कार्तिकेय उवाच
विश्वास-प्रस्तुतिः
दीपावलिफलं नाथ विशेषाद्ब्रूहि साम्प्रतम्
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ॥ १ ॥
मूलम्

किं च तत्र भवेद्देयं किं न देयं वद प्रभो
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कात्र प्रकीर्तिता ॥ २ ॥

सूत उवाच
इति स्कन्दवचः श्रुत्वा भगवान्कामशोषणः
साधूक्त्वा कार्तिकं विप्राः प्रहसन्निदमब्रवीत् ॥ ३ ॥

श्रीशिव उवाच
कार्तिकस्यासिते पक्षे त्रयोदश्यां तु पावके
यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति ॥ ४ ॥

मृत्युना पाशहस्तेन कालेन भार्यया सह
त्रयोदशीदीपदानात्सूर्यजः प्रीयतामिति ॥ ५ ॥

कार्तिके कृष्णपक्षे च चतुर्दश्यां विधूदये
अवश्यमेव कर्त्तव्यं स्नानं च पापभीरुभिः ॥ ६ ॥

पूर्वविद्धा चतुर्दश्या कार्तिकस्य सितेतरे
पक्षे प्रत्यूषसमये स्नानं कुर्यादतन्द्रितः ॥ ७ ॥

तैले लक्ष्मीर्जले गङ्गा दीपावल्यां चतुर्दशीम्
प्राप्तः स्नानं हि यः कुर्याद्यमलोकं न पश्यति ॥ ८ ॥

अपामार्गस्तथा तुम्बी प्रपुन्नाटं च वाह्वलम्
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ॥ ९ ॥

सीतालोष्टसमायुक्त सकण्टक दलान्वित
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥ १० ॥

अपामार्गं प्रपुन्नाटं भ्रामयेच्छिरसोपरि
ततश्च तर्पणं कार्यं यमराजस्य नामभिः ॥ ११ ॥

यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्ताय कालाय सर्वभूतक्षयाय च ॥ १२ ॥
मूलम्
यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्ताय कालाय सर्वभूतक्षयाय च ॥ १२ ॥
विश्वास-प्रस्तुतिः
औदुम्बराय दध्नाय नीलाय परमेष्ठिने
वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥ १३ ॥

नरकाय प्रदातव्यो दीपः सम्पूज्य देवताः
ततः प्रदोषसमये दीपान्दद्यान्मनोहरान् ॥ १४ ॥

ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः
कूटागारेषु चैत्येषु सभासु च नदीषु च ॥ १५ ॥

प्राकारोद्यानवापीषु प्रतोली निष्कुटेषु च
मन्दुरासु विविक्तासु हस्तिशालासु चैव हि ॥ १६ ॥

एवं प्रभातसमये ह्यमावास्यां तु पावकं
स्नात्वा देवान्पितॄन्भक्त्या सम्पूज्याथ प्रणम्य च ॥ १७ ॥

कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः
भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमापयेत् ॥ १८ ॥

ततोपराह्णसमये पोषयेन्नागरान्प्रिय
तेषां गोष्ठीं च मानं च कृत्वा सम्भाषणं नृपः ॥ १९ ॥

वक्तृणां वत्सरं यावत्प्रीतिरुत्पद्यते गुह
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीः प्रबोधयेत् ॥ २० ॥

प्रबोधसमये लक्ष्मीं बोधयित्वा तु सुस्त्रिया
पुमान्वै वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति ॥ २१ ॥

अभयं प्राप्य विप्रेभ्यो विष्णुभीता सुरद्विषः
सुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीं पद्माश्रितां तथा ॥ २२ ॥

त्वं ज्योतिः श्री रविश्चन्द्रो विद्युत्सौवर्णतारकः
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिः स्थिता तु या ॥ २३ ॥

या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम ॥ २४ ॥

शङ्करश्च भवानी च क्रीडया द्यूतमास्थितौ
भवान्याभ्यर्चिता लक्ष्मीर्धेनुरूपेण संस्थिता ॥ २५ ॥

गौर्या जित्वा पुरा शम्भुर्नग्नो द्यूते विसर्जितः
अतोऽयं शङ्करो दुःखी गौरी नित्यं सुखेस्थिता ॥ २६ ॥

