्भूयो निःसृतः सरसीतटात्
स्वपुरं गन्तुकामोऽसौ दृष्टवान्पथि तापसम् ॥ ४२ ॥

मूलम्

तानादाय भटैर्भूयो निःसृतः सरसीतटात्
स्वपुरं गन्तुकामोऽसौ दृष्टवान्पथि तापसम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणं वृद्धहारीतं शङ्खचक्रसुशोभितम्
नियमैर्दुष्करैरुग्रैः परिक्षीणकलेवरम् ॥ ४३ ॥

मूलम्

ब्राह्मणं वृद्धहारीतं शङ्खचक्रसुशोभितम्
नियमैर्दुष्करैरुग्रैः परिक्षीणकलेवरम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

अस्थिशेषं महद्दान्तं विस्फुरत्कर्कशत्वचम्
दधानं हारिणं चर्म वसानं मृदुवल्कलम् ॥ ४४ ॥

मूलम्

अस्थिशेषं महद्दान्तं विस्फुरत्कर्कशत्वचम्
दधानं हारिणं चर्म वसानं मृदुवल्कलम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

कुर्वाणं नैगमं जाप्यं नखलोमजटाधरम्
तं वनाश्रमिणं दृष्ट्वा मार्गं दत्त्वा ससम्भ्रमः ॥ ४५ ॥

मूलम्

कुर्वाणं नैगमं जाप्यं नखलोमजटाधरम्
तं वनाश्रमिणं दृष्ट्वा मार्गं दत्त्वा ससम्भ्रमः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

प्रणम्य शिरसा राजा कृतपद्माञ्जलिस्थितः
अथ चैनमलङ्कारैर्द्विजो निश्चित्य भूमिपम् ॥ ४६ ॥

मूलम्

प्रणम्य शिरसा राजा कृतपद्माञ्जलिस्थितः
अथ चैनमलङ्कारैर्द्विजो निश्चित्य भूमिपम् ॥ ४६ ॥

विश्वास-प्रस्तुतिः

उवाच श्रेयसे हेतोः परोपकृतिवाञ्च्छया
किमर्थं गम्यते राजन्काले पुण्यतमे शुभे ॥ ४७ ॥

मूलम्

उवाच श्रेयसे हेतोः परोपकृतिवाञ्च्छया
किमर्थं गम्यते राजन्काले पुण्यतमे शुभे ॥ ४७ ॥

विश्वास-प्रस्तुतिः

माघमासे विहायैव प्रातःस्नानं सरोवरे
प्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम ॥ ४८ ॥

मूलम्

माघमासे विहायैव प्रातःस्नानं सरोवरे
प्रत्युवाच ततो राजा नाहं जाने द्विजोत्तम ॥ ४८ ॥

विश्वास-प्रस्तुतिः

माघस्नानफलं कीदृक्तन्मे कथय विस्तरात्
इति भूपवचः श्रुत्वा प्राह वैखानसो मुनिः ॥ ४९ ॥

मूलम्

माघस्नानफलं कीदृक्तन्मे कथय विस्तरात्
इति भूपवचः श्रुत्वा प्राह वैखानसो मुनिः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

भगवान्द्युमणिः शीघ्रमभ्युदेति तमोपहा
स्नानकालोऽयमस्माकं न कथाऽवसरो नृप 6.125.॥ ५० ॥

मूलम्

भगवान्द्युमणिः शीघ्रमभ्युदेति तमोपहा
स्नानकालोऽयमस्माकं न कथाऽवसरो नृप 6.125.॥ ५० ॥

विश्वास-प्रस्तुतिः

स्नात्वा गच्छ वसिष्ठं तं पृच्छस्व स्वकुलप्रभुम्
इत्युक्त्वा तापसो मौनी प्रातःस्नानाय निर्गतः ॥ ५१ ॥

मूलम्

स्नात्वा गच्छ वसिष्ठं तं पृच्छस्व स्वकुलप्रभुम्
इत्युक्त्वा तापसो मौनी प्रातःस्नानाय निर्गतः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि
पुनः स्वनगरीं वीरो गतोऽसौ हर्षपूरितः ॥ ५२ ॥

मूलम्

प्रत्यावृत्य दिलीपोऽपि तत्र स्नात्वा यथाविधि
पुनः स्वनगरीं वीरो गतोऽसौ हर्षपूरितः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

अन्तःपुरे निवेद्याथ वानप्रस्थकथां पुनः
श्वेताश्वरथमारुह्य सुश्वेतच्छत्रचामरः ॥ ५३ ॥

मूलम्

अन्तःपुरे निवेद्याथ वानप्रस्थकथां पुनः
श्वेताश्वरथमारुह्य सुश्वेतच्छत्रचामरः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

