सूत उवाच
विश्वास-प्रस्तुतिः
इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियाम्
सायंसन्ध्यादिकं कर्तुं जगाम जननीगृहम् ॥ १ ॥
मूलम्

एवं प्रभावः प्रोक्तोयं कार्तिकः पापनाशनः
विष्णुप्रियकरो नित्यं भुक्तिमुक्तिप्रदः सदा ॥ २ ॥

हरिजागरणं प्रातः स्नानं तुलसिसेवनम्
उद्यापनं दीपदानं व्रतान्येतानि कार्तिके ॥ ३ ॥

पञ्चकैर्व्रतकैरेभिः सम्पूर्णं कार्तिकव्रतम्
फलं प्राप्नोति तत्प्रोक्तं भुक्तिमुक्तिफलप्रदम् ॥ ४ ॥

ऋषय ऊचुः
विष्णोः प्रियोऽतिफलदः प्रोक्तोऽयं रोमहर्षणे
कार्तिकस्य विधिः सम्यक्पावनः पापनाशनः ॥ ५ ॥

अवश्यमेव कर्त्तव्यः प्राप्य दुःखनिवारणः
मोक्षार्थिभिर्नरः सम्यग्भोगकामैरथापिवा ॥ ६ ॥

एवं स्थिते यथाकश्चिद्व्रतस्थः सङ्कटे स्थितः
दुर्गारण्यस्थितो वापि व्याधिभिः परिपीडितः
कथं तेन प्रकर्तव्यं कार्तिकव्रतकं शुभम् ॥ ७ ॥

यस्मादत्यन्तफलदं कर्तव्यं तु यथा नरैः
तत्सर्वं कथयिष्येऽहं शृणुध्वं मुनिपुङ्गवाः ॥ ८ ॥

विष्णोः शिवस्य वा कुर्यादालये हरिजागरम्
शिवविष्णुग्रहाभावे सर्वदेवालयेष्वपि ॥ ९ ॥

दुर्गारण्यस्थितो यश्च यदि वा यद्गतो भवेत्
कुर्यात्तदाश्वत्थमूले तुलसीनां वनेष्वपि ॥ १० ॥

विष्णुनामप्रधानानां गायनाद्विष्णुसन्निधौ
गोसहस्रप्रदानस्य फलं प्राप्नोति मानवः ॥ ११ ॥

वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत्
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात् ॥ १२ ॥

सर्वमेतल्लभेत्पुण्यं तेषां तु द्रव्यदः पुमान्
प्रशंसादर्शनाभ्यां हि तत्षडंशमवाप्नुयात् ॥ १३ ॥

आपद्गतो यदाप्यम्भो न लभेत्स्नपनाय सः
व्याधितो वा पुनः कुर्याद्विष्णोर्नामापमार्जनम् ॥ १४ ॥

उद्यापनविधिं कर्तुं न शक्तो यो व्रते स्थितः
ब्राह्मणान्भोजयेच्छक्त्या व्रतसम्पूर्णहेतवे ॥ १५ ॥

यस्मादत्यन्तफलदो न त्याज्यः सर्वदा नरैः
अव्यक्तरूपिणो विष्णोः स्वरूपं ब्राह्मणा भुवि ॥ १६ ॥

तत्सन्तुष्ट्या सुसन्तुष्टः सर्वदा स्यां न संशयः
अशक्तो दीपदाने तु परदीपं प्रबोधयेत् ॥ १७ ॥

तेषां वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः
अभावे तुलसीनां तु पूजयेद्वैष्णवं द्विजम् ॥ १८ ॥

यस्मात्सन्निहितो विष्णुः स्वभक्तेष्वेव सर्वदा
सर्वाभावे व्रती कुर्याद्ब्राह्मणानां गवामपि ॥ १९ ॥

सेवां वाश्वत्थवटयोर्व्रतसम्पूर्णहेतवे ॥ २० ॥
मूलम्
सेवां वाश्वत्थवटयोर्व्रतसम्पूर्णहेतवे ॥ २० ॥
विश्वास-प्रस्तुतिः
ऋषय ऊचुः
कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ
सर्वेभ्योऽपि तरुभ्यस्तौ कस्मात्पूज्यतरौ कृतौ ॥ २१ ॥
मूलम्
ऋषय ऊचुः
कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ
सर्वेभ्योऽपि तरुभ्यस्तौ कस्मात्पूज्यतरौ कृतौ ॥ २१ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
अश्वत्थरूपी भगवान्विष्णुरेव न संशयः
रुद्ररूपी वटस्तद्वत्पालाशो ब्रह्मरूपधृक् ॥ २२ ॥

दर्शनं पूजनं सेवा तेषां पापहरा स्मृता
दुःखापद्व्याधिदुष्टानां विनाशकरणी ध्रुवम् ॥ २३ ॥

कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः
एतत्कथय सर्वज्ञ संशयोऽत्र महान्हि नः ॥ २४ ॥

पार्वतीशिवयोर्देवैः सुरतं कुर्वतोः किल
अग्निर्ब्राह्मणरूपेण प्रेषितो विघ्नकृत्पुरा ॥ २५ ॥

ततः सा पार्वती क्रुद्धा शशाप त्रिदिवौकसः
रतोत्सवसुखभ्रंशात्कम्पमाना रुषा तदा ॥ २६ ॥

पार्वत्युवाच
कृमिकीटादयोप्येते जानन्ति सुरतं सुखम्
तद्विघ्नकरणाद्देवा ह्युद्भिज्जत्वमवाप्स्यथ ॥ २७ ॥

एवं सा पार्वती देवानशपत्क्रुद्धमानसा
तस्माद्वृक्षत्वमापन्नाः सर्वे देवगणाः किल ॥ २८ ॥

तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवटौ मुनीश्वराः
बोधिस्त्वगादार्किदिने स्पृशत्वमस्पृश्यतामर्कजविष्टियोगात् ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये अश्वत्थवटप्रशंसनन्नाम पञ्चदशाधिकशततमोऽध्यायः ११५