ईश्वर उवाच
विश्वास-प्रस्तुतिः
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम्
मुक्तिदं तत्वबुद्धीनां शृणुष्व सुरसत्तम ॥ १ ॥
मूलम्

तावद्गर्जति सेनानि गङ्गा भागीरथी क्षितौ
यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी ॥ २ ॥

तावद्गच्छन्ति तीर्थानि आसमुद्र सरांसि च
यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके ॥ ३ ॥

अश्वमेधसहस्राणि राजसूयशतानि च
एकेनैवोपवासेन प्रबोधिन्यां यथाऽभवत् ॥ ४ ॥

दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी ॥ ५ ॥

ऐश्वर्यं संसृतिं ज्ञानं राज्यं च सुखसम्पदम्
ददात्युपोषिता विप्र हेलया हरिबोधिनी ॥ ६ ॥

मेरुमन्दरतुल्यानि पापान्युपार्जितानि च
एकेनैवोपवासेन दहते हरिबोधिनी ॥ ७ ॥
मूलम्
मेरुमन्दरतुल्यानि पापान्युपार्जितानि च
एकेनैवोपवासेन दहते हरिबोधिनी ॥ ७ ॥
विश्वास-प्रस्तुतिः
उपवासं प्रबोधिन्यां यः करोति स्वभावतः
विधिना नरशार्दूल यथोक्तं लभते फलम् ॥ ८ ॥

पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम्
जागरेण प्रबोधिन्यां दह्यते तूलराशिवत् ॥ ९ ॥

शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम्
यस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः ॥ १० ॥

गीतं वाद्यं च नृत्यं च पुराणपठनं तथा
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम् ॥ ११ ॥

फलमर्घ्यं च श्रद्धा च दानमिन्द्रियसंयमम्
सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् ॥ १२ ॥

साश्चर्चं चैव सोत्साहमालस्यादिविवर्जितम्
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम् ॥ १३ ॥

नीराजनसमायुक्तमनिर्विण्णेन चेतसा
यामे यामे महाभाग कुर्वन्नीराजनं हरेः ॥ १४ ॥

एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः
एकाग्रमानसो यस्तु न पुनर्जायते भुवि ॥ १५ ॥

य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितैः
जागरं वासरे विष्णोर्नीयते परमां गतिम् ॥ १६ ॥

पुरुषसूक्तेन यो नित्यं कार्तिके अर्चयेद्धरिम्
वर्षकोटिसहस्राणि पूजितस्तेन केशवः ॥ १७ ॥

यथोक्तेन विधानेन पञ्चरात्रोदितेन वै
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः ॥ १८ ॥

नमोनारायणायेति कार्तिके योऽर्चयेद्धरिम्
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम् ॥ १९ ॥

हरेर्नामसहस्रं च गजराजस्य मोक्षणम्
कार्तिके पठते यस्तु पुनर्जन्म न विन्दति ॥ २० ॥

युगकोटिसहस्राणि मन्वन्तरशतानि च
द्वादश्यां कार्तिके मासि जागरी वसते दिवि ॥ २१ ॥

कुले तस्य च सञ्जाताः शतशोऽथ सहस्रशः
प्राप्नुवन्ति पदं विष्णोस्तस्मात्कुर्वीत जागरम् ॥ २२ ॥

कार्तिके पश्चिमे यामे स्तवं गानं करोति यः
श्वेतद्वीपे तु वसते पितृभिः सह भामिनि ॥ २३ ॥

नैवेद्यदानं हरये कार्तिके दिनसङ्क्षये
युगानि वसते स्वर्गे तावन्ति मुनिसत्तमाः ॥ २४ ॥

अक्षयं मुनिशार्दूल मालतीकमलार्चनम्
अर्चयेद्देवदेवेशं स याति परमं पदम् ॥ २५ ॥

कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः
प्रातर्दत्त्वा शुभान्कुम्भान्स याति मम मन्दिरम् ॥ २६ ॥

कार्त्तिकेय उवाच
भगवन्नुच्यतां पुण्यं व्रतानां परमं व्रतम्
कर्तव्यं कार्तिके मासि भवता भीष्मपञ्चकम् ॥ २७ ॥

विधानं तस्य च फलं तथैव सुरसत्तम
कथयस्व प्रसादान्मे मुनीनां च पितामह ॥ २८ ॥

प्रवक्ष्यामि महापुण्यं व्रतं विधिमतां वरः
भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम् ॥ २९ ॥

सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम्
व्रतस्यास्य गुणान्वक्तुं कः शक्तः केशवादृते ॥ ३० ॥

कार्त्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम्
वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु ॥ ३१ ॥

अम्बरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु
ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः ॥ ३२ ॥

क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः
दुष्करं सत्यहीनानामशक्यं बालचेतसाम् ॥ ३३ ॥

दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः
यस्तत्करोति विप्रेन्द्र तेन सर्वं कृतं भवेत् ॥ ३४ ॥

व्रतं चैतन्महापुण्यं महापातकनाशनम्
अतो नरैः प्रयत्नेन कर्त्तव्यं भीष्मपञ्चकम् ॥ ३५ ॥