सालङ्कारः सुवासाश्च संवृत्तो मन्त्रिभिः सह
जयशब्दान्पुनः शृण्वन्स्तुतो मागधबन्दिभिः ॥ ५४ ॥

मूलम्

सालङ्कारः सुवासाश्च संवृत्तो मन्त्रिभिः सह
जयशब्दान्पुनः शृण्वन्स्तुतो मागधबन्दिभिः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

वसिष्ठस्याश्रमं यात ऋषिवाक्यमनुस्मरन्
तत्रैव नत्वा ब्रह्मर्षिं विनयाचारपूर्वकम् ॥ ५५ ॥

मूलम्

वसिष्ठस्याश्रमं यात ऋषिवाक्यमनुस्मरन्
तत्रैव नत्वा ब्रह्मर्षिं विनयाचारपूर्वकम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः

दत्तासनो गृहीतार्घ्य आशीर्भिः समलङ्कृतः
सानन्दं मुनिना पृष्टः कुशलं भूपतिर्यदा ॥ ५६ ॥

मूलम्

दत्तासनो गृहीतार्घ्य आशीर्भिः समलङ्कृतः
सानन्दं मुनिना पृष्टः कुशलं भूपतिर्यदा ॥ ५६ ॥

विश्वास-प्रस्तुतिः

तदाब्रवीद्वचो राजा हर्षयन्मुनिमानसम्
सोऽपि वैखानसेनोक्तं पप्रच्छ मधुराकृतिः ॥ ५७ ॥

मूलम्

तदाब्रवीद्वचो राजा हर्षयन्मुनिमानसम्
सोऽपि वैखानसेनोक्तं पप्रच्छ मधुराकृतिः ॥ ५७ ॥

विश्वास-प्रस्तुतिः

दिलीप उवाच
भगवंस्त्वत्प्रसादेन श्रुता विस्तरतो मया
आचारो दण्डनीतिश्च राजधर्माश्च ये परे ॥ ५८ ॥

मूलम्

दिलीप उवाच
भगवंस्त्वत्प्रसादेन श्रुता विस्तरतो मया
आचारो दण्डनीतिश्च राजधर्माश्च ये परे ॥ ५८ ॥

विश्वास-प्रस्तुतिः

चतुर्णामपि वर्णानामाश्रमाणां च याः क्रियाः
दानानि तद्विधानानि यज्ञाश्च विधयस्तथा ॥ ५९ ॥

मूलम्

चतुर्णामपि वर्णानामाश्रमाणां च याः क्रियाः
दानानि तद्विधानानि यज्ञाश्च विधयस्तथा ॥ ५९ ॥

विश्वास-प्रस्तुतिः

व्रतानि तत्प्रदिष्टानि विष्णोराराधनं तथा
अधुना श्रोतुमिच्छामि माघस्नाने च यत्फलम्
विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद ॥ ६० ॥

मूलम्

व्रतानि तत्प्रदिष्टानि विष्णोराराधनं तथा
अधुना श्रोतुमिच्छामि माघस्नाने च यत्फलम्
विधेयं यद्विधानेन तन्मे ब्रह्मन्मुने वद ॥ ६० ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच
सम्यगुक्तं परं श्रेयो लोकत्रयहितावहम्
निर्मलीकरणं तेन मुनिना वनवासिना ॥ ६१ ॥

मूलम्

वसिष्ठ उवाच
सम्यगुक्तं परं श्रेयो लोकत्रयहितावहम्
निर्मलीकरणं तेन मुनिना वनवासिना ॥ ६१ ॥

विश्वास-प्रस्तुतिः

कटाक्षैः कामिनीनां ते प्रत्यासन्नमखण्डिताः
कामयन्ते मृगार्के ते स्रोतसि स्नातुमेव च ॥ ६२ ॥

मूलम्

कटाक्षैः कामिनीनां ते प्रत्यासन्नमखण्डिताः
कामयन्ते मृगार्के ते स्रोतसि स्नातुमेव च ॥ ६२ ॥

विश्वास-प्रस्तुतिः

विना वह्निं विना यज्ञमिष्टापूर्तं विना प्रिये
वाञ्च्छन्ति सद्गतिं स्नातुं प्रातर्माघे बहिर्जले ॥ ६३ ॥

मूलम्

विना वह्निं विना यज्ञमिष्टापूर्तं विना प्रिये
वाञ्च्छन्ति सद्गतिं स्नातुं प्रातर्माघे बहिर्जले ॥ ६३ ॥

विश्वास-प्रस्तुतिः

गोभूहिरण्यमाणिक्य स्वर्ण धेन्वादिकानि ये
अदत्त्वेच्छन्ति चैकार्णे माघं स्नाता नराधिप ॥ ६४ ॥