प्रथमं विजयो यस्य तस्य संवत्सरं सुखम्
एवं गते निशीथे तु जने निद्रार्धलोचने ॥ २७ ॥

तावन्नगरनारीभिस्तूर्य डिण्डिमवादनैः
निष्कास्यते प्रहृष्टाभिरलक्ष्मीश्च गृहाङ्गणात् ॥ २८ ॥

पराजये विरुद्धं स्यात्प्रतिपद्युदिते रवौ
प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत् ॥ २९ ॥

भूषणीयास्तथा गावो वर्ज्या वहनदोहनात्
गोवर्द्धनधराधार गोकुलत्राणकारक ॥ ३० ॥
मूलम्
भूषणीयास्तथा गावो वर्ज्या वहनदोहनात्
गोवर्द्धनधराधार गोकुलत्राणकारक ॥ ३० ॥
विश्वास-प्रस्तुतिः
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ॥ ३१ ॥

घृतं वहति यज्ञार्थे मम पापं व्यपोहतु
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ ३२ ॥

इतिगोवर्द्धनपूजा
सद्भावेनैव सन्तोष्य देवान्सत्पुरुषान्नरान्
इतरेषामन्नपानैर्वाक्यदानेन पण्डितान् ॥ ३३ ॥

वस्त्रैस्ताम्बूलदीपैश्च पुष्पकर्पूरकुङ्कुमैः
भक्ष्यैरुच्चावचैर्भोज्यैरन्तःपुर निवासिनः ॥ ३४ ॥

ग्रामर्षभं च दानैश्च सामन्तान्नृपतिर्धनैः
पदातिजनसङ्घांश्च ग्रैवेयैः कटकैः शुभैः ॥ ३५ ॥

स्वानमात्यांश्च तान्राजा तोषयेत्स्वजनान्पृथक्
यथार्थं तोषयित्वा तु ततो मल्लान्नटांस्तथा ॥ ३६ ॥

वृषभांश्च महोक्षांश्च युद्ध्य्मानान्परैः सह
राजान्यांश्चापि योधांश्च पदातीन्स समलङ्कृतान् ॥ ३७ ॥

मञ्चारूढः स्वयं पश्येन्नटनर्तकचारणान्
योधयेद्वासयेच्चैव गोमहिष्यादिकं च यत् ॥ ३८ ॥

वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्ति वादनात्
ततोपराह्णसमये पूर्वस्यां दिशि पावके ॥ ३९ ॥

मार्गपालद्यं प्रबध्नीयाद्दुर्गस्तम्भेऽथ पादपे
कुशकाशमयीं दिव्यां लम्बकैर्बहुभिर्गुह ॥ ४० ॥

वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत्
गावैर्वृषांश्चमहिषान्महिषीर्घण्टिकोत्कटाः ॥ ४१ ॥

कृतहोमैर्द्विजेन्द्रैस्तु बध्नीयान्मार्गपालिकाम्
नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रतः ॥ ४२ ॥

मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे
मार्गपालीतले स्कन्द यान्ति गावो महावृषाः ॥ ४३ ॥

राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः
मार्गपालद्यं समुल्लङ्घ्य निरुजः सुखिनो हि ते ॥ ४४ ॥

कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः
पूजां कुर्यात्ततः साक्षाद्भूमौ मण्डलके कृते ॥ ४५ ॥

बलिमालिख्य दैत्येन्द्रं वर्णकैः पञ्चरङ्गकैः
सर्वाभरणसम्पूर्णं विन्ध्यावलिसमन्वितम् ॥ ४६ ॥

कूष्माण्डमय जम्भोरु मधुदानवसंवृतम्
सम्पूर्णं हृष्टवदनं किरीटोत्कटकुण्डलम् ॥ ४७ ॥

द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ॥ ४८ ॥

मातृभ्रातृजनैः सार्द्धं सन्तुष्टो बन्धुभिः सह
कमलैः कुमुदैः पुष्पैः कल्हारै रक्तकोत्पलैः ॥ ४९ ॥

गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः
मद्यमांससुरालेह्य चोष्य भक्ष्योपहारकैः 6.122.॥ ५० ॥