कार्तिकस्यामलेपक्षे स्नात्वा सम्यग्विधानतः
एकादश्यां तु गृह्णीयाद्व्रतं पञ्चदिनात्मकम् ॥ ३६ ॥

प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती
नद्यां निर्झरगर्ते वा समालभ्य च गोमयम् ॥ ३७ ॥

यवव्रीहितिलैः सम्यक्पितॄन्सन्तर्पयेत्क्रमात्
स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः ॥ ३८ ॥

भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः
पूजा भीष्मस्य कर्त्तव्या दानं दद्यात्प्रयत्नतः ॥ ३९ ॥

पञ्चरत्नं विशेषेण दत्त्वा विप्राय यत्नतः
वासुदेवोऽपि सम्पूज्यो लक्ष्मीयुक्तः सदा प्रभुः ॥ ४० ॥

पञ्चके पूजयित्वा तु कोटिकल्पानि तुष्यति
यत्किञ्चित्क्रियते सर्वं पञ्चधातुप्रकल्पयेत् ॥ ४१ ॥

संवत्सरव्रतानां च लभते सकलं फलम्
कृत्वा तूदकदानं तु तथार्घ्यस्य च दापनम् ॥ ४२ ॥

मन्त्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः ॥ ४३ ॥

वैयाघ्रपादगोत्राय साङ्कृते प्रवराय च
अपुत्राय ददाम्येतदुदकं भीष्मवर्मणे ॥ ४४ ॥

वसूनामवताराय शन्तनोरात्मजाय च
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे ४५ इति अर्घ्यमन्त्रः
अनेन विधिना यस्तु पञ्चकं तु समापयेत्
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः ॥ ४६ ॥

पञ्चाहमपि कर्तव्यं नियमं च प्रयत्नतः
नियमेन विना पुत्र न भाव्यं व्रतकर्मणा ॥ ४७ ॥

उत्तरायणहीनाय भीष्माय प्रददौ हरिः
उत्तरायणहीनोऽपि शुद्धिं लग्नं विना शुभाः ॥ ४८ ॥

ततः सम्पूजयेद्देवं सर्वपापहरं हरिम्
अनन्तरं प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ॥ ४९ ॥

स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च
तथैव पञ्चगव्येन गन्धचन्दनवारिणा 6.124.॥ ५० ॥

चन्दनेन सुगन्धेन कुङ्कुमेनाथ केशवम्
कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ॥ ५१ ॥

अर्चयेद्रुचिरैः पुष्पैर्गन्धधूपसमन्वितैः
गुग्गुलुं घृतंसंयुक्तं दहेत्कृष्णाय भक्तिमान् ॥ ५२ ॥

दीपकं तु दिवारात्रौ दद्यात्पञ्चदिनादिषु
नैवेद्यं देवदेवस्य परमान्नं निवेदयेत् ॥ ५३ ॥

एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च
ॐ नमो वासुदेवाय जपेदष्टोत्तरं शतम् ॥ ५४ ॥

जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः
षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥ ५५ ॥

उपास्य पश्चिमां सन्ध्यां प्रणम्य गरुडध्वजम्
जपित्वा पूर्ववन्मन्त्रं क्षितिशायी भवेद्व्रती ॥ ५६ ॥

सर्वमेतद्विधानं तु कार्यं पञ्चदिनानि तु
विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ॥ ५७ ॥

प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती
द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ॥ ५८ ॥

ततोनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः
कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ॥ ५९ ॥

अर्चित्वा तं हृषीकेशमेकादश्यां समासतः
निष्प्राश्य गोमयं सम्यगेकादश्यामुपावसेत् ॥ ६० ॥

गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती
क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ॥ ६१ ॥

सम्प्राश्य कायशुद्ध्यर्थं लङ्घयित्वा चतुर्दिनम्
पञ्चमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ॥ ६२ ॥

भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ॥ ६३ ॥

मद्यं मांसं परित्यज्य मैथुनं पापकारिणम्
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ॥ ६४ ॥

ततो नक्तं समाश्नीयात्पञ्चगव्यपुरः सरम्
एवं सम्यक्समाप्तस्य यथोक्तं फलमाप्नुयात् ॥ ६५ ॥

मद्यपो यत्पिबेन्मद्यं जन्मनो मरणान्तिकम्
एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम् ॥ ६६ ॥

स्त्रीभिर्ब्राह्मणवाक्येन कर्तव्यं धर्मवर्द्धनम्
विधवाभिश्च कर्तव्यं मोक्षसौख्याभिवृद्धये ॥ ६७ ॥

सर्वकामसमृद्ध्यर्थं पुण्यार्थमपि पावके
नित्यस्नाने तथा दाने ये कार्तिकमुपासते ॥ ६८ ॥

वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः
आरोग्य पुत्रदो वत्स महापातकनाशनः ॥ ६९ ॥
मूलम्
वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः
आरोग्य पुत्रदो वत्स महापातकनाशनः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
तीर्थेषु कार्तिकं कुर्यात्सर्वयत्नेन षण्मुख
संवत्सरव्रतानां तु समाप्तिः कार्तिके मता ॥ ७० ॥

