नारद उवाच
विश्वास-प्रस्तुतिः
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः
प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह ॥ १ ॥
मूलम्

धर्मदत्त उवाच
आराधयन्ति सर्वेऽपि विष्णुं भक्तार्त्तिनाशिनम्
यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि ॥ २ ॥

विष्णुप्रीतिकरं तेषां विष्णुसान्निध्यकारकम्
यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवन्ति हि ॥ ३ ॥

गणावूचतुः
साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः
सेतिहासां कथां विप्र कथ्यमानां पुराभवाम् ॥ ४ ॥

कान्तिपुर्यां पुरा चोल चक्रवर्त्ती नृपोऽभवत्
यस्य नाम्ना च ते देशाश्चोलाख्या अभवन्किल ॥ ५ ॥

यस्मिन्शासति भूचक्रं दरिद्रो नैव दुःखितः
पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः ॥ ६ ॥

यस्याप्यत्यन्तयज्ञस्य ताम्रपर्णी तटावुभौ
सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ ॥ ७ ॥

स कदाचिदगाद्राजा ह्यनन्तशयनं द्विज
यत्रासौ जगतां नाथो योगनिद्रामुपासते ॥ ८ ॥

तत्र श्रीरमणं देवं सम्पूज्य विधिवन्नृपः
मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः ॥ ९ ॥

प्रणम्य दण्डवद्यावदुपविष्टः स तत्र वै
तावद्ब्राह्मणमायां तमपश्यद्देवसन्निधौ ॥ १० ॥

देवार्चनार्थमायान्तं तुलस्युदकपाणिनम्
स्वपुरीवासिनं तत्र विष्णुदासा वयं द्विजम् ॥ ११ ॥

तत्राभ्येत्य स विप्रर्षिर्देवदेवमपूजयत्
विष्णुसूक्तेन संस्नाप्य तुलसीमञ्जरीदलैः ॥ १२ ॥

तुलसीपूजया तस्य रत्नपूजां तथा कृताम्
आच्छादितां समालोक्य राजा क्रुद्धोऽब्रवीद्वचः ॥ १३ ॥

राजोवाच
माणिक्यस्वर्णपूजात्र शोभाढ्या या मया कृता
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः ॥ १४ ॥

विष्णुभक्तिं न जानासि वराकोऽसि मतो मम
यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो ॥ १५ ॥

इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः
राज्ञो गौरवमुल्लङ्घ्य जगाद वचनं तदा ॥ १६ ॥

विष्णुदास उवाच
राजन्मुक्तिं न जानासि गर्वितोऽसि नृपश्रिया
किंस्विद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत् ॥ १७ ॥

तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः
विष्णुदासं तदा गर्वादुवाच वचनं द्विज ॥ १८ ॥

इत्थं चेत्कथ्यसे विप्र विष्णुभक्त्यातिगर्वितः
भक्तिस्ते कियतीविष्णोर्दरिद्रस्याधनस्य च ॥ १९ ॥

यज्ञदानादिकं चैव विष्णुतुष्टिकरं कृतम्
नापि देवालयं पूर्वं त्वया विप्र क्वचित्कृतम् ॥ २० ॥

ईदृशस्यापि ते गर्व एष तिष्ठति भक्तितः
तच्छृण्वन्तु वचो मेऽद्य सर्वेप्येते द्विजोत्तमाः ॥ २१ ॥

साक्षात्कारमहं विष्णोरेष वादो गमिष्यति
यथा तु सर्वेऽपि ततो भक्तिं ज्ञास्यथ चावयोः ॥ २२ ॥

इत्युक्त्वा स नृपो गच्छन्निजं राजगृहं द्विजः
आरेभे वैष्णवं सत्रं कृत्वाचार्यं तु मुद्गलम् ॥ २३ ॥

ऋषिसङ्घसमाजुष्टं बभूव बहुदक्षिणम्
यद्वद्ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत् ॥ २४ ॥

विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती
पञ्चैतान्नियमान्कृत्वा विष्णुतुष्टिकरान्सदा ॥ २५ ॥

माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम्
एकादशीव्रतं जाप्यं द्वादशाक्षरविद्यया ॥ २६ ॥

उपचारैः षोडशभिर्गीतनृत्यादिमङ्गलैः
नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् ॥ २७ ॥

नित्यं संस्मरणं विष्णोर्गच्छन्भुञ्जन्स्वपन्नपि
सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः ॥ २८ ॥

माघकार्तिकयोर्नित्यं विशेषनियमानपि
अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा ॥ २९ ॥

एवं समाराधयतोः श्रियः पतिं तयोस्तु चोलेश्वरविष्णुदासयोः
अगादनेहा बहु तद्व्रतस्थयोस्तन्निष्ठकर्मेन्द्रियकर्मणोस्तयोः ॥ ३० ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने अष्टाधिकशततमोऽध्यायः १०८