कार्तिकेय उवाच
विश्वास-प्रस्तुतिः
भगवञ्च्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
विधिं मासोपवासस्य फलं चास्य यथोदितम् ॥ १ ॥
मूलम्

यथाविधि नरैः कार्या व्रतचर्या यथा भवेत्
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि ॥ २ ॥

यावत्सङ्ख्यं तु कर्तव्यं तत्प्रब्रूहि महेश्वर
व्रतमेतत्सुरश्रेष्ठ विस्तरेण ममानघ ॥ ३ ॥

श्रीरुद्र उवाच
साधु पावकि सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥ ४ ॥

सुराणां च यथा विष्णुस्तपतां च यथा रविः
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥ ५ ॥

तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक्
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥ ६ ॥

सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥ ७ ॥

अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः
न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनात् ॥ ८ ॥

तेन जप्तं हुतं दत्तं तपस्तप्तं कृता स्वधा
यः करोति विधानेन नरो मासमुपोषणम् ॥ ९ ॥

उद्दिश्य वैष्णवं यज्ञं समभ्यर्च्य जनार्दनम्
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥ १० ॥

वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ॥ ११ ॥

अतिकृच्छॄं च पाराकं कृत्वा चान्द्रायणं ततः
मासोपवासं कुर्वीत ज्ञात्वा देह बलाबलम् ॥ १२ ॥

वानप्रस्थो यतिर्वापि नारी वा विधवा मुने
मासोपवासं कुर्वीतगुरोर्विप्राज्ञया ततः ॥ १३ ॥

आश्विनस्यामले पक्षे एकादश्यामुपोषितः
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ १४ ॥

वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥ १५ ॥

अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः
मालतीन्दीवरैः पद्मैः कमलैस्तु सुगन्धिभिः ॥ १६ ॥

कुङ्कुमोशीरकर्पूरैर्विलिप्य वरचन्दनैः
नैवेद्यधूपदीपाद्यैरर्चयेच्च जनार्दनम् ॥ १७ ॥

मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
कुर्वन्नरस्त्रीविधवा बृहद्भक्तिर्जितेन्द्रियः ॥ १८ ॥

नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम्
भक्त्या विष्णोस्तुतिर्वाच्या मिथ्यालापविवर्जिता ॥ १९ ॥

सर्वसत्वदयायुक्तः शान्तवृत्तिरहिंसकः
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥ २० ॥

स्मृत्वालोकनगन्धादि स्वादितं परिकीर्तितम्
अन्नस्य वर्जयेद्ग्रासं ग्रासानां सम्प्रमोक्षणम् ॥ २१ ॥

गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनम्
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥ २२ ॥

न व्रतस्थः स्पृशेत्किञ्चिद्विकर्मस्थं न चालयेत्
देवतायतने तिष्ठन्गृहस्थश्चाचरेद् व्रतम् ॥ २३ ॥

कृत्वा मासोपवासं तु यथोक्तविधिना नरः
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥ २४ ॥

अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति
कृत्वा मासोपवासं तु संयतात्मा जितेन्द्रियः ॥ २५ ॥

ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
पूजयेत्पुष्पमालाभिर्गन्धधूपविलेपनैः ॥ २६ ॥

वस्त्रालङ्कारवाद्यैश्च तोषयेदच्युतं नरः
संस्नापयेद्धरिं भक्त्या तीर्थचन्दनवारिभिः ॥ २७ ॥

चन्दनेनानुलिप्ताङ्गं धूपपुष्पैरलङ्कृतम्
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥ २८ ॥

दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
विप्रान्क्षमापयित्वा तु विसृज्याभ्यर्च्य पूज्य च ॥ २९ ॥

एवं वित्तानुसारेण भक्तियुक्तेन शक्तितः
एवं मासोपवासान्हि कृत्वाभ्यर्च जनार्दनम् ॥ ३० ॥

भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते
एवं मासोपवासान्ते वृत्वा विप्रांस्त्रयोदश ॥ ३१ ॥

निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥ ३२ ॥

पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम्
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ॥ ३३ ॥

ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
विशुद्धकुलचारित्रान्विष्णुपूजनतत्परान् ॥ ३४ ॥

पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश
ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥ ३५ ॥

योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ॥ ३६ ॥

ततोनुपूजयेद्भक्त्या शय्यास्तरणसंस्कृताम्
साच्छादनां शुभां श्रेष्ठां सोपधानामलङ्कृताम् ॥ ३७ ॥

कारयित्वात्मनोमूर्तिं काञ्चनीं तु स्वशक्तितः
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ॥ ३८ ॥

आसनं पादुका छत्रं वस्त्रयुग्ममुपानहौ
पवित्राणि च पुष्पाणि शय्यायामुपकल्पयेत् ॥ ३९ ॥

एवं शय्यां तु सङ्कल्प्य प्रणिपत्य च तान्द्विजान्
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ॥ ४० ॥

ततो व्रजेन्नरः प्रेष्ठं विष्णोः स्थानमनामयम्
मण्डपस्थांस्तु तान्विप्रानिति वाच्यं मुहुर्मुहुः ॥ ४१ ॥

मन्त्रहीनं भक्तिहीनं क्रियाहीनं द्विजोत्तमाः
सर्वं सम्पूर्णतां यातु भवद्वाक्यप्रसादतः
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥ ४२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे श्रीकृष्णसत्यभामासंवादे मासोपवासकथनन्नाम त्रयोविंशत्यधिकशततमोऽध्यायः १२३