श्रीकृष्ण उवाच
विश्वास-प्रस्तुतिः
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः
सम्पूज्य नारदं भक्त्या विससर्ज तदा प्रिये ॥ १ ॥
मूलम्

तस्माद्व्रतत्रयं ह्येतन्ममातीवप्रियङ्करम्
माघकार्तिकयोस्तद्वत्तथैवैकादशीव्रतम् ॥ २ ॥

वनस्पतीनां तुलसी मासानां कार्तिकः प्रियः
एकादशी तिथीनां च क्षेत्राणां द्वारका मम ॥ ३ ॥

एतेषां सेवनं यस्तु करोति च जितेन्द्रियः
स मे वल्लभतां याति न तथा यजनादिभिः ॥ ४ ॥

पापेभ्यो न भयं तेन कर्त्तव्यं नियमादपि
एतेषां सेवनं कान्ते कुर्वता मत्प्रसादतः ॥ ५ ॥

सत्यभामोवाच
विस्मापनीयं तन्नाथ यत्त्वया कथितं मम
परदत्तेन पुण्येन कलहा मुक्तिमागता ॥ ६ ॥
मूलम्
सत्यभामोवाच
विस्मापनीयं तन्नाथ यत्त्वया कथितं मम
परदत्तेन पुण्येन कलहा मुक्तिमागता ॥ ६ ॥
विश्वास-प्रस्तुतिः
इत्थं प्रभावो मासोऽयं कार्त्तिकस्ते प्रियङ्करः
स्वामिद्रोहादिपापानि स्नानदानैर्गतानि यत् ॥ ७ ॥

दत्तं च लभते पुण्यं यत्परेण कृतं विभो
अदत्तं केन मार्गेण लभते चापि मानवः ॥ ८ ॥
मूलम्
दत्तं च लभते पुण्यं यत्परेण कृतं विभो
अदत्तं केन मार्गेण लभते चापि मानवः ॥ ८ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच
अदत्तान्यपि पुण्यानि पापानि च यथा नरैः
प्राप्यन्ते कर्मणा येन तद्यथावन्निशामय ॥ ९ ॥

देशग्रामकुलानि स्युर्भागभाञ्जि कृतादिषु
कलौ तु केवलं कर्त्ता फलभुक्पुण्यपापयोः ॥ १० ॥

अकृतेऽपि हि संसर्गे व्यवस्थेयमुदाहृता
संसर्गात्पुण्यपापानि यथा यान्ति निबोध तत् ॥ ११ ॥

एकत्रमैथुनाद्यानादेकपात्रस्थभोजनात्
फलार्द्धं प्राप्नुयान्मर्त्यो यथावत्पुण्यपापयोः ॥ १२ ॥

अध्यापनाद्याजनाद्वाप्येकपङ्क्त्यशनादपि
तुर्यांशं पुण्यपापानां नित्यं प्राप्नोति मानवः ॥ १३ ॥

एकासनादेकयानान्निःश्वासस्याङ्गसङ्गतः
षडंशं फलभागी स्यान्नयतं पुण्यपापयोः ॥ १४ ॥

स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः ॥ १५ ॥

दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः ॥ १६ ॥

परस्य निन्दां पैशुन्यं धिक्कारं च करोति यः
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः ॥ १७ ॥

कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः ॥ १८ ॥

तस्य सेवानुरूपेण द्रव्यं किञ्चिन्न दीयते
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत्
एकपङ्क्त्यश्नतां यस्तु लङ्घयेत्परिवेषणम् ॥ १९ ॥

तस्य पापषडंशं तु लभेद्वै परिवेषकः
स्नानसन्ध्यादिकं कुर्वन्यः स्पृशेद्वा प्रभाषते ॥ २० ॥

स पुण्यकर्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम्
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः ॥ २१ ॥

तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम्
अपहृत्य परद्रव्यं पुण्यकर्म करोति यः ॥ २२ ॥

कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम्
नापनुद्य ऋणं यस्तु परस्य म्रियते नरः ॥ २३ ॥

धनी तत्पुण्यमाधत्ते स्वधनस्यानुरूपतः
बुद्धिदस्त्वनुमन्ता च यश्चोपकरणप्रदः ॥ २४ ॥

बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ॥ २५ ॥

शिष्याद्गुरुः स्त्रियो भर्त्ता पितापुत्रात्तथैव च
स्वपतेरपि पुण्यस्य योषिदर्द्धमवाप्नुयात् ॥ २६ ॥

चित्तस्यानुव्रता शश्वद्वर्तते तुष्टिकारिणी
परहस्तेन दानादि कुर्वतः पुण्यकर्मणि ॥ २७ ॥

विना भृतकपुत्राभ्यां कर्त्ता षष्ठांशमुद्धरेत्
वृत्तिदो वृत्तिसम्भोक्तुः पुण्यमष्टांशमुद्धरेत् ॥ २८ ॥

आत्मनो वा परस्यापि यदि सेवां न कारयेत् ॥ २९ ॥
मूलम्
आत्मनो वा परस्यापि यदि सेवां न कारयेत् ॥ २९ ॥
विश्वास-प्रस्तुतिः
श्रीकृष्ण उवाच
इत्थं ह्यदत्तान्यपि पुण्यपापान्या यान्ति नित्यं परसञ्चितानि
शृणुष्व चेमं इतिहासमग्र्यं पुराभवं पुण्यमतिप्रदं च ॥ ३० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुण्यपापांशकथनन्नाम द्वादशाधिकशततमोऽध्यायः ११२