मूलम्

गोभूहिरण्यमाणिक्य स्वर्ण धेन्वादिकानि ये
अदत्त्वेच्छन्ति चैकार्णे माघं स्नाता नराधिप ॥ ६४ ॥

विश्वास-प्रस्तुतिः

त्रिःसप्ताहव्रतैः कृच्छ्रैः पराकैश्च निजां तनुम्
अशोष्येच्छन्ति ये स्वर्गं तपसि स्नान्तु ते सदा ॥ ६५ ॥

मूलम्

त्रिःसप्ताहव्रतैः कृच्छ्रैः पराकैश्च निजां तनुम्
अशोष्येच्छन्ति ये स्वर्गं तपसि स्नान्तु ते सदा ॥ ६५ ॥

विश्वास-प्रस्तुतिः

हरेः पूजा च वैशाखे तपः पूजा च कार्तिके
तपोहोमस्तथा दानं त्रयं माघे विशिष्यते ॥ ६६ ॥

मूलम्

हरेः पूजा च वैशाखे तपः पूजा च कार्तिके
तपोहोमस्तथा दानं त्रयं माघे विशिष्यते ॥ ६६ ॥

विश्वास-प्रस्तुतिः

सानुबन्धोऽतिपर्यासो धराधीशो भवेद्ध्रुवम्
कैवल्योत्पादका बुद्धि यया वा न भवेत्पुनः ॥ ६७ ॥

मूलम्

सानुबन्धोऽतिपर्यासो धराधीशो भवेद्ध्रुवम्
कैवल्योत्पादका बुद्धि यया वा न भवेत्पुनः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

पदध्र्या वरिवस्या सा विहिता दिव्यलोचनैः
तदनन्नं तपो दानं माघेमासि नृपोत्तम ॥ ६८ ॥

मूलम्

पदध्र्या वरिवस्या सा विहिता दिव्यलोचनैः
तदनन्नं तपो दानं माघेमासि नृपोत्तम ॥ ६८ ॥

विश्वास-प्रस्तुतिः

सकामो वा प्रजा ये वा हरये तद्विनापि वा
कायशुद्धिव्रती भूत्वा चतुर्द्धास्नानजं फलम् ॥ ६९ ॥

मूलम्

सकामो वा प्रजा ये वा हरये तद्विनापि वा
कायशुद्धिव्रती भूत्वा चतुर्द्धास्नानजं फलम् ॥ ६९ ॥

विश्वास-प्रस्तुतिः

निरन्ना अदितिः सस्नौ माघे द्वादशवत्सरे
पुत्रांश्च द्वादशादित्यान्लभे त्रैलोक्यदीपकान् ॥ ७० ॥

मूलम्

निरन्ना अदितिः सस्नौ माघे द्वादशवत्सरे
पुत्रांश्च द्वादशादित्यान्लभे त्रैलोक्यदीपकान् ॥ ७० ॥

विश्वास-प्रस्तुतिः

सुभगा रोहिणी माघा दानशीलात्वरुन्धती
शची च रूपसम्पन्ना प्रासादे सप्तभूमिके ॥ ७१ ॥

मूलम्

सुभगा रोहिणी माघा दानशीलात्वरुन्धती
शची च रूपसम्पन्ना प्रासादे सप्तभूमिके ॥ ७१ ॥

विश्वास-प्रस्तुतिः

विमलीकृतशोभाढ्यो नर्तकी ललिताजिरे
द्वीपवर्णसमुच्छिन्ने रूपवत्स्त्रीजनाकुले ॥ ७२ ॥

मूलम्

विमलीकृतशोभाढ्यो नर्तकी ललिताजिरे
द्वीपवर्णसमुच्छिन्ने रूपवत्स्त्रीजनाकुले ॥ ७२ ॥

विश्वास-प्रस्तुतिः

गीतवादित्रनिर्घोषे मङ्गलाचारशोभिते
वेदध्वनिपवित्रे च विद्वद्विप्रैरलङ्कृते ॥ ७३ ॥

मूलम्

गीतवादित्रनिर्घोषे मङ्गलाचारशोभिते
वेदध्वनिपवित्रे च विद्वद्विप्रैरलङ्कृते ॥ ७३ ॥

विश्वास-प्रस्तुतिः

सुरार्चनरते रम्ये सदातिथिनिषेविते
मुदितांस्ते वसन्तीह यैः स्नानं मकरे रवौ ॥ ७४ ॥

मूलम्

सुरार्चनरते रम्ये सदातिथिनिषेविते
मुदितांस्ते वसन्तीह यैः स्नानं मकरे रवौ ॥ ७४ ॥

विश्वास-प्रस्तुतिः

यैर्दत्तं बहु माघे च मुरारिश्चार्चितः स्तुतः
इष्टवस्तुपरित्यागान्नियमस्य तु पालनात् ॥ ७५ ॥