मन्त्रेणानेन राजेन्द्र सः मन्त्री सपुरोहितः
पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम् ॥ ५१ ॥

बलिराज नमस्तुभ्यं विरोचनसुत प्रभो
भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ॥ ५२ ॥

एवं पूजाविधिं कृत्वा रात्रौ जागरणं ततः
कारयेद्वै क्षणं रात्रौ नटनर्तकगायकैः ॥ ५३ ॥

लोकैश्चापि गृहस्यान्ते सपर्यां शुक्लतण्डुलैः
संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ॥ ५४ ॥

बलिमुद्दिश्य वै तत्र कार्यं सर्वं च पावके
यानि यान्यक्षयान्याहु ऋषयस्तत्वदर्शिनः ॥ ५५ ॥

यदत्र दीयते दानं स्वल्पं वा यदि वा बहु
तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम् ॥ ५६ ॥

रात्रौ ये न करिष्यन्ति तव पूजां बलेर्नराः
तेषामश्रोत्रियं धर्मं सर्वं त्वामुपतिष्ठतु ॥ ५७ ॥

विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः
उपकारकरं दत्तमसुराणां महोत्सवम् ॥ ५८ ॥
मूलम्
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः
उपकारकरं दत्तमसुराणां महोत्सवम् ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तदा प्रभृति सेनाने प्रवृत्ता कौमुदी सदा
सर्वोपद्रवविद्रावा सर्वविघ्नविनाशिनी ॥ ५९ ॥

लोकशोकहरा काम्या धनपुष्टिसुखावहा
कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् ॥ ६० ॥

धातुत्वे निगमैश्चैव तेनैषा कौमुदी स्मृता
कौमोदं ते जना यस्मान्नानाभावैः परस्परम् ॥ ६१ ॥

हृष्टतुष्टाः सुखापन्नास्तेनैषा कौमुदी स्मृता
कुमुदानि बलेर्यस्यां दीयन्ते तेन षण्मुख ॥ ६२ ॥

अघार्थं पार्थिवैः पुत्र तेनैषा कौमुदी स्मृता
एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ॥ ६३ ॥

दत्तं दानवराजस्य आदर्शमिव भूतल
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ॥ ६४ ॥

सुभिक्षं क्षेममारोग्यं तस्य सम्पदनुत्तमा
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः ॥ ६५ ॥

कौमुदी क्रियते तस्माद्भावं कर्तुं महीतले
यो यादृशेन भावेन तिष्ठत्यस्यां च षण्मुख ॥ ६६ ॥

हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि
रुदिते रोदते वर्षं हृष्टे वर्षं प्रहर्षितम् ॥ ६७ ॥

भुक्ते भोक्ता भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति
तस्मात्प्रहृष्टैः कर्त्तव्या कौमुदी च शुभैर्नरैः ॥ ६८ ॥

वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके ॥ ६९ ॥

दीपोत्सवञ्जनित सर्वजनप्रसादं कुर्वन्ति ये शुभतया बलिराजपूजाम्
दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रभुदं च वर्षम् ॥ ७० ॥

स्कन्दैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः
मासैश्चतुर्भिश्च ततःप्रावृट्काले शुभावहाः ॥ ७१ ॥

प्रथमा श्रावणे मासि तथा भाद्रपदे परा
तृतीयाश्वयुजेमासि चतुर्थी कार्तिके भवेत् ॥ ७२ ॥

कलुषा श्रावणे मासि तथा भाद्रपदेमला
आश्विने प्रेतसञ्चारा कार्तिके याम्यकामता ॥ ७३ ॥

गुह उवाच
कस्मात्सा कलुषा प्रोक्ता कस्मात्सा निर्मला मता
कस्मात्सा प्रेतसञ्चारा कस्माद्याम्या प्रकीर्तिता ॥ ७४ ॥

इति स्कन्दवचः श्रुत्वा भगवान्भूतभावनः
उवाच वचनं श्लक्ष्णं प्रहसन्वृषभध्वजः ॥ ७५ ॥

महेश उवाच
पुरा वृत्रवधे वृत्ते प्राप्ते राज्ये पुरन्दरे
ब्रह्महत्यापनोदार्थमश्वमेधः प्रवर्तितः ॥ ७६ ॥

