श्रीकृष्णोवाच
विश्वास-प्रस्तुतिः
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत्
प्रदर्शयिष्यंस्तान्सर्वान्यमस्यानुचरस्तदा ॥ १ ॥
मूलम्

प्रेतप उवाच
पश्येमान्निरयान्घोरान्धनेश्वर महाभयान्
येषु पापकरा नित्यं पच्यन्ते यमकिङ्करैः ॥ २ ॥

तप्तवालुकनामायं निरयो घोरदर्शनः
यस्मिन्नेते दग्धदेहाः क्रन्दन्ते पापकारिणः ॥ ३ ॥

अतिथीन्वैश्वदेवान्ते क्षुत्क्षामानागतान्गृहे
ये नार्चन्ति नरास्ते हि पच्यन्ते स्वेन कर्मणा ॥ ४ ॥

गुर्वग्निब्राह्मणान्देवांस्तथा मूर्द्धाभिषिक्तकान्
ताडयन्ति पदा ये वै ते निर्दग्धाङ्घ्रयस्त्विमे ॥ ५ ॥

षड्भेदस्त्वेषनिरयो नानापापैः प्रपद्यते
तथैव चान्धतामिस्रो द्वितीयो निरयो महान् ॥ ६ ॥

पश्य सूचीमुखैर्देहो भिद्यते पापकर्मणा
क्रिमिभिर्घोरवक्त्रैश्च तत्सम्पर्कागमैर्द्विज ॥ ७ ॥

असावपि स्थितः षोढा श्वकाकमृगपक्षिभिः
परमर्मभिदो मर्त्याः पच्यन्ते तेषु पापिनः ॥ ८ ॥

तृतीयः क्रकचो ह्येष निरयो घोरदर्शनः
यत्रेमे क्रकचैर्मर्त्याः पाट्यन्ते पापकारिणः ॥ ९ ॥

असिपत्रवनाद्यैस्तु षट्प्रकारो व्यवस्थितः
पत्नीपुत्रादिभिर्ये वै वियोगं कारयन्ति हि ॥ १० ॥

इष्टैरन्यैरपि परान्पच्यन्ते त इमे नराः
असिपत्रैश्छिद्यमाना छेदभीत्या पलायिताः ॥ ११ ॥

पच्यन्ते पापिनः पश्य क्रन्दमाना इतस्ततः
अर्गलाख्यो महाघोरश्चतुर्थो निरयो ह्ययम् ॥ १२ ॥

पश्य नानाविधैः पाशैराबध्य यमकिङ्करैः
मुद्गराद्यैर्वध्यमानाः क्रन्दन्ते ते च पापिनः ॥ १३ ॥

सज्जनान्ब्राह्मणाद्यांश्च विरुन्धन्तीह ये नराः
कण्ठग्रहाद्यैस्ते पापाः पच्यन्ते यमकिङ्करैः ॥ १४ ॥

असावपि हि षड्भेदो वधभेदादिभिः स्थितः
कूटशाल्मलिनामानं निरयं पश्य पञ्चमम् ॥ १५ ॥

यत्राङ्गारनिभा एते शाल्मल्याद्याः स्थिता द्विज
यत्र षोढा विपच्यन्ते यातनाभिरिमे नराः ॥ १६ ॥

परदारा परद्रव्य परद्रोह रताः सदा
रक्तपूयमिमं पश्य षष्ठं निरयमद्भुतम् ॥ १७ ॥

अधोमुखा विपच्यन्ते यत्र पापकृतो नराः
अभक्ष्यभक्षका निन्दा पैशुन्यादि रता इमे ॥ १८ ॥

भज्यमाना वध्यमानाः क्रन्दन्ते भैरवान्स्वरान्
षट्प्रकारैर्विगन्धाढ्यैरसावपि च संस्थितः ॥ १९ ॥

कुम्भीपाकः सप्तमोऽयं निरयो घोरदर्शनः
षोढास्तैलादिभिर्द्रव्यैर्धनेश्वर विलोकय ॥ २० ॥

महापातकिनो यत्र क्वथ्यन्ते यमकिङ्करैः
बहून्यब्दसहस्राणि सोन्मज्जननिमज्जनैः ॥ २१ ॥

चत्वारिंशन्मितानेतान्द्व्यधिकान्पश्य रौरवान्
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ॥ २२ ॥

आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्
चतुरशीतिसङ्ख्याकैः पृथग्भेदैरवस्थितान् ॥ २३ ॥

यत्प्रकीर्णमपाङ्क्तेयं मलिनीकरणं तथा
ज्ञातिभ्रंशकरं तद्वदुपपातकसञ्ज्ञकम् ॥ २४ ॥

अतिपापं महापापं सप्तधा पातकं स्मृतम्
एभिः सप्तसु पच्यन्ते निरयेषु यथाक्रमम् ॥ २५ ॥

कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव
तत्पुण्योपचयादेते निर्हृता निरयाः खलु ॥ २६ ॥

श्रीकृष्ण उवाच
दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत्
धनेश्वरं यक्षलोकं पश्चादासीत्स तत्र हि ॥ २७ ॥

धनदस्यानुगः सोऽयं धनयक्षेति स स्मृतः
यदाख्यायाकरोत्तीर्थमयोध्यायां तु गाधिजः ॥ २८ ॥

एवं प्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो मुक्तिकरश्च यस्मात्
प्रयात्यनेकार्जितपातकोऽपि व्रतस्थसन्दर्शनतोऽपि मुक्तिम् ॥ २९ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये धनेश्वरोपाख्याने चतुर्दशाधिकशततमोऽध्यायः ११४