सूत उवाच
विश्वास-प्रस्तुतिः
इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः
शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः ॥ १ ॥
मूलम्

कार्तिकेय उवाच
भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया
शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो ॥ २ ॥

ईश्वर उवाच
साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि
तदहं सम्प्रवक्ष्यामि श्रूयतां मम वत्सल ॥ ३ ॥

शालग्रामशिलायां तु त्रैलोक्यं सचराचरम्
महाशय महासेन नित्यं तिष्ठति संहितम् ॥ ४ ॥

दृष्टं प्रणमितं येन स्नापितं पूजितं तथा
यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत् ॥ ५ ॥

छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः
पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥ ६ ॥

कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः
शालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत् ॥ ७ ॥

शालग्रामशिला बिम्बं हत्वा कोटिविनाशनम्
स्मृतं सङ्कीर्तितं ध्यातं पूजितं च नमस्कृतम् ॥ ८ ॥

शालग्रामशिलां दृष्ट्वा यान्ति पापान्यनेकशः
सिंहं दृष्ट्वा यथा यान्ति वने मृगगणा भयात् ॥ ९ ॥

नमस्कारं तु मनुजः शालग्रामशिलार्चने
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् ॥ १० ॥

वैवस्वतभयं नास्ति तथा मरणजन्मनोः
यः करोति नरो नित्यं शालग्रामशिलार्चनम् ॥ ११ ॥

गन्धपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः
गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् ॥ १२ ॥

कुरुते मानवो यस्तु कलौ भक्तिपरायणः
कल्पकोटिसहस्राणि रमते विष्णुसद्मनि ॥ १३ ॥

शालग्रामनमस्कारो भावेनापि नरैः कृतः
मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि ॥ १४ ॥

मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमन्ति ये
वासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः ॥ १५ ॥

मद्भक्तोऽपि च यो भूत्वा भुङ्क्ते त्वेकादशीदिने
स याति ह्यन्धतामिस्रे निरयं मम घातकः ॥ १६ ॥

मल्लिङ्गस्पर्शनं कार्यं नान्या शुद्धिर्विधीयते
या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा ॥ १७ ॥

यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकः
शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् ॥ १८ ॥

दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् ॥ १९ ॥

तत्फलं कोटिगुणितं शालग्रामशिलार्चनात्
पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः ॥ २० ॥

न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम्
शालग्रामशिलाग्रे तु यः करोति ममार्चनम् ॥ २१ ॥

तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम्
किमर्चितैर्लिङ्गशतैर्विष्णुभक्तिविवर्जितैः ॥ २२ ॥

शालग्रामशिलाबिम्बं नार्चितं यदि पुत्रक
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् ॥ २३ ॥

शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम्
भुक्त्वान्यदेवनैवेद्यं द्विजश्चान्द्रायणं चरेत् ॥ २४ ॥

भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत्
पादोदकेन देवस्य हत्याकोटिसमन्विताः ॥ २५ ॥

शुद्ध्यन्ति नात्र सन्देहस्तथा शङ्खोदकेन हि
यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत् ॥ २६ ॥

द्वेष्टा च याति नरकं यावदिन्द्राश्चतुर्दश
ज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत् ॥ २७ ॥

पितामहा युगान्यष्टौ भवत्यमृतभोजिनः
संसारे दुःखकान्तारे निमज्ज्यन्ते नराधमाः ॥ २८ ॥

वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः
स्नेहादभ्यर्चितैर्लिङ्गैः शालग्रामसमुद्भवैः ॥ २९ ॥

मुक्तिं प्रयान्ति मनुजा योगसाङ्ख्येन वर्जिताः
मल्लिङ्गकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः ॥ ३० ॥

शालग्रामशिलायां तु एकस्यामिह तद्भवेत्
द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ॥ ३१ ॥

अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे
कोटिलिङ्गसहस्रैस्तु पूजितैर्जाह्नवी तटे ॥ ३२ ॥

काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत्
किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः ॥ ३३ ॥

नाहं ब्रह्मादयो देवाः सङ्ख्यां कर्तुं समीहते
तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक ॥ ३४ ॥

कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम्
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ॥ ३५ ॥

तत्र देवासुरा यक्षा भुवनानि चतुर्दश ॥ ३६ ॥

सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत्
तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ ॥ ३७ ॥

शालग्रामशिलाग्रे तु सकृत्पिण्डेन तर्पिताः
वसन्ति पितरस्तस्य न सङ्ख्या तत्र विद्यते ॥ ३८ ॥

ये पिबन्ति नरा भक्त्या शालग्रामशिलाजलम्
पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥ ३९ ॥

प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः
चान्द्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः ॥ ४० ॥

यः करोति तडागे तु प्रतिमां जलशायिनीम्
कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः ॥ ४१ ॥

विष्णुमुख्यास्तु वै देवास्तत्र जल्पन्ति वै सह
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ॥ ४२ ॥

फलप्रमाणं नैवास्तिशालग्रामशिलार्चन
यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ॥ ४३ ॥

विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः
गृहेऽपि वसतस्तस्य गङ्गास्नानं दिनेदिने ॥ ४४ ॥

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
शालग्रामशिलातोयैरभिषेकं समाचरेत् ॥ ४५ ॥

स्वर्गे मर्त्ये च पाताले पाषाणाः सन्ति वै गुह
शालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः ॥ ४६ ॥

मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम्
तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने ॥ ४७ ॥

तत्फलं समवाप्नोति शालग्रामशिलार्चनात्
पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा ॥ ४८ ॥

जायते मेरुणा तुल्यं शालग्रामे समर्पितम्
विधिहीनोऽपि यः कश्चित्क्रियामन्त्रविवर्जितः ॥ ४९ ॥

चक्राङ्कभुज आप्नोति सम्यक्शास्त्रोदितं फलम्
यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम् 6.120.॥ ५० ॥

तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक
क्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः ॥ ५१ ॥

कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे
श्रीकृष्ण उवाच
निवसामि सदा शम्भो शालग्रामोद्भवेऽश्मनि ॥ ५२ ॥

तत्रैव रथचक्राङ्के यानि नामानि मे शृणु
द्वारदेशे समे चक्रे दृश्येते नान्तरं यदि
वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः ॥ ५३ ॥

प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च
सुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ॥ ५४ ॥

अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः
रेखात्रयाङ्कितो द्वारि दृष्टपद्मेन चिह्नवत् ॥ ५५ ॥

श्यामो नारायणो देवो नाभिचक्रे तथोन्नते
दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः ॥ ५६ ॥

ऊर्ध्वम्मुखं च जानीयात्सुन्दरं हरिरूपिणम्
कामदं मोक्षदं चैव अर्थदं च विशेषतः ॥ ५७ ॥

परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः
बिम्बाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम् ॥ ५८ ॥

कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने
द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः ॥ ५९ ॥

कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः
ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत् ॥ ६० ॥

वाराहः शक्तिलिङ्गस्तु चक्रे च विषमे स्मृते
इन्द्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः ॥ ६१ ॥

दीर्घाकाञ्चनवर्णाया बिन्दुत्रयविभूषिता
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ॥ ६२ ॥

कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः
हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः ॥ ६३ ॥

हयग्रीवो हयाकारो रेखापञ्चकभूषितः
बहुबिन्दुसमाकीर्णः पृष्ठे नीलं च रूपकम् ॥ ६४ ॥

वैकुण्ठमविभिन्नाङ्गं चक्रमेकं तथा ध्वजम्
द्वारोपरि तथा रेखा गुञ्जाकारा सुशोभना ॥ ६५ ॥

श्रीधरस्तु तथा देवश्चिह्नितो वनमालया
कदम्बकुसुमाकारो रेखापञ्चकभूषितः ॥ ६६ ॥
मूलम्
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया
कदम्बकुसुमाकारो रेखापञ्चकभूषितः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितः
अतसीकुसुमप्रख्यो बिन्दुना परिशोभितः ॥ ६७ ॥

सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः
वामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे ॥ ६८ ॥

दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम्
दूर्वाभं द्वारसङ्कीर्णं पीतरेखं तथैव च ॥ ६९ ॥

नानावर्णो ह्यनन्तस्तु नानाभोगेन चिह्नितः
अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः ॥ ७० ॥

विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम्
पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ॥ ७१ ॥

दृश्यते शिखरे लिङ्गं शालग्रामशिलोद्भवम्
यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति ॥ ७२ ॥

आरक्तः पद्मनाभस्तु पङ्कजं वक्त्रसंयुतम्
तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत् ॥ ७३ ॥

चक्राङ्कितं हिरण्याङ्गं रश्मिजालं विनिर्दिशेत्
सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ॥ ७४ ॥

अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च
पाण्डुरा पापदहनी पितापुत्रफलप्रदा ॥ ७५ ॥

नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी
रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥ ७६ ॥

एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम्
तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥ ७७ ॥

पञ्चमं वासुदेवं च षष्ठं प्रद्युम्नमेव च
सङ्कर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम् ॥ ७८ ॥

नवमं च नवव्यूहं दशमं तु तदात्मकम्
एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम् ॥ ७९ ॥

अत ऊर्ध्वं तु चक्राणि दृश्यन्तेऽनन्तसञ्ज्ञके
खण्डिते त्रुटिते भग्ने सालग्रामे न दोषभाक् ॥ ८० ॥

इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत्
स्कन्धे कृत्वा तु योऽध्वानं वहते शैलनायकम् ॥ ८१ ॥

तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम्
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ॥ ८२ ॥

तत्र दानं जपः स्नानं वाराणस्याः शताधिकम्
कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा ॥ ८३ ॥

तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम्
ब्रह्महत्यादिकं पापं यत्किञ्चित्कुरुते नरः ॥ ८४ ॥

तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम्
शालग्रामोद्भवो देवो यत्र द्वारावतीभवः ॥ ८५ ॥

उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः
ब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥ ८६ ॥

भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा
तत्पूजनेन मन्त्राश्च न जपो न च भावना ॥ ८७ ॥

न स्तुतिर्नापि चाचारः शालग्रामशिलार्चने
शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात् ॥ ८८ ॥

कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम्
अणुमात्रं तु यः कुर्यान्मण्डलं केशवाग्रतः ॥ ८९ ॥

मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत्
यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते ॥ ९० ॥

कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः
अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे ॥ ९१ ॥

तत्पापं नाशमायाति मण्डयित्वा हरेर्गृहम्
मण्डलं कुरुते नित्यं या नारी केशवाग्रतः
सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ॥ ९२ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यन्नाम विंशत्यधिकशततमोऽध्यायः १२०