ऋषय ऊचुः
विश्वास-प्रस्तुतिः
अस्पृश्यत्वे कथं जातः सूत बोधितरुस्त्वयम्
स्पृश्यत्वं च कथं प्राप्तस्तथा च शनिवासरे
एतद्विस्तरतः सर्वं वक्तुमर्हति नो भवान् ॥ १ ॥
मूलम्

सूत उवाच
समुद्रमथनाद्यानि रत्नान्यापुः सुरेश्वराः
श्रियं च कौस्तुभं तेषां विष्णवे प्रददुः सुराः ॥ २ ॥

यावदङ्गीचकारासौ लक्ष्मीं भार्यार्थमात्मनः
तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥ ३ ॥

लक्ष्मीरुवाच
असंस्कृत्य कथं ज्येष्ठां त्वं कनिष्ठां प्रणीयसे
तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ॥ ४ ॥

विवाह्य नय मां पश्चादेष धर्मः सनातनः ॥ ५ ॥
मूलम्
विवाह्य नय मां पश्चादेष धर्मः सनातनः ॥ ५ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः
उद्दालकाय मुनये सुदीर्घतपसे तदा ॥ ६ ॥
मूलम्
सूत उवाच
इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः
उद्दालकाय मुनये सुदीर्घतपसे तदा ॥ ६ ॥
विश्वास-प्रस्तुतिः
आत्मवाक्यानुरोधेन तामलक्ष्मीं ददौ किल
स्थूलास्यां शुभ्रदशनां राजतीं बिभ्रतीं तनुम् ॥ ७ ॥

विततां रक्तनयनां रूक्षपिङ्गशिरोरुहाम्
समुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ॥ ८ ॥

वेदध्वनिसमायुक्तमानयामास धर्मवित्
होमधूमसुगन्धाढ्यं विद्याघोषविनादितम् ॥ ९ ॥

आश्रमं तं समालोक्य व्यथिता साब्रवीदिदम्
ज्येष्ठोवाच
न हि वासोऽनुरूपोऽयं वेदध्वनियुतो मम
नात्रागमिष्ये भो ब्रह्मन्नयस्वान्यत्र मा चिरम् ॥ १० ॥

उद्दालक उवाच
कथं नायासि किंवात्र वर्त्तते सम्मतं तव
तव योग्या च वसतिः का भवेच्च वदस्व तत् ॥ ११ ॥

वेदध्वनिर्भवेद्यस्मिन्नतिथीनां च पूजनम्
यज्ञदानादिकं वापि नैव तत्र वसाम्यहम् ॥ १२ ॥

परस्परानुरागेण दाम्पत्यं यत्र वर्तते
पितृदेवार्चनं यत्र नैव तत्र वसाम्यहम् ॥ १३ ॥

दुरोदररता यत्र परद्रव्यापहारिणः
परदाररताश्चापि तत्र स्थाने रतिर्मम ॥ १४ ॥

गोवधो मद्यपानं च यत्र सञ्जायतेनिशम्
ब्रह्महत्यादिपापानि तस्मिन्स्थाने रतिर्मम
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम्
निष्ठुरं भाषणं यत्र तत्र नित्यं वसाम्यहम् ॥ १५ ॥

इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत्
उद्दालकमुनिर्विष्णोर्वाक्यं स्मृत्वा न चोचिवान् ॥ १६ ॥

सोऽगच्छद्यत्र तत्रास्य पूजामालोक्य साब्रवीत्
नायामीति ततः सोऽपि भ्रमादत्यातुरोऽभवत्
उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ॥ १७ ॥

अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि स्थीयतां क्षणम्
आवासस्थानमालोक्य यावदायाम्यहं पुनः ॥ १८ ॥

इति तत्र स संस्थाप्य जगामोद्दालकस्तदा
प्रतीक्षन्ती चिरं तत्र यदा तन्न ददर्श सा ॥ १९ ॥

तदा रुरोद करुणं भर्तृत्यागेन दुःखिता
तत्रस्थां रुदतीलक्ष्मीर्वैकुण्ठभुवनेऽशृणोत् ॥ २० ॥

तदा विज्ञापयामास विष्णुमुद्विग्नमानसा ॥ २१ ॥
मूलम्
तदा विज्ञापयामास विष्णुमुद्विग्नमानसा ॥ २१ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीरुवाच
स्वामिन्मद्भगिनी ज्येष्ठा भर्तृत्यागेन दुःखिता
तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया ॥ २२ ॥

लक्ष्म्या सह ततो विष्णुस्तत्रागच्छत्कृपान्वितः
आश्वासयदलक्ष्मीं तामिदं वचनमब्रवीत् ॥ २३ ॥

श्रीविष्णुरुवाच
अश्वत्थवृक्षमासाद्य सदाऽलक्ष्मि स्थिरा भव
ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥ २४ ॥

प्रत्यहं येऽर्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्मिणः
तेष्वियं श्रीः कनिष्ठा ते भगिनी निश्चलास्तु वै ॥ २५ ॥

इत्यूर्जस्य च माहात्म्यं ये शृण्वन्ति पठन्ति च
तेषां विष्णुपुरे वासो भवेदाभूतसम्प्लवम् ॥ २६ ॥

रोगापहं पातकनाशकृत्परं सुबुद्धिदं पुत्रधनादिसाधनम्
मुक्तेर्निदानं न हि कार्तिकाद्वै विष्णुप्रियादन्यदिहास्ति भूतले ॥ २७ ॥

विष्णुप्रियं सकलकल्मषनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि
ऊर्जव्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलनसेवया च ॥ २८ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे अलक्ष्म्युपाख्यानन्नाम षोडशाधिकशततमोऽध्यायः११६