१२१

ईश्वर उवाच

विश्वास-प्रस्तुतिः

धात्रीच्छायां समाश्रित्य कुर्यात्पिण्डं तु यो गुह
मुक्तिं प्रयान्ति पितरः प्रसादान्माधवस्य तु ॥ १ ॥

मूलम्

मूर्ध्नि पाणौ मुखे चैव देहे चैव तु यो नरः
धत्ते धात्रीफलं वत्स धात्रीफलविभूषितः ॥ २ ॥

धात्रीफलकृताहारो नरो नारायणो भवेत्
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं गुह ॥ ३ ॥

प्रियो भवति देवानां मनुष्याणं च का कथा
न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ॥ ४ ॥

यावत्तिष्ठति कण्ठस्था धात्रीमाला नरस्य हि
तावत्तस्य शरीरे तु प्रतिष्ठति च केशवः ॥ ५ ॥

धात्रीं फलं तु तुलसीमृत्तिका द्वारकोद्भवा
सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ॥ ६ ॥

यावद्दिनानि वहते धात्रीमालां कलौ नरः
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥ ७ ॥

मालायुग्मं वहेद्यस्तु धात्रीतुलसिसम्भवम्
वहते कण्ठदेशे तु कल्पकोटिं दिवं वसेत् ॥ ८ ॥

सन्नियम्येन्द्रियग्रामं शालग्रामशिलार्चनम्
यः कुर्यान्मानवो भक्त्या पुष्पेपुष्पेऽश्वमेधजम् ॥ ९ ॥

सुराणां च यथा विष्णुः पुष्पाणां तुलसी तथा
तुलस्यानुदिनं देवं योऽर्चयेद्गरुडध्वजम् ॥ १० ॥

जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमाप्नुयात्
तुलसीमालया विष्णुः पूजितो येन कार्तिके ॥ ११ ॥

यमाक्षरकृतां मालां स्फुटं शौरिः प्रमार्जति
श्रीचन्दनं सकर्पूरमगुरुं च सकुङ्कुमम् ॥ १२ ॥

केतकी दीपदानं च सर्वदा केशवप्रियम्
कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे ॥ १३ ॥

दीपदानं महासेन कुलानां तारयेच्छतम्
सरोरुहाणि तुलसी केतकी मुनिपुष्पकम् ॥ १४ ॥

कार्तिके च दिनान्येव दीपदानं तु पञ्चमम्
केतकीमालया येन कार्तिके पुष्पमण्डपम् ॥ १५ ॥

केशवस्य कृतं वत्स वसतिर्दिवि तस्य च
केतकीपुष्पकेनैव पूजितो गरुडध्वजः ॥ १६ ॥

मूलम्

केशवस्य कृतं वत्स वसतिर्दिवि तस्य च
केतकीपुष्पकेनैव पूजितो गरुडध्वजः ॥ १६ ॥

विश्वास-प्रस्तुतिः

समाः सहस्रं सुप्रीतो जायते मधुसूदनः
अर्चयित्वा हृषीकेशं कुसुमैः केतकीभवैः ॥ १७ ॥

पुण्यं तद्भवनं याति केशवस्य शिवं गुह
दमनकेनापि देवेशं सम्प्राप्ते मधुमाधवे ॥ १८ ॥

समभ्यर्च्य मुनिश्रेष्ठ अर्चनाल्लभते फलम्
अगस्तिकुसुमैर्देवं योऽर्चयेत जनार्दनम् ॥ १९ ॥

दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति
न तत्करोति विप्रर्षे तपसा तोषितो हरिः ॥ २० ॥

यत्करोति महासेन मुनिपुष्पैरलङ्कृतः
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् ॥ २१ ॥

कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत्
मुनिपुष्पकृतां मालां यो ददाति जनार्दने ॥ २२ ॥

देवेन्द्रोऽपि मुनिश्रेष्ठ कुरुते तस्य सत्कथाम्
गवामयुतदानेन यत्फलं प्राप्यते गुह ॥ २३ ॥

मुनिपुष्पेण चैकेन कार्तिके लभते फलम्
कौस्तुभेन यथा प्रीतो यथा च वनमालया ॥ २४ ॥

तुलसीदलेन सम्प्रीतः कार्तिके च तथा हरिः
सिऊ!त उवाच
प्रश्रयावनतं दृष्ट्वा कुमारं भक्तितत्परम् ॥ २५ ॥

पुनः प्रोवाच भगवान्महादेवो वृषध्वजः
ईश्वर उवाच
शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन ॥ २६ ॥

पितरश्चैव वाञ्च्छन्ति सदा पितृगणैर्वृताः
भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः ॥ २७ ॥

कार्तिके दीपदानेन यस्तोषयति केशवम्
घृतेन दीपको यस्य तिलतैलेन वा पुनः ॥ २८ ॥

ज्वलते यस्य सेनानीरश्वमेधेन तस्य किम्
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ॥ २९ ॥

दीपदानं कृतं येन कार्तिके केशवाग्रतः
कृष्णपक्षे विशेषेण पुत्र पञ्चदिनानि च ॥ ३० ॥

पुण्यानि तेषु यो दत्ते दीपं सोऽक्षयमाप्नुयात्
एकादश्यां परैर्दत्तं दीपं प्रज्वाल्य मूषिका ॥ ३१ ॥

मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा
लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम् ॥ ३२ ॥

निर्भक्षः परमं प्राप्य विष्णुलोकं जगाम सः
श्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैः कृतम् ॥ ३३ ॥

शुद्धा लीलावती भूत्वा जगाम स्वर्गमक्षयम्
गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः ॥ ३४ ॥

मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत्
तस्माद्दीपाः प्रदातव्या रात्रावस्तमते रवौ ॥ ३५ ॥

गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च
देवालयेषु देवानां श्मशानेषु सरस्सु च ॥ ३६ ॥

घृतादिना शुभार्थाय यावत्पञ्चदिनानि च
पापिनः पितरो ये च लुप्तपिण्डोदकक्रियाः
तेपि यान्ति परां मुक्तिं दीपदानस्य पुण्यतः ॥ ३७ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये दीप गन्ध धात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः १२१