१०९

गणावूचतुः

विश्वास-प्रस्तुतिः

कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विजः
पाककर्माकरोद्यावदहरत्कोप्यलक्षितः ॥ १ ॥

मूलम्

तमदृष्ट्वाप्यसौ पाकं पुनर्नैवाकरोत्तदा
सायङ्कालार्चनस्यासौ व्रतभङ्गभयाद्द्विजः ॥ २ ॥

द्वितीयेऽह्नि ततः पाकं कृत्वा यावत्स विष्णवे
उपहारार्पणं कर्तुं तावत्कोप्यहरत्पुनः ॥ ३ ॥

एवं सप्तदिनं तस्य पाकं कोप्यहरद्द्विज
जातः सविस्मयः सोऽथ मनस्येव व्यचारयत् ॥ ४ ॥

अहो नित्यं समभ्येत्य कः पाकं हरते मम
क्षेत्रसन्न्यासिनां स्थानमत्याज्यं सर्वथा मया ॥ ५ ॥

पुनः पाकं विधायात्र भुज्यते यदि चेन्मया
सायङ्कालार्चनं चैतत्परित्याज्यं कथं मया ॥ ६ ॥

किञ्चित्पाकं विधायैतद्भोक्तव्यं तु मया नहि
अनिर्वेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते ॥ ७ ॥

उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रतस्थितः
अद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम् ॥ ८ ॥

इति पाकं विधायासौ तत्रैवालक्षितः स्थितः
तावद्ददर्श चाण्डालं पाकान्नहरणे स्थितम् ॥ ९ ॥

क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम्
तमालोक्य द्विजाग्र्योभूत्कृपयापन्नमानसः ॥ १० ॥

विलोक्यान्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत
कथमत्ति भवान्रूक्षं घृतमेतद्गृहाण भोः ॥ ११ ॥

इत्थं ब्रुवन्तं विप्राग्र्यं आयान्तं च विलोक्य सः
वेगादधावत्तद्भीत्या मूर्च्छितश्च पपात ह ॥ १२ ॥

भीतं तं मूर्च्छितं दृष्ट्वा चाण्डालं स द्विजोत्तमः
वेगादभ्येत्य कृपया स्ववस्त्रान्तैरवीजयत् ॥ १३ ॥

अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत्
साक्षान्नारायणं देवं शङ्खचक्रगदाधरम् ॥ १४ ॥

पीताम्बरं चतुर्बाहुं श्रीवत्साङ्कं किरीटिनम्
अतसीपुष्पसङ्काशं कौस्तुभोरःस्थलं विभुम् ॥ १५ ॥

तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमः
स्तोतुं चापि नमस्कर्तुं तदानालं बभूव सः ॥ १६ ॥

अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा
गन्धर्वाप्सरसश्चापि जगुश्च ननृतुर्मुदा ॥ १७ ॥

विमानशतसङ्कीर्णं देवर्षिगणसङ्कुलम्
गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ॥ १८ ॥

ततो विष्णुः समालिङ्ग्य स्वभक्तं सात्विकं तथा
सायुज्यमात्मनो दत्त्वानयद्वैकुण्ठमन्दिरम् ॥ १९ ॥

विमानवरसंस्थानमास्थितं विष्णुसन्निधौ
दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श ह ॥ २० ॥

वैकुण्ठभवनं यान्तं विष्णुदासं विलोक्य सः
स्वगुरुं मुद्गलं वेगादाह्वयेत्थं वचोऽब्रवीत् ॥ २१ ॥

चोल उवाच
यत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम्
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमन्दिरम् ॥ २२ ॥

दीक्षितेन मया सम्यक्सत्रेऽस्मिन्विष्णवे त्वया
हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः ॥ २३ ॥

नैवाद्यापि समे देवः प्रसन्नो जायते ध्रुवम्
भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः ॥ २४ ॥

तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति
भक्तिरेव परं तस्य निदानं दर्शने विभोः ॥ २५ ॥

इत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासने
आबाल्याद्दीक्षितो यज्ञे सा पुत्रत्वमगाद्यतः ॥ २६ ॥

तस्मादद्यापि तद्देशे सदा राज्यांशभागिनः
स्वस्रेया एव जायन्ते तत्कृताचारवर्तिनः ॥ २७ ॥

यज्ञवाटं ततोऽभ्येत्य वह्निकुण्डाग्रतः स्थितः
त्रिरुच्चैर्व्याजहाराशु विष्णुं सम्बोधयंस्तदा ॥ २८ ॥

विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिः
इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥ २९ ॥

मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम्
ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखाभवन् ॥ ३० ॥

तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः
तमालिङ्ग्य विमानाग्र्यं समारोहयदच्युतः ॥ ३१ ॥

तमालिङ्ग्यात्मसारूप्यं दत्त्वा वैकुण्ठमन्दिरम्
तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ॥ ३२ ॥

नारद उवाच
यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशील नामा
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥ ३३ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानन्नाम नवाधिकशततमोऽध्यायः १०९