सूत उवाच
विश्वास-प्रस्तुतिः
इति सर्वं समाकर्ण्य सत्राजितसुता तदा
हरेर्वाक्यं महाभागा सत्या वचनमब्रवीत् ॥ १ ॥
मूलम्

सत्योवाच
कार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात्प्रभो
सर्वेषामेव मासानां कार्तिकः प्रवरः कथम् ॥ २ ॥

श्रीकृष्ण उवाच
साधु पृष्टं त्वया सत्ये कार्तिकव्रतमादरात्
शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना ॥ ३ ॥

श्रूयतां तत्प्रवक्ष्यामि एतत्प्रश्नोत्तरं शुभम्
ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै ॥ ४ ॥

कार्तिकेय उवाच
बहूनि पद्मनाभस्य रहस्यानि श्रुतानि च
यथा हि प्रोच्यमानानि वैष्णवेन त्वया प्रभो ॥ ५ ॥

संसारसागरे प्राप्ता दुःखोरुलहरीवृते
तेषामुत्तारणार्थाय कथयस्व प्रयत्नतः ॥ ६ ॥

कार्तिकस्य विधिश्चैव स्नानस्य वदतां वर
येन दुःखाम्बुधिं तात सन्तरिष्यन्ति मानवाः ॥ ७ ॥

फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम्
येन धर्मप्रभावेन पदं गच्छति वैष्णवम् ॥ ८ ॥

दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत
गोपीचन्दनमाहात्म्यं तुलस्यास्तु तथा विभो ॥ ९ ॥

मालतीपुष्पमाहात्म्यं वारिजानां तथा वद
धात्रीफलानां माहात्म्यं तथा दमनकस्य च ॥ १० ॥

केतकीपुष्पमाहात्म्यं नैवेद्यस्य परन्तप
तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो ॥ ११ ॥

फलं ब्रूहि सुरश्रेष्ठ ब्रह्मपत्रेषु भोजनात्
नीराजनफलं स्थाणो परदीपप्रवेधनात् ॥ १२ ॥

पुष्करक्षेत्रमाहात्म्यं शूकरस्य तथा विभो
शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकम् ॥ १३ ॥

दानानां च फलं ब्रूहि परान्नस्य च वर्जनात्
मासोपवासस्य फलं खट्वाया मोक्षणाद्विभो ॥ १४ ॥

दीपावल्याश्च माहात्म्यं प्रबोधिन्याश्च सुव्रत
पञ्चभीष्मस्यमाहात्म्यं कथयस्व सुविस्तरात् ॥ १५ ॥

ईश्वर उवाच
साधु पृष्टं त्वया वत्स लोकोद्धरणहेतवे
कथयामि न सन्देहस्त्वत्समो नास्ति वैष्णवः ॥ १६ ॥

सत्पुत्रेण त्वया वत्स तारितोऽहं न संशयः
निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा ॥ १७ ॥

नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः
ससागरमही दाने तत्पुण्यं लभते हि सः ॥ १८ ॥

कार्तिकस्य च मासस्य कोट्यंशेनापि नार्हति
एकतः सर्वतीर्थानि सर्वदानानि चैकतः ॥ १९ ॥

एकतो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः
एकतः पुष्करे वासं कुरुक्षेत्रे हिमालये ॥ २० ॥

एकतो मथुरातीर्थे वाराणस्यां च शूकरे
एकतः कार्तिको वत्स सर्वदा केशवप्रियः ॥ २१ ॥

इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौ हरः
कार्तिकस्नानमाहात्म्यं कथयिष्ये सुविस्तरात् ॥ २२ ॥

ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्वयम्
द्वापरं वैश्यमित्याहुः शूद्रं कलियुगं स्मृतम् ॥ २३ ॥

कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि
तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः ॥ २४ ॥

यस्य हस्तौ च पादौ न वाङ्मनश्च सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः ॥ २५ ॥

अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः
हेतुवादी च पञ्चैते न तीर्थफलभागिनः ॥ २६ ॥

प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत्
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ॥ २७ ॥

स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिः षडानन
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम् ॥ २८ ॥

वायव्यं गोरजः स्नानं वारुणं सागरादिषु
ब्राह्म्य ब्राह्मणमन्त्रोक्तं दिव्यं मेघाम्बु भास्करम् ॥ २९ ॥

स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम्
ब्राह्मणः क्षत्रियो वैश्यो मन्त्रवत्स्नानमाचरेत् ॥ ३० ॥

तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव षडानन
बाला च तरुणी वृद्धा नरनारीनपुंसकाः ॥ ३१ ॥

पापैः सर्वैः प्रमुच्यन्ते स्नानात्कार्तिकमाघयोः
स्नाता वै कार्तिके लोकाः प्राप्नुवन्तीप्सितं फलम् ॥ ३२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीशिवषडाननसंवादे सप्तदशाधिकशततमोऽध्यायः ११७