११८

सूत उवाच

विश्वास-प्रस्तुतिः

पुनः प्रोवाच भगवान्महादेवो वृषध्वजः
श्रोतारमुपसङ्गम्य भक्तियुक्तं षडाननम् ॥ १ ॥

मूलम्

ईश्वर उवाच
कार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमः
अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिताः कलौ ॥ २ ॥

ऊर्जे मासि महाभागौ भोजनानि द्विजातये
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥ ३ ॥

मूलम्

ऊर्जे मासि महाभागौ भोजनानि द्विजातये
तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥ ३ ॥

विश्वास-प्रस्तुतिः

गोप्रदानानि दास्यन्ति सर्वभावेन सुव्रत
सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥ ४ ॥

ब्राह्मणायात्र ये कन्यां दास्यन्ति विधिवन्नराः
वैकुण्ठे वसतिस्तेषां यावदिन्द्राश्चतुर्दश ॥ ५ ॥

रोमकाले तु सम्प्राप्ते सोमो भुङ्क्ते तु कन्यकाम्
ऋतुकाले तु गन्धर्वा वह्निस्तु कुचदर्शने ॥ ६ ॥

तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत्
विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥ ७ ॥

दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥ ८ ॥

कन्यावरप्रमाणाया एष एव विधिः स्मृतः
यावन्ति चैव रोमाणि कन्यायाश्च तनौ सुत ॥ ९ ॥

तावद्वर्षसहस्राणि रुद्रलोके महीयते
सहस्रमेव धेनूनां शतं चानुडुहां समम् ॥ १० ॥

दशानुडुत्समं यानं दशयानसमो हयः
हयदानसहस्रेभ्यो गजदानं विशिष्यते ॥ ११ ॥

मूलम्

दशानुडुत्समं यानं दशयानसमो हयः
हयदानसहस्रेभ्यो गजदानं विशिष्यते ॥ ११ ॥

विश्वास-प्रस्तुतिः

गजदानसहस्राणां स्वर्णदानं च तत्समम्
स्वर्णभारसहस्राणां विद्यादानं च तत्समम् ॥ १२ ॥

विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते
भूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते ॥ १३ ॥

गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते
अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १४ ॥

तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहन
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ॥ १५ ॥

कार्तिकेय उवाच
अन्यानपि महादेव धर्मान्मे वक्तुमर्हसि
यान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् ॥ १६ ॥

इतिपृष्टस्तदा शम्भुः पुनर्वक्तुं प्रचक्रमे
यावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः ॥ १७ ॥

परान्नं वर्जयेद्यस्तु कार्तिके नियमे कृते
परान्नवर्जनादेव लभेच्चान्द्रायणं फलम् ॥ १८ ॥

तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्
दिनेदिने तु कृच्छ्रस्य फलम्प्राप्नोति मानवः ॥ १९ ॥

कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधु
कार्तिके वर्जयेत्कांस्यं सङ्घान्नं च विशेषतः ॥ २० ॥

राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्
षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते ॥ २१ ॥

तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरः
प्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते ॥ २२ ॥

अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्
न कार्तिकसमो मासो न दैवं केशवात्परम् ॥ २३ ॥

न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम्
न सत्यं न समं वृत्तं न कृतेन समं युगम् ॥ २४ ॥

न तृप्ती रसना तुल्या न दानसदृशं सुखम्
न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् ॥ २५ ॥

अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम्
कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते ॥ २६ ॥

कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियः
समुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् ॥ २७ ॥

कुलशीलवतीकन्या दुर्लभा दम्पती नृणाम्
दुर्लभा जननी लोके पिता चैव विशेषतः ॥ २८ ॥

दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतः
दुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् ॥ २९ ॥

दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम्
ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चन्द्रसूर्ययोः ॥ ३० ॥

यत्फलं लभते वत्स तत्फलं भूमिशायिनः
भोजनं द्विजदम्पत्योः पूजयेच्च विलेपनैः ॥ ३१ ॥

कम्बलानि च रत्नानि वासांसि विविधानि च
तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥ ३२ ॥

उपानहा वातपत्रं कार्तिके देहि पावके
यः करोति नरो नित्यं कार्तिके पत्रभोजनम् ॥ ३३ ॥

न दुर्गतिमवाप्नोति यावदिन्द्राश्चतुर्दश
सर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ॥ ३४ ॥

न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात्
ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ॥ ३५ ॥

मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहन
ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ॥ ३६ ॥

ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमः
सर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ॥ ३७ ॥

भोजनान्मध्यपत्रे तु कपिलापयसस्तथा
प्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ॥ ३८ ॥

अज्ञानाद्भुञ्जते यस्तु शूद्रो वा कपिलापयः
कपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ॥ ३९ ॥

तिलदानं नदीस्नानं सर्वदा साधुदर्शनम्
भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ॥ ४० ॥

मौनी पालाशभोजी च जलस्नायी सदा क्षमी
कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥ ४१ ॥

जागरं कार्तिके मासि यः करोत्यरुणोदये
दामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ॥ ४२ ॥

पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणा
कार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ॥ ४३ ॥

बोधनात्परदीपस्य वैष्णवानां च सेवनात्
कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥ ४४ ॥

नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम्
न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥ ४५ ॥

पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा
कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥ ४६ ॥

प्रयागो माघमासे तु पुष्करं कार्तिके तथा
अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ॥ ४७ ॥

धन्यास्ते मानवा लोके कलिकाले विशेषतः
कुर्वन्ति स्कन्द नित्यं ये सर्वथा हरिसेवनम् ॥ ४८ ॥

किं दत्तैर्बहुभिः पिण्डैर्गयाश्राद्धादिभिर्मुने
तारितास्तेन पितरो नरकाच्च न संशयः ॥ ४९ ॥

क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदशैः सह 6.118.॥ ५० ॥

कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे ॥ ५१ ॥

दष्टा मुष्टा विनष्टास्ते पतिताः कलिकन्दरे
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ॥ ५२ ॥

पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम्
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥ ५३ ॥

अपराधसहस्राणि तथा सप्तशतानि च
पद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ॥ ५४ ॥

तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥ ५५ ॥

तुलसीगन्धमिश्रं तु यत्किञ्चित्क्रियते सुत
कल्पकोटिसहस्राणि प्रीतो भवति केशवः ॥ ५६ ॥

मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत्
तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ॥ ५७ ॥

कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत्
सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ॥ ५८ ॥

विष्णोरङ्गारशेषेण यस्याङ्गं स्पृशते सुत
दुरितानि विनश्यन्ति व्याधयो यान्ति सङ्क्षयम् ॥ ५९ ॥

शङ्खोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्
चन्दनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥ ६० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरोनाम अष्टादशाधिकशततमोऽध्यायः ११८