पापस्य प्रतिमा कार्या रौद्रवस्त्राति भीषणा
खड्गहस्ता विनिष्क्रान्ता लोहदंष्ट्राकरालिनी ॥ ७१ ॥

तिलप्रस्थोपरि स्थाप्या कृष्णवस्त्राभिवेष्टिता
रक्तपुष्पकृतापीडा ज्वलत्काञ्चनकुण्डला ॥ ७२ ॥

सम्पूज्य परया भक्त्या धर्मराजस्य नामभिः
इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः ॥ ७३ ॥

यदन्यजन्मनि कृतमिह जन्मनि वा पुनः
पापं प्रशममायातु तव पादप्रसादतः ॥ ७४ ॥
मूलम्
यदन्यजन्मनि कृतमिह जन्मनि वा पुनः
पापं प्रशममायातु तव पादप्रसादतः ॥ ७४ ॥
विश्वास-प्रस्तुतिः
एवं सम्पूज्य विधिवत्प्रतिमां तां च काञ्चनीम्
कृत्वा पूजां यथाशक्त्या विप्राणां वेदवादिनाम् ॥ ७५ ॥

प्रीतये देवदेवस्य कृष्णस्याक्लिष्टकर्मणः
ब्राह्मणाय प्रदातव्यं धर्मो मे प्रीयतामिति ॥ ७६ ॥

वाचकाय प्रदातव्या यथाशक्त्या च दक्षिणा
दद्याद्धिरण्यं गाश्चैव कृष्णो मे प्रीयतामिति ॥ ७७ ॥

कृतकृत्य स्थितो भूत्वा विरक्तः संयतो भवेत्
अन्येषामपि दातव्यं स्वशक्त्या दानमुत्तमम् ॥ ७८ ॥

शान्तचित्तो निरपराधः परं पदमवाप्नुयात्
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ ७९ ॥

अष्टपादैकनयनः शङ्कुकर्णः खरस्वनः
जडी द्विजिह्वस्ताम्राक्षो मृगराजतनुच्छदः ॥ ८० ॥

चिन्तनीयो महादेवो यस्य रूपं न विद्यते
इदं भीष्मेण कथितं शरतल्पगतेन मे ॥ ८१ ॥
मूलम्
चिन्तनीयो महादेवो यस्य रूपं न विद्यते
इदं भीष्मेण कथितं शरतल्पगतेन मे ॥ ८१ ॥
विश्वास-प्रस्तुतिः
तदेतत्ते मयाख्यातं दुष्करं भीष्मपञ्चकं
धन्यं पुण्यं पापहरं युधिष्ठिर महाव्रतम्
यत्कृत्वा ब्रह्महा गोघ्नः सर्वपापैः प्रमुच्यते ॥ ८२ ॥

यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृतिपञ्चदशी निरुद्धम्
उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः ॥ ८३ ॥

सूत उवाच
एतत्सर्वाधिकं पुण्यं दुर्लभं भुवने कृतम्
इदं गुह्यं मयाख्यातं शास्त्रसारसमुच्चयम् ॥ ८४ ॥

सुराणां गोपितं सर्वमतिगुह्यं च मोक्षदम्
श्रुत्वा चैकपदे देवि अगम्यागमने रताः ॥ ८५ ॥

कन्याविक्री स्वसाविक्री ह्युभयं तु विमोचयेत्
मोक्षदं च इदं शास्त्रं प्रकाशं नेतरे जने ॥ ८६ ॥

श्रुत्वा चैकपदे यस्तु मोक्षं गच्छति मानवः
गोपनीयं प्रयत्नेन ये चापि त्यागिनो नराः ॥ ८७ ॥

न तेषां कथ्यते पुण्यं सत्यं सत्यं च षण्मुख
इत्येतत्सर्वमाख्यातं कार्तिकस्य तु यत्फलम् ॥ ८८ ॥

श्रीविष्णुरुवाच
कथितं देवदेवेन पुत्राय हितकाम्यया
पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ॥ ८९ ॥

ऊचुः प्राञ्जलयः सर्वे तं देवं जगदायुषम्
कृतकृत्या वयं जाताः श्रुत्वा कार्तिकजं फलम् ॥ ९० ॥

अपरं नास्ति श्रोतव्यं प्राप्तं मे जन्मनः फलम्
माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ॥ ९१ ॥

गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः
वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ॥ ९२ ॥

तथा तं पूजयेन्नित्यं यदीच्छेत्सफलं शुभम्
धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ॥ ९३ ॥

पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता
पुराणविद्या दातारो ह्यनन्तफलभोजिनः ॥ ९४ ॥

यः पठेत इदं भक्त्या श्रुत्वा चैवावधारयेत्
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९५ ॥

धनं धान्यं यशः पुत्रानायुरारोग्यमेव च
माहात्म्यश्रवणादेव लभ्यते च न संशयः ॥ ९६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्त्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे चतुर्विंशत्यधिकशततमोध्यायः १२४