११०

धर्मदत्त उवाच

विश्वास-प्रस्तुतिः

जयश्च विजयश्चैव विष्णोर्द्वास्थौ मया श्रुतौ
किन्तु ताभ्यां पुरा चीर्णं यस्मात्तद्रूपधारिणौ ॥ १ ॥

मूलम्

गणावूचतुः
तृणबिन्दोस्तु कन्यायां देवहूत्यां पुरा द्विज
कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ सम्बभूवतुः ॥ २ ॥

ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चेति नामतः
अन्यस्यामभवत्पश्चात्कपिलो योगधर्मवित् ॥ ३ ॥

जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा
सन्नियम्येन्द्रियग्रामं धर्मशीलौ बभूवतुः ॥ ४ ॥

नित्यमष्टाक्षरी जाप्यौ विष्णुव्रतकरावुभौ
साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा ॥ ५ ॥

मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि
जग्मतुर्यज्ञकुशलौ देवर्षिगणसेवितौ ॥ ६ ॥

मूलम्

मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि
जग्मतुर्यज्ञकुशलौ देवर्षिगणसेवितौ ॥ ६ ॥

विश्वास-प्रस्तुतिः

जयस्तत्राभवद्ब्रह्मा याजको विजयोऽभवत्
ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः ॥ ७ ॥

मरुतोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु
तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति ॥ ८ ॥

यजनाय तदा विष्णोस्तुष्ट्यर्थं तौ तदा मुने
तद्धनं विभजन्तो वै पस्पर्द्धाते परस्परम् ॥ ९ ॥

जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः
विजयश्चाब्रवीत्तत्र यल्लब्धं येन तस्य तत् ॥ १० ॥

ततो जयोऽशपत्क्रोधाद्विजयं क्षुब्धमानसः
गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम् ॥ ११ ॥

विजयस्तस्य तं शापं श्रुत्वा सोऽप्यशपच्च तम्
मदभ्रान्तोशपद्यस्मात्तस्मान्मातङ्गतां व्रज ॥ १२ ॥

तौ तथा चख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम्
शापयोस्तुनिवृत्तिं तौ ययाचाते रमापतिम् ॥ १३ ॥

भक्तावावां कथं देव ग्राहमान्तगयोनिगौ
भविष्यावः कृपासिन्धो तच्छापो विनिवर्त्यताम् ॥ १४ ॥

श्रीभगवानुवाच
मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति
मयापि नान्यथा कर्तुं शक्यते तत्कदाचन ॥ १५ ॥

प्रह्लादवचनात्स्तम्भऽप्याविर्भूतो ह्यहं पुरा
तथाम्बरीषवाक्येन जातो मार्गे स्वयं किल ॥ १६ ॥

तस्माद्ध्रुवमिमौ शापावनुभूय स्वयङ्कृतौ
लभेतां मत्पदं नित्यमित्युक्त्वान्तर्दधे हरिः ॥ १७ ॥

ततस्तौ ग्राहमातङ्गा बभूतां गण्डकी तटे
जातिस्मरौ च तद्योन्यामपि विष्णुव्रते स्थितौ ॥ १८ ॥

कदाचित्स गजः स्नातुं कार्तिके गण्डकीं गतः
तावज्जग्राह च ग्राहः संस्मरञ्छापकारणम् ॥ १९ ॥

ग्राहगृहीतोऽसौ नागः संस्मार श्रीपतिं तदा
तावदाविरभूद्विष्णुः शङ्खचक्रगदाधरः ॥ २० ॥

तॄतस्तौ ग्राहमातङ्गौ चक्रं क्षिप्त्वा समुद्धृतौ
दत्त्वा च निजसारूप्यं वैकुण्ठमनयद्विभुः ॥ २१ ॥

तदाप्रभृति तत्स्थानं हरिक्षेत्रमिति श्रुतम्
चक्रसङ्घर्षणाद्यस्मिन्पाषाणोऽपि हि लाञ्छितः ॥ २२ ॥

ताविमौ विश्रुतौ लोके जयश्च विजयश्च ह
नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज ॥ २३ ॥

अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः
त्यक्तमात्सर्यदम्भो हि भव स्वसमदर्शनः ॥ २४ ॥

तुलामकरमेषेषु प्रातःस्नायी सदा भव
एकादशीव्रते तिष्ठ तुलसीवनपालकः ॥ २५ ॥

मूलम्

तुलामकरमेषेषु प्रातःस्नायी सदा भव
एकादशीव्रते तिष्ठ तुलसीवनपालकः ॥ २५ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणानपि गाश्चापि वैष्णवांश्च सदा भज
मसूराश्चारनालाश्च वृन्ताकानपि खाद मा ॥ २६ ॥

एवं त्वमपि देहान्ते तद्विष्णोः परमं पदम्
प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम् ॥ २७ ॥

तवाजन्मव्रतात्तस्माद्विष्णुसन्तुष्टिकारकात्
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै ॥ २८ ॥

धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
यत्पुण्यभागाप्तफलं मुरारेः प्रणीयतेस्माभिरियं सलोकताम् ॥ २९ ॥

नारद उवाच
इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ
तया कलहया सार्द्धं वैकुण्ठभवनं गतौ ॥ ३० ॥

धर्मदत्तोप्यसौ जातप्रत्ययस्तद्व्रते स्थितः
देहान्ते तद्विभोः स्थानं भार्याभ्यामन्वितोऽभ्यगात् ॥ ३१ ॥

इतिहासमिमं पुराभवं शृणुते यश्च पुमान्यथाविधि
हरिसन्निधिकारिणीं मतिं लभतेऽसौ कृपया जगद्गुरोः ॥ ३२ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तर
खण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने गणपूर्वपुण्यवर्णनोनाम दशाधिशततमोऽध्यायः११०