क्रोधादिन्द्रेण वज्रेण ब्रह्महत्या निषूदिता
षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ॥ ७७ ॥

नार्यां भ्रूणहणिवह्नौ संविभज्य यथाक्रमम्
तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेन च ॥ ७८ ॥

नारीवृक्षनदीभूमिवह्निभ्रूणहनस्तथा
कलुषीभवनं जातो ह्यतोर्थं कलुषा स्मृता ॥ ७९ ॥

मधुकैटभयो रक्ते पुरा मग्नानु मेदिनी
अष्टाङ्गुला पवित्रा सा नारीणां तु रजोमलम् ॥ ८० ॥

नद्यः प्रावृण्मला सर्वा वह्निरूर्ध्वं मषीमलः
निर्यासमलिना वृक्षाः सङ्गाद्भ्रूणहनो मलाः ॥ ८१ ॥

कलुषानि चरन्त्यस्यां तेनैषा कलुषा मता
देवर्षिपितृधर्माणां निन्दका नास्तिकाः शठाः ॥ ८२ ॥

तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला
अनध्यायेषु शास्त्राणि पाठयन्ति पठन्ति च ॥ ८३ ॥

साङ्ख्यकास्तार्किकाः श्रौतास्तेषां शब्दापशब्दजात्
मलात्पूता द्वितीयायां ततोर्थे निर्मला च सा ॥ ८४ ॥

कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत्
नभस्येते विनिर्दिष्टा निर्मला सा तिथिर्बुधैः ॥ ८५ ॥

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा
पितॄन्पितामहान्प्रेतसञ्चारात्प्रेतसञ्चरा ॥ ८६ ॥

प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु सञ्चरः
पुत्रपौत्रेस्तुदौहित्रैः स्वधामन्त्रैस्तु पूजिताः ॥ ८७ ॥

श्राद्धदानमखैस्तृप्ता यान्त्यतः प्रेतसञ्चरा
महालये तु प्रेतानां सञ्चारो भुवि दृश्यते ॥ ८८ ॥

तेनैषा प्रेतसञ्चारा कीर्तिता शिखिवाहन
यमस्य क्रियते पूजा यतोऽस्या पावके नरैः ॥ ८९ ॥

तेनैषा याम्यका प्रोक्ता सत्यं सत्यं मयोदितम्
एतत्कार्तिकमाहात्म्यं ये शृण्वन्ति नरोत्तमाः ॥ ९० ॥

कार्तिकस्नानजं पुण्यं तेषां भवति निश्चितम् ॥ ९१ ॥

कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत्
भानुजायां नरः स्नात्वा यमलोकं न पश्यति ॥ ९२ ॥

कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक
यमो यमुनया पूर्वं भोजितः स्वगृहेऽचितः ॥ ९३ ॥

द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः
पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वनिबन्धनात् ॥ ९४ ॥

आशंसिताश्च सन्तुष्टाः स्थिताः सर्वे यदृच्छया
तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः ॥ ९५ ॥

अतो यमद्वितीयेयं त्रिषुलोकेषु विश्रुता
तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः ॥ ९६ ॥

स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनं
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ॥ ९७ ॥

स्वर्णालङ्कारवस्त्राणि पूजासत्कारसंयुतम्
भोक्तव्यं सह जायाश्च भगिन्याहस्ततः परम् ॥ ९८ ॥

सर्वासु भगिनीहस्ताद्भोक्तव्यं बलवर्द्धनम्
ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ॥ ९९ ॥

महिषासनमारूढो दण्डमुद्गरभृत्प्रभुः
वेष्टितः किङ्करैहृष्टैस्तस्मै याम्यात्मने नमः 6.122.१००
यैर्भगिन्यः सुवासिन्यो वस्त्रदानादि तोषिताः
न तेषां वत्सरं यावत्कलहो न रिपोर्भयम् १०१
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्
व्याख्यातं सकलं पुत्र सरहस्यं मयानघ १०२
यस्यां तिथौ यमुनया यमराजदेवः सम्भोजितः प्रतितिथौ स्वसृसौहृदेन
तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसम्पदमुत्तमां सः १०३
इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्ससहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये
द्वाविंशत्यधिकशततमोऽध्यायः १२२