मूलम्

यैर्दत्तं बहु माघे च मुरारिश्चार्चितः स्तुतः
इष्टवस्तुपरित्यागान्नियमस्य तु पालनात् ॥ ७५ ॥

विश्वास-प्रस्तुतिः

धर्मसूतिः सदा माघः पापमूलं निकृन्तति
काममूलः फलद्वारा निष्कामो ज्ञानदः सदा ॥ ७६ ॥

मूलम्

धर्मसूतिः सदा माघः पापमूलं निकृन्तति
काममूलः फलद्वारा निष्कामो ज्ञानदः सदा ॥ ७६ ॥

विश्वास-प्रस्तुतिः

ये लोका ज्ञानशीलानां ये लोका विपिनौकसाम्
ये लोका विष्णुभक्तानां ते माघस्नायिनां सदा ॥ ७७ ॥

मूलम्

ये लोका ज्ञानशीलानां ये लोका विपिनौकसाम्
ये लोका विष्णुभक्तानां ते माघस्नायिनां सदा ॥ ७७ ॥

विश्वास-प्रस्तुतिः

देवलोकान्निवर्तन्ते पुण्यैरन्यैः परन्तप
कदाचिन्न निवर्तन्ते माघस्नानरता नराः ॥ ७८ ॥

मूलम्

देवलोकान्निवर्तन्ते पुण्यैरन्यैः परन्तप
कदाचिन्न निवर्तन्ते माघस्नानरता नराः ॥ ७८ ॥

विश्वास-प्रस्तुतिः

माघे स्नात्वा तु यो धेनुं दद्यान्मर्त्यः पयस्विनीम्
तस्या यावन्ति रोमाणि सर्वाङ्गे च नृपोत्तम ॥ ७९ ॥

मूलम्

माघे स्नात्वा तु यो धेनुं दद्यान्मर्त्यः पयस्विनीम्
तस्या यावन्ति रोमाणि सर्वाङ्गे च नृपोत्तम ॥ ७९ ॥

विश्वास-प्रस्तुतिः

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
माघस्नानं प्रकुर्वाणो यो दद्यात्सगुडांस्तिलान् ॥ ८० ॥

मूलम्

तावद्वर्षसहस्राणि स्वर्गलोके महीयते
माघस्नानं प्रकुर्वाणो यो दद्यात्सगुडांस्तिलान् ॥ ८० ॥

विश्वास-प्रस्तुतिः

पातकं तस्य प्रक्षाल्य निर्मलो भाति वै नरः
सर्वेषां धान्यराशीनां तिलाः पापप्रणाशनाः ॥ ८१ ॥

मूलम्

पातकं तस्य प्रक्षाल्य निर्मलो भाति वै नरः
सर्वेषां धान्यराशीनां तिलाः पापप्रणाशनाः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

तस्मान्माघे प्रयत्नेन तिला देया नृपोत्तम
माघस्नानं प्रकुर्वाणो दद्याद्ब्राह्मणभोजनम् ॥ ८२ ॥

मूलम्

तस्मान्माघे प्रयत्नेन तिला देया नृपोत्तम
माघस्नानं प्रकुर्वाणो दद्याद्ब्राह्मणभोजनम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

पितॄन्सन्तर्प्य शुद्धात्मा याति विष्णोः परम्पदम्
तस्मात्सर्वप्रयत्नेन माघो दानेन नीयते ॥ ८३ ॥

मूलम्

पितॄन्सन्तर्प्य शुद्धात्मा याति विष्णोः परम्पदम्
तस्मात्सर्वप्रयत्नेन माघो दानेन नीयते ॥ ८३ ॥

विश्वास-प्रस्तुतिः

अदानं न क्षिपेन्माघं सर्वदा नृपसत्तम
वित्तानुसारं ज्ञात्वा वै माघे दानं सदा ददेत् ॥ ८४ ॥

मूलम्

अदानं न क्षिपेन्माघं सर्वदा नृपसत्तम
वित्तानुसारं ज्ञात्वा वै माघे दानं सदा ददेत् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

माघस्नानं तु यः कुर्यादुपानहकमण्डलून्
ददाति ब्राह्मणेभ्यश्च स स्वर्गे तिष्ठति ध्रुवम् ॥ ८५ ॥

मूलम्

माघस्नानं तु यः कुर्यादुपानहकमण्डलून्
ददाति ब्राह्मणेभ्यश्च स स्वर्गे तिष्ठति ध्रुवम् ॥ ८५ ॥

