धर्मदत्त उवाच
विश्वास-प्रस्तुतिः
विलयं यान्ति पापानि तीर्थदानव्रतादिभिः
प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता ॥ १ ॥
मूलम्

त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम्
नैव निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम् ॥ २ ॥

पातकं च तवात्युग्रं योनित्रयविपाकदम्
नैवान्यैः क्षीयते पुण्यैः प्रेतत्वं चातिगर्हितम् ॥ ३ ॥

तस्मादाजन्मजनितं यन्मया कार्तिकव्रतम्
तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि ॥ ४ ॥

कार्तिकव्रतपुण्येन न साम्यं यान्ति सर्वथा
यज्ञदानानि तीर्थानि व्रतान्यपि यतो ध्रुवम् ॥ ५ ॥

नारद उवाच
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत्
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम् ॥ ६ ॥

तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा
दिव्यवपुर्धरा जाता लावण्याद्भासिता दिशः ॥ ७ ॥

ततः सा दण्डवद्भूमौ प्रणनामाथ तं द्विजम्
उवाच च तदा वाक्यं हर्षगद्गदभाषिणी ॥ ८ ॥
मूलम्
ततः सा दण्डवद्भूमौ प्रणनामाथ तं द्विजम्
उवाच च तदा वाक्यं हर्षगद्गदभाषिणी ॥ ८ ॥
विश्वास-प्रस्तुतिः
कलहोवाच
त्वत्प्रसादाद्दिवजश्रेष्ठ विमुक्ता निरयादहम्
पापाब्धौ मञ्जमानायास्त्वं नो भूतोऽसि मे ध्रुवम् ॥ ९ ॥
मूलम्
कलहोवाच
त्वत्प्रसादाद्दिवजश्रेष्ठ विमुक्ता निरयादहम्
पापाब्धौ मञ्जमानायास्त्वं नो भूतोऽसि मे ध्रुवम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
नारद उवाच
इत्थं सा वदती विप्रं ददर्शायातमम्बरात्
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः ॥ १० ॥

अथ सा तद्विमानाग्र्यद्वास्थाभ्यामधिरोहिता
पुण्यशीलसुशीलाभ्यामप्सरोगणसेवितम् ॥ ११ ॥

तद्विमानं तदापश्यद्धर्मदत्तः सविस्मयः
पपात दण्डवद्भूमौ दृष्ट्वा तौ पुण्यरूपिणौ ॥ १२ ॥

पुण्यशीलसुशीलौ तमुत्थाप्य प्रणतं द्विजम्
अभ्यनन्दयतां वाक्यमूचतुर्द्धर्मशालिनौ ॥ १३ ॥

गणा ऊचतुः
साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा
दीनानुकम्पी धर्मज्ञो विष्णुव्रतपरायणः ॥ १४ ॥

आजन्मसच्छुभं ह्येतद्यत्त्वया कार्त्तिकव्रतम्
कृतं तस्यार्द्धदानेन यदस्याः पूर्वसञ्चितम् ॥ १५ ॥

जन्मान्तरशतोद्भूतं पापं तद्विलयं गतम्
हरिजागरणाद्यैश्च विमानमिदमागमत् ॥ १६ ॥
मूलम्
जन्मान्तरशतोद्भूतं पापं तद्विलयं गतम्
हरिजागरणाद्यैश्च विमानमिदमागमत् ॥ १६ ॥
विश्वास-प्रस्तुतिः
वैकुण्ठभवनं विष्णोः सान्निध्यं च स्वरूपता
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः ॥ १७ ॥

यैर्भक्त्याराधितो विष्णुर्धर्मदत्तत्वया यथा
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् ॥ १८ ॥

औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा
यन्नामस्मरणादेव देहिनो यान्ति सद्गतिम् ॥ १९ ॥

ग्राहगृहीतो नागेन्द्रो यन्नामस्मरणात्पुरा
विमुक्तः सन्निधिं प्राप्तो जातो यो जयसञ्ज्ञकः ॥ २० ॥

अतस्त्वयार्चितो विष्णुः स्वसान्निध्यं प्रदास्यति
बहून्यब्दसहस्राणि भार्याद्वययुतस्य ते ॥ २१ ॥

ततः पुण्यक्षये जाते यदा यास्यसि भूतले
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि ॥ २२ ॥

नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः
तृतीयं यानया चापि याते पुण्यार्द्धभागिनी ॥ २३ ॥

तत्रापि तव सान्निध्यं विष्णुर्यास्यति भूतले
आत्मानं तव पुत्रत्वे प्रकल्प्यामरकार्यकृत् ॥ २४ ॥

तवाजन्मव्रतादस्माद्विष्णुसन्तुष्टिकारकात्
न यज्ञा न च दानानि न तीर्थान्यधिकानि ते ॥ २५ ॥

धन्योऽसि विप्रप्रयतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
यदर्धभागाच्च फलान्मुरारेः प्रणीयतेस्माभिरