११९

ईश्वर उवाच

विश्वास-प्रस्तुतिः

माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम
त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते ॥ १ ॥

मूलम्

चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम्
यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम् ॥ २ ॥

जितेन्द्रियः शान्तमनाः सदाचारेण संयुतः
स्नानं करोति यो माघे संसारी न भवेत्पुनः ॥ ३ ॥

श्रीकृष्ण उवाच
शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः
यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा ॥ ४ ॥

सूत उवाच
इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ
तदहं सम्प्रवक्ष्यामि तच्छृणुध्वं तपोधनाः ॥ ५ ॥

पञ्चयोजनविस्तीर्णे शूकरे हरिमन्दिरे
यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः ॥ ६ ॥

त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च
त्रयो हस्ता शूकरस्य परिमाणं विधीयते ॥ ७ ॥

षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः
तत्फलं लभते देवि प्रहरार्द्धेन शूकरे ॥ ८ ॥

सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे
तुलापुरुषदानेन तत्फलं परिकीर्त्तितम् ॥ ९ ॥

काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत्
सहस्रगुणितं प्रोक्तं गङ्गासागरसङ्गमे ॥ १० ॥

अनन्तं चैव विज्ञेयं शूकरे हरिमन्दिरे
अन्यत्र ददते लक्षं संविधानेन कार्तिक ॥ ११ ॥

इहैवैकेन दत्तेन शूकरे तत्समं भवेत्
शूकरे च तथा वेण्यां गङ्गासागरसङ्गमे ॥ १२ ॥

सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति
अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुन्धरा
शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन ॥ १३ ॥

मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक
कार्त्तिकेय उवाच
भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
विधिं मासोपवासस्य फलं चास्य यथोचितम् ॥ १४ ॥

यथाविधि नरैः कार्या व्रतचर्या यथा भवेत्
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि ॥ १५ ॥

यावत्सङ्ख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर
व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ ॥ १६ ॥

श्रीरुद्र उवाच
पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥ १७ ॥

सुराणां च यथा विष्णुस्तपतां च यथा रविः
मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥ १८ ॥

तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक्
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥ १९ ॥

सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥ २० ॥

अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः
न तत्पुण्यमवाप्नोति यन्मासपरिलङ्घनात् ॥ २१ ॥

तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा
यः करोति विधानेन नरो मासमुपोषणम् ॥ २२ ॥

उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम्
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥ २३ ॥

वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ॥ २४ ॥

अतिकृच्छ्रं च पाराकं कृत्वा चान्द्रायणं ततः
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ॥ २५ ॥

आश्विनस्यामले पक्षे एकादश्यामुपोषितः
व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ २६ ॥

वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥ २७ ॥

अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः
मालतीन्दीवर्रैबुध्नैः कमलैश्च सुगन्धिभिः ॥ २८ ॥

कुसुमोशीरकर्पूरैर्विलिप्य वरचन्दनैः
नैवेद्यापूपदीपाद्यैरर्चयेच्च जनार्दनम् ॥ २९ ॥

मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
कुर्वन्नरः स्त्री विधवा बृहद्भक्तिर्जितेन्द्रियः ॥ ३० ॥

नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम्
भक्त्या विष्णोः स्तुतिर्वाच्या मिथ्यालापविवर्जिता ॥ ३१ ॥

सर्वसत्वदयायुक्तः शान्तवृत्तिरहिंसकः
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥ ३२ ॥

स्मृत्यालोकनगन्धादि स्वादनं परिकीर्त्तनम्
अन्नस्य वर्जयेद्वासं ग्रासानां सम्प्रमोक्षणम् ॥ ३३ ॥

गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनम्
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥ ३४ ॥

न व्रतस्थः स्पृशेत्किञ्चिद्विकर्मस्थं न चालयेत्
देवतायतने तिष्ठन्न गृहस्थश्चरेत्ध्रुवम् ॥ ३५ ॥

कृत्वा मासोपवासं तु यथोक्तविधिना नरः
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥ ३६ ॥

अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिदम्
कृत्वा मासोपवासं तु संयतात्मा जितेन्द्रियः ॥ ३७ ॥

ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
पूजयेत्पुष्पमालाभिर्गन्धधूपविलेपनैः ॥ ३८ ॥

वस्त्रालङ्कारवाद्यैश्च तोषयेदच्युतं नरः
संस्नापयेद्धरिं भक्त्या तीर्थचन्दनवारिभिः ॥ ३९ ॥

चन्दनेनानुलिप्ताङ्गं धूपपुष्पैरलङ्कृतम्
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥ ४० ॥

दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासाद्धि कृत्वाभ्यर्च्य जनार्दनम् ॥ ४१ ॥

भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते
एवं मासोपवासान्ते कृत्वा विप्रान्त्रयोदश ॥ ४२ ॥

निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥ ४३ ॥

पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम्
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ॥ ४४ ॥

ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
विशुद्धकुलचारित्र विष्णुपूजनतत्परान् ॥ ४५ ॥

पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश
ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥ ४६ ॥

योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि
दद्याच्चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ॥ ४७ ॥

ततोनुपूजयेच्छक्त्या शय्यां स्तरणसंस्कृताम्
साच्छादनां शुभां श्रेष्ठां सोपधानामलङ्कृताम् ॥ ४८ ॥

कारयित्वात्मनोमूर्तिं काञ्चनीं तु स्वशक्तितः
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ॥ ४९ ॥

आसनं पादुकां छत्रं वस्त्रयुग्ममुपानहौ
पवित्राणि च पुष्पाणि शयाय्यामुपकल्पयेत् 6.119.॥ ५० ॥

एवं शय्यां तु सङ्कल्प्य प्रणिपत्य च तान्द्विजान्
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ॥ ५१ ॥

ततो व्रजेन्नरश्रेष्ठो विष्णोः स्थानमनामयम्
मण्डपस्थां स्तुतान्विप्रानिति वाच्यं मुहुर्मुहुः ॥ ५२ ॥

मन्त्रहीनं क्रियाहीनं सर्वहीनं द्विजोत्तमाः
सर्वंसम्पूर्णतां यातु भवद्वाक्यप्रसादतः
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥ ५३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहिताया
मुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे मासो
पवासकथनन्नामैकोनविंशत्यधिकशततमोऽध्यायः११९