११३

श्रीकृष्ण उवाच

विश्वास-प्रस्तुतिः

पुरावन्तीपुरे वासी विप्र आसीद्धनेश्वरः
ब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मतिः ॥ १ ॥

मूलम्

रसकम्बलचर्मादि विक्रयानृतवर्त्तनः
स्तेयवेश्यासुरापानद्यूतसंसक्तमानसः ॥ २ ॥

देशाद्देशान्तरं गच्छन्क्रयविक्रयकारणात्
माहिष्मतीं पुरीं यातः कदाचित्स धनेश्वरः ॥ ३ ॥

महिषेण कृता पूर्वं तस्मान्माहिष्मतीभवत्
यस्यां वप्रतटाभाति नर्मदा पापनाशिनी ॥ ४ ॥

कार्तिकव्रतिनस्तत्र नानाग्रामागतान्नरान्
स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास ह ॥ ५ ॥

स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात्
ददर्श ब्राह्मणान्स्नातान्जपदेवार्चनेरतान् ॥ ६ ॥

कांश्चित्पुराणं पठतः कांश्चित्तच्छ्रवणे रतान्
नृत्यगायनवादित्रविष्णुस्तवनतत्परान् ॥ ७ ॥

विष्णुमुद्राङ्कितान्कांश्चिन्मालातुलसिधारिणः
ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः ॥ ८ ॥

नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात्
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ॥ ९ ॥

एवं मासं स्थितःसोऽथ कार्तिकोद्यापने विधौ
क्रियमाणे ददर्शासौ भक्तैर्जागरणं हरेः ॥ १० ॥

पौर्णमास्यां ततोऽपश्यद्विविधं पूजनादिकम्
दक्षिणा भोजनाद्यं च दीपदानं व्रतस्थितैः ॥ ११ ॥

ततोऽर्कास्तमये चैवं दीपोत्सवविधिं तदा
क्रियमाणं ददर्शासौ प्रीत्यर्थं त्रिपुरद्विषः ॥ १२ ॥

त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तु
अतस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवः
मम रुद्रस्य यः कश्चिदन्तरं परिकल्पयेत् ॥ १३ ॥

तस्य पुण्यक्रियाः सर्वा निष्फलाः स्युर्न संशयः
तत्र नृत्यादिकं पश्यन्बभ्राम स धनेश्वरः
तावत्कृष्णाहिना दष्टो विकलः स पपात ह
जनास्तम्पति तं वीक्ष्य परिवव्रुः कृपान्विताः ॥ १४ ॥

तुलसीमिश्रितैस्तोयैस्तन्मुखं सिषिचुस्तदा
अथ देहे परित्यक्ते तं बद्ध्वा यमकिङ्कराः ॥ १५ ॥

बाध्यमानं कशाघातैर्निन्युः संयमिनीं रुषा
चित्रगुप्तस्तु तं दृष्ट्वा निर्भर्त्स्यावेदयत्तदा ॥ १६ ॥

यमायतेन बाल्यात्तु कर्म यद्दुष्कृतं कृतम्
चित्रगुप्त उवाच
नैवास्य दृश्यते किञ्चिदाबाल्यात्सुकृतं क्वचित् ॥ १७ ॥

दुष्कृतं शक्यते वक्तुं शतवर्षैर्न भास्करे
पापमूर्तिरयं दुष्टः केवलं दृश्यते विभो ॥ १८ ॥

तस्मादाकल्पमर्यादं निरये परिपाच्यताम्
श्रीकृष्ण उवाच
निशम्येत्थं वचः क्रोधाद्यमः प्राह स्वकिङ्करान् ॥ १९ ॥

दर्शयन्नात्मनोरूपं कालाग्निसदृशप्रभम्
यम उवाच
भो प्रेतापनयस्वैनं बध्यमानं स्वमुद्गरैः ॥ २० ॥

कुम्भीपाके क्षिपस्वाशु तैलक्वथनशब्दिते
यावत्क्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ ॥ २१ ॥

कुम्भीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा
तद्दृष्ट्वा महदादश्चर्यं प्रेतपो विस्मयान्वितः ॥ २२ ॥

वेगादागत्य तत्सर्वं यमायाकथयत्तदा
यमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् ॥ २३ ॥

आः किमेतदिति प्रोच्य सम्यगेतद्विचारयत्
तावदभ्यागतस्तत्र नारदः प्रहसंस्त्वरन् ॥ २४ ॥

यमेन पूजितः सम्यक्तं दृष्ट्वा वाक्यमब्रवीत्
नारद उवाच
नैवायं निरयान्भोक्तुं क्षमः सवितृनन्दन ॥ २५ ॥

यस्मादेतस्य सञ्जातं कर्म यन्निरयापहम्
यः पुण्यकर्मणां कुर्याद्दर्शनस्पर्शभाषणम् ॥ २६ ॥

तत्षडंशमवाप्नोति पुण्यस्य नियतं नरः
असङ्ख्यातैस्तुसंसर्गैः कृतवानेष यद्धरेः ॥ २७ ॥

कार्तिकव्रतिभिर्मासं तस्मात्पुण्यांशभागयम्
परिचर्याकरस्तेषां सम्पूर्णव्रतपुण्यभाक् ॥ २८ ॥

अतोऽस्योर्जव्रतोद्भूतपुण्यसङ्ख्या न विद्यते
कार्त्तिकव्रतिनां पुंसां पातकानि महान्त्यपि ॥ २९ ॥

नाशयत्येव सर्वाणि विष्णुः सद्भक्तवत्सलः
अन्ते तन्नामभिस्तोयैस्तुलसीमिश्रितैस्त्वयम् ॥ ३० ॥

वैष्णवानुग्रही यस्मान्नरके नैव पच्यते
तस्मान्निहतपापोऽयं सद्गतिं यातुमर्हति ॥ ३१ ॥

आर्द्रैः शुष्कैर्यथापापैर्निरये भोगसन्निधिः
प्राप्यते सुकृतैस्तद्वत्स्वर्गभोगस्य सन्निधिः ॥ ३२ ॥

तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौ
विलोक्य नरकान्सर्वान्पापभोगमवाप्नुयात् ॥ ३३ ॥

मूलम्

तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौ
विलोक्य नरकान्सर्वान्पापभोगमवाप्नुयात् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्ण उवाच
इत्युक्त्वा गतवति नारदेऽथ सौरिस्तद्वाक्यश्रवणविबुद्ध तत्सुकर्मा
विप्रं तं पुनरनयत्स्वकिङ्करेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ॥ ३४ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्त्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३