विश्वास-प्रस्तुतिः

माघस्नानमयं राजन्कुर्वाणस्तप उत्तमम्
दानं विना क्षिपेन्नैव दानात्स्वर्गमवाप्यते ॥ ८६ ॥

मूलम्

माघस्नानमयं राजन्कुर्वाणस्तप उत्तमम्
दानं विना क्षिपेन्नैव दानात्स्वर्गमवाप्यते ॥ ८६ ॥

विश्वास-प्रस्तुतिः

दानेन प्राप्यते स्वर्गो दानेन प्राप्यते सुखम्
दानेन हीयते पापं महापातकजं नृप ॥ ८७ ॥

मूलम्

दानेन प्राप्यते स्वर्गो दानेन प्राप्यते सुखम्
दानेन हीयते पापं महापातकजं नृप ॥ ८७ ॥

विश्वास-प्रस्तुतिः

अदानं न तपो भाति ह्यसूर्यं गगनं यथा
असन्ततिकुलं यद्वादाचारेण विना गृहम् ॥ ८८ ॥

मूलम्

अदानं न तपो भाति ह्यसूर्यं गगनं यथा
असन्ततिकुलं यद्वादाचारेण विना गृहम् ॥ ८८ ॥

विश्वास-प्रस्तुतिः

नातः परतरं किञ्चित्पवित्रं पापनाशनम्
विद्याधराय सङ्गीतं भृगुणा मणिपर्वते ॥ ८९ ॥

मूलम्

नातः परतरं किञ्चित्पवित्रं पापनाशनम्
विद्याधराय सङ्गीतं भृगुणा मणिपर्वते ॥ ८९ ॥

विश्वास-प्रस्तुतिः

राजोवाच
ब्रह्मन्कदा भृगुर्विप्रो निजगाद महीधरे
तस्मै धर्मोपदेशं च कथ्यतां मे कुतूहलात् ॥ ९० ॥

मूलम्

राजोवाच
ब्रह्मन्कदा भृगुर्विप्रो निजगाद महीधरे
तस्मै धर्मोपदेशं च कथ्यतां मे कुतूहलात् ॥ ९० ॥

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच
द्वादशाब्दं पुरा राजन्न ववर्ष बलाहकः
तेनोद्विग्नाः प्रजाः क्षीणा गताः सर्वा दिशो दश ॥ ९१ ॥

मूलम्

वसिष्ठ उवाच
द्वादशाब्दं पुरा राजन्न ववर्ष बलाहकः
तेनोद्विग्नाः प्रजाः क्षीणा गताः सर्वा दिशो दश ॥ ९१ ॥

विश्वास-प्रस्तुतिः

खिलीभूते तदा मध्ये हिमवद्विन्ध्ययोर्नृप
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिते ॥ ९२ ॥

मूलम्

खिलीभूते तदा मध्ये हिमवद्विन्ध्ययोर्नृप
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिते ॥ ९२ ॥

विश्वास-प्रस्तुतिः

सोपप्लवे तदा लोके लुप्तधर्मे च निष्प्रभे
फलमूलान्नपानीय शून्ये वै भूमिमण्डले ॥ ९३ ॥

मूलम्

सोपप्लवे तदा लोके लुप्तधर्मे च निष्प्रभे
फलमूलान्नपानीय शून्ये वै भूमिमण्डले ॥ ९३ ॥

विश्वास-प्रस्तुतिः

विन्ध्यपादतरुच्छन्न रम्यरेवातटाश्रमात्
सहशिष्यैश्च निर्गम्य हिमाद्रिं स गतो भृगुः ॥ ९४ ॥

मूलम्

विन्ध्यपादतरुच्छन्न रम्यरेवातटाश्रमात्
सहशिष्यैश्च निर्गम्य हिमाद्रिं स गतो भृगुः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

तत्र तिष्ठति कैलासगिरेः पश्चिमतो गिरिः
मणिकूट इति ख्यातो हेमरत्नशिलोच्चयः ॥ ९५ ॥

मूलम्

तत्र तिष्ठति कैलासगिरेः पश्चिमतो गिरिः
मणिकूट इति ख्यातो हेमरत्नशिलोच्चयः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

अधोऽधस्फटिकश्वेतो मध्ये नीलशिलो गिरिः
भूतिभिः सर्वतः शुक्लो नीलकण्ठ इवाबभौ ॥ ९६ ॥

मूलम्

अधोऽधस्फटिकश्वेतो मध्ये नीलशिलो गिरिः
भूतिभिः सर्वतः शुक्लो नीलकण्ठ इवाबभौ ॥ ९६ ॥

