१११

पृथुरुवाच

विश्वास-प्रस्तुतिः

कृष्णवेण्यातटाद्यस्मात्शिवविष्णुगणैः पुरा
वणिक्शरीरात्कलहा निर्मिता कथिता त्वया ॥ १ ॥

मूलम्

प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा
तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम ॥ २ ॥

नारद उवाच
कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः
तत्सङ्गमप्रभावं तु नालं वक्तुं चतुर्मुखः ॥ ३ ॥

तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु
चाक्षुषस्यान्तरे पूर्वं मनोर्देवः पितामहः ॥ ४ ॥

सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत्
स कृत्वा यज्ञसम्भारान्सर्वदेवगणैर्वृतः ॥ ५ ॥

युक्तो हरिहराभ्यां च तद्गिरेः शिखरं ययौ
भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते ॥ ६ ॥

तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे
अथ ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयत द्विजैः ॥ ७ ॥

साशनैराययौ तावद्भृगुर्विष्णुमुवाच ह
भृगुरुवाच
विष्णो स्वरा त्वयाहूता आयाति न हि सत्वरा ॥ ८ ॥

मुहूर्त्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम्
विष्णुरुवाच
नायाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम् ॥ ९ ॥

एषापि न भवत्यस्य भार्या किं पुण्यकर्मणि
नारद उवाच
एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदत ॥ १० ॥

तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा
निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ॥ ११ ॥

यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्विधानतः
तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप ॥ १२ ॥

ततस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह
सपत्नीर्षापरा क्रोधात्स्वरा वचनमब्रवीत् ॥ १३ ॥

स्वरोवाच
अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः
त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥ १४ ॥

ममासने कनिष्ठेयं भवद्भिः सन्निवेशिता
तस्मात्सर्वे जडीभूता नानारूपा भविष्यथ ॥ १५ ॥

इदं च दक्षिणेभागे ह्युपविष्टा मदासने
तस्माल्लोकैः सदाऽदृश्या तनुर्वहतु निम्नगा ॥ १६ ॥

ततस्तच्छापमाकर्ण्य गायत्री कम्पिता तदा
समुत्थायाशपद्देवैर्वार्यमाणापि तां स्वराम् ॥ १७ ॥

तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु
वृथाशपस्त्वं यस्मान्मां भव त्वमपि निम्नगा ॥ १८ ॥

ततो हाहाकृताः सर्वे शिवविष्णुमुखाः सुराः
तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् ॥ १९ ॥

देवा ऊचुः
देवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाधुना
यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः ॥ २० ॥

तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम्
अविवेकः कृतस्तस्माच्छापोऽयं विनिवर्त्यताम् ॥ २१ ॥

नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः
तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु ॥ २२ ॥

नापि मद्वचनं ह्येतदसत्यं जायते खलु
तस्मात्स्वांशैर्जडीभूता यूयं भवत निम्नगाः ॥ २३ ॥

आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे
भविष्यावोऽत्र वै देवाः पश्चिमाभिमुखावहे ॥ २४ ॥

इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः
जडीभूताभवन्नद्यः स्वांशैरेव तदा नृप ॥ २५ ॥

तत्र विष्णुरभूत्कृष्ण वेण्या देवो महेश्वरः
ब्रह्मा ककुद्मिनीगङ्गा पृथगेवाभवत्तदा ॥ २६ ॥

देवा स्वानपितानंशान्जडीकृत्वा विचक्षणाः
सह्याद्रिशिखरेभ्यस्ताः पृथगासन्सुनिम्नगाः ॥ २७ ॥

देवांशैः पूर्ववाहिन्यो बभूवुः सरितां वराः
गायत्री च स्वरा चैव पश्चिमाभिमुखे तदा ॥ २८ ॥

योगेनाभवतां नद्यौ सावित्रीति प्रथां गते
ब्रह्मणा स्थापितौ तत्र यज्ञे हरिहरावुभौ ॥ २९ ॥

महाबलातिबलिनौ नाम्ना देवौ बभूवतुः
तयोर्नद्योस्तु माहात्म्यं नाहं वक्तुं क्षमो नृप
ययुर्ब्रह्मादयो देवाः स्वांशैस्तिष्ठन्ति चापगाः ॥ ३० ॥

कृष्णोद्भवं पापहरं परं यः शृणोति यः श्रावयते च भक्त्या
स्यात्तस्य पुण्या सकलाक्रियापि तद्दर्शनस्नानसमुद्भवं फलम् ॥ ३१ ॥

इति श्रीपाद्मेमहापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये सत्य भामासंवादेकृष्णावेण्यामाहात्म्यवर्णनोनाम एकादशाधिकशततमोऽध्यायः १११