विश्वास-प्रस्तुतिः

सर्वत्रासौ नीलशिलो हेमरेखान्तरान्तरः
स्फुरद्विद्युल्लतः कृष्णो जीमूतइव राजते ॥ ९७ ॥

मूलम्

सर्वत्रासौ नीलशिलो हेमरेखान्तरान्तरः
स्फुरद्विद्युल्लतः कृष्णो जीमूतइव राजते ॥ ९७ ॥

विश्वास-प्रस्तुतिः

मूर्ध्नि नीलशिलः शैल अधः काञ्चनमेखलः
नारायण इवाभाति परिवीत इवाम्बरः ॥ ९८ ॥

मूलम्

मूर्ध्नि नीलशिलः शैल अधः काञ्चनमेखलः
नारायण इवाभाति परिवीत इवाम्बरः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

अमेखला सुनीलाभो मध्ये मध्ये सितोपलः
सतारकमिव व्योम शुशुभे स महीधरः ॥ ९९ ॥

मूलम्

अमेखला सुनीलाभो मध्ये मध्ये सितोपलः
सतारकमिव व्योम शुशुभे स महीधरः ॥ ९९ ॥

लब्ध्वात्मनस्तनुं शुभ्रां दीप्तदिव्यौषधीधरः
बहुद्योतकरो भाति द्वितीय इव चन्द्रमाः 6.125.१००
अधित्यकासु सङ्गीतैः किन्नरीणां सकीचकैः
रम्भापत्रपताकाभिः शोभते स सदाऽचलः १०१
हरितोपलवैदूर्य पद्मरागशिताश्मनाम्
रुग्रश्मिमण्डलैः सोऽग इन्द्रचापैरिवावृतः १०२
सर्वधातुमयैर्हेमैर्नानारत्नैः प्रशोभितः
सोऽग्निज्वालैरिवात्युच्चैः शृङ्गैः सर्वत्र वेष्टितः १०३
तस्यागत्य नितम्बेषु सतृणा सुशिलासु च
विद्याधर्यः प्रदेवन्ते स्वपतीन्कामविक्लवाः १०४
निरुद्धान्तर्मरुन्मार्गा जितक्लेशा विरागिणः
ध्यायन्त्यहर्निशं ब्रह्म रम्यसानुगुहासु च १०५
साक्षसूत्रकराः सिद्धा अर्धोन्मीलितलोचनाः
आराधयन्ति भूतेशं सुन्दरीषु दरीषु च १०६
मन्दारकुसुमामोद सुरभीकृतदिङ्मुखः
एष निर्झरिणी वारि झङ्कारमुखरः सदा १०७
उपत्यकासु खेलद्भिर्वनस्थैः कलभैर्गजैः
कस्तूरीमृगयूथैश्च चारुचित्रमृगैस्तथा १०८
विलसच्चामरीवृन्दैर्विचित्रैः श्वापदैस्तथा
नदत्पारावतैश्चैव चकोरैश्चापि कोकिलैः १०९
राजहंसमयूरैश्च सदा रम्यः स पर्वतः
सेव्यमानः सदा देवैर्गुह्यकैरप्सरोगणैः ११०
राजोवाच-
बह्वाश्चर्यमयः शैलः सर्वसिद्धिसमाश्रयः
भगवन्कियदुच्छ्रायः कियदायामविस्तरः १११
ऋषिरुवाच
षट्त्रिंशद्योजनोच्छ्रायो मस्तके दशयोजनः
आयामविस्तराभ्यां स मूले षोडशयोजनः ११२
हरिचन्दनमन्दारचूतराजिविराजितः
देवदारुद्रुमाकीर्णः सरलार्जुनशोभितः ११३
कालागरुलवङ्गैश्च निकुञ्जैश्च लतागृहैः
विराजते गिरिश्रेष्ठः सदा पुष्पफलप्रदः ११४
तं दृष्ट्वा पर्वतं रम्यं तदा दुर्भिक्षपीडितः
भृगुश्चकार तत्रैव वसतिं हृष्टमानसः ११५
तस्मिन्मनोहरे शैले कन्दरेषु वनेषु च
चिरकालं तपस्तेपे तपःसु निरतो भृगुः
एवं तिष्ठति राजेन्द्र द्विजे स्वाश्रमवासिनि ११६
अवतीर्यागतौ शैलाद्द्वौ विद्याधरदम्पती
समागम्य मुनिं नत्वा स्थितौ तावतिदुःखितौ ११७
तथाविधौ च तौ दृष्ट्वा मञ्जुवाक्यं द्विजोऽब्रवीत्
वद विद्याधर प्रीत्या युवां किमतिदुःखितौ ११८
श्रुत्वा तस्य मुनेर्वाक्यं प्राह विद्याधरो द्विजम्
श्रूयतां तापसश्रेष्ठ मम दुःखस्य कारणम् ११९
सुकृतस्य फलं प्राप्य प्राप्तोऽस्मि त्रिदशालयम्
लब्ध्वाऽपि देवतादेहं मुखं व्याघ्रस्य मेऽभवत् १२०
न जाने कर्मणः कस्य विपाकोऽयमुपस्थितः
इति संस्मृत्य संस्मृत्य न लेभे शर्म मे मनः १२१
अन्यच्च श्रूयतां विप्र येन मे ह्याकुलं मनः
जायेयं मम कल्याणी मधुवाणी सुरूपिणी १२२
नृत्यगीतकलाभिज्ञा सर्वसद्गुणशालिनी
यस्मिन्काले कुमारीयं तदा चाऽमलयानया १२३
विपञ्चीं परिवादिन्या तन्त्रीभिः सप्तभिर्भृशम्
वीणावादरसाभिज्ञस्तोषितो नारदो मुनिः १२४
मुग्धभावेपि गायन्त्या त्वनया रक्तकण्ठया
विचित्रस्वरनादज्ञो देवराजोऽपि तोषितः १२५
अस्याः कौतुकभिन्नाङ्ग्या वादयन्त्या विपञ्चिकाम्
नानावक्रगतिस्निग्धं श्रुत्वा तं पञ्चमध्वनिम् १२६
तुतोषोद्भिन्नरोमाञ्चो धुन्वन्मौलि महेश्वरः
शीलौदार्यगुणग्रामरूपयौवनसम्पदा १२७
नानया सदृशी नाके काचिदस्ति नितम्बिनी
क्वेयं देवमुखी रामा क्वाहं व्याघ्रमुखः पुमान् १२८
इति ब्रह्मन्सदाचिन्त्य दह्यामि हृदि सर्वदा
इति विद्याधरप्रोक्तं श्रुत्वा चेक्ष्वाकुनन्दनः १२९
त्रिकालज्ञो भृगुः प्राह प्रहसन्दिव्यलोचनः
शृणु विद्याधरश्रेष्ठ विचित्रं कर्मणां फलम् १३०
प्राप्य प्राज्ञा न मुह्यन्ति मुह्यन्त्यज्ञानचेतसः
मक्षिकापदमात्रं तु यथा हि विषमं विषम् १३१
क्रियात्वविहिताल्पापि विपाके दारुणा तथा
उपोष्यैकादशीं माघे तैलाभ्यङ्गः कृतस्त्वया १३२
द्वादश्यां प्राग्भवे देहे तेन व्याघ्रमुखोभवान्
उपोष्यैकादशीं पुण्यां द्वादश्यां तैलसेवनात् १३३
कुरूपं प्राप्तवान्देहं पुराह्येवं पुरूरवाः
दृष्ट्वात्मनः कुकायं स तेन दुःखेन दुःखितः १३४
गिरिराजं समागम्य देवतासरसस्तटे
स्थित्वा च परमप्रीत्या शुचिः स्नातः कुशासने १३५
नवनीलघनश्यामं नलिनायतलोचनम्
शङ्खचक्रगदापद्मधरं पीताम्बरावृतम् १३६
कौस्तुभेन विराजन्तं वनमालाधरं हरिम्
चिन्तयन्हृदये राजा निग्रहीताखिलेन्द्रियः १३७
मासत्रयं निराहारस्तपस्तेपे सुदारुणम्
अल्पेन तपसा तुष्टः सप्तजन्मकृतार्चनः १३८
संस्मरंस्तस्य भूपस्य तदा प्रादुरभूत्स्वयम्
माघस्य शुक्लपक्षे तु द्वादश्यां मकरे रवौ १३९
शङ्खाद्भिरभिषिच्याशु मुदा तं चक्रवर्तिनम्
वासुदेवो ददौ तस्मै स्मारयंस्तैलचेष्टितम् १४०
अतीव सुन्दरं रूपं कमनीयं मनोहरम्
येन तं चकमे देवी उर्वशी देवनायिका १४१
इत्थं लब्धवरो राजा कृतकृत्यः पुरं गतः
इति कर्मगतिं ज्ञात्वा किं विद्याधर खिद्यते १४२
भवान्परिजिहीर्षुश्चेद्दानवस्य विरूपताम्
शीघ्रं मद्वचनादेव प्राचीनाघविनाशनम् १४३
माघमासे कुरु स्नानं मणिकूटनदीजले
मुनिसिद्धसुरैर्जुष्टे कथयिष्यामि तद्विधिम् १४४
तवभाग्यवशान्माघो निकटः पञ्चमेऽहनि
पौषस्यैकादशीं शुक्लामारभ्य स्थण्डिलेशयः १४५
मासमेकं निराहारस्त्रिकालं स्नानमाचर
त्रिकालमर्चयन्विष्णुं त्यक्तभोगो जितेन्द्रियः १४६
माघस्यैकादशीशुक्ला यावद्विद्याधरोत्तम
ततो निर्दग्धपापं त्वां द्वादश्यां पुण्यवासरे १४७
अभिषिच्य शिवैस्तोयैर्मन्त्रपूतैरहं सुर
कामवक्त्रोपमं वक्त्रं करिष्यामि तवानघ १४८
देवतावदनोभूत्वा त्वं विद्याधरसत्तम
अनया वरवर्णिन्या सार्द्धं क्रीड यथासुखम् १४९
ज्ञातमाघप्रभावस्त्वं माघस्नानं सदा कुरु
यथामनोरथावाप्तिर्जायते तव सर्वदा 6.125.१५०
इत्युक्तं भृगुणा तस्मै सर्वज्ञेन महात्मना
विद्याधराय राजेन्द्र पुनर्गाथा उदाहृता १५१
माघस्नानैर्विपन्नाश माघस्नानैरघक्षयः
सर्वयज्ञाधिको माघः सर्वदानफलप्रदः १५२
माघो गर्जति यज्ञेभ्यो माघो योगाच्च गर्जति
तीव्राच्च तपसो माघो भो विद्याधर गर्जति १५३
पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके
अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे १५४
यत्फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः
तत्फलं प्राप्यते माघे त्र्यहस्नानान्न संशयः १५५
स्वर्गलोके चिरं रागो येषां मनसि वर्तते
यत्र क्वापि जले तैस्तु स्नातव्यं मकरे रवौ १५६
आयुरारोग्यसम्पत्तिरूपसौभाग्यता गुणाः
येषां मनोरथस्तैस्तु न त्याज्यं माघमज्जनम् १५७
ये च बिभ्यन्ति नरकाद्ये दरिद्राच्च सञ्चितात्
सर्वथा तैः प्रयत्नेन माघे कार्यं निमज्जनम् १५८
दारिद्र्य पापदौर्भाग्य पङ्कप्रक्षालनाय च
माघस्नानान्न चान्योऽस्ति उपायो राजसत्तम १५९
श्रद्धाहीनानि कर्माणि तथात्यल्पफलानि वै
फलं ददाति सम्पूर्णं माघस्नानं यथा तथा १६०
अकामो वा सकामो वा यत्र क्वापि बहिर्जले
इहामुत्र च दुःखानि माघस्नायी न विन्दति १६१
पक्षद्वये यथा चन्द्रो वर्द्धते क्षीयते तथा
पातकं क्षीयते माघे पुण्यराशिश्च वर्धते १६२
यथा च खन्या जायन्ते रत्नानि विविधानि च
स्नानात्पुण्यानि जायन्ते नराणां माघतस्तथा १६३
कामधेनुर्यथा कामं चिन्तामणिस्तु चिन्तितम्
माघस्नानं ददातीह तद्वत्सर्वान्मनोरथान् १६४
कृते तपः परं ज्ञानं त्रेतायां यजनं तथा
द्वापरे तु कलौ ज्ञानं माघः सर्वयुगेषु च १६५
सर्वेषामेव वर्णानामाश्रमाणां च भूपते
माघस्नानं तु धर्मस्य धाराभिरभिवर्षति १६६
वसिष्ठ उवाच
इति वाक्यं भृगोः श्रुत्वा तस्मिन्नेवाश्रमे सुरः
सहैव भृगुणा माघे गिरौ निर्झरिणी तटे १६७
यथोक्तविधिना स्नानमकरोद्भार्यया सह
भृगोरनुग्रहात्सोऽथ सम्प्राप्य मनसेप्सितम् १६८
देवतावदनो भूत्वा मुमुदे मणिपर्वते
आजगाम भृगुर्विध्यं तमनुग्राह्य हर्षितः १६९
मणिमयगिरिराजे स्नानमात्रेण माघे मदनवदनरूपस्तत्र विद्याधरोऽभूत्
क्षपितनियमदेहो विन्ध्यपादावतीर्णो भृगुरपि सहशिष्यैराजगामाथ रेवाम् १७०
अखिलभुवनसारं माघमाहात्म्यमेतद्द्विजवरभृगुणोक्तं भूपविद्याधराय
विविधफलविचित्रं यः शृणोतीह नित्यं रुचिरसकलकामान्देववत्प्राप्नुयात्सः १७१
इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे पञ्चविंशत्यधिकशततमोऽध्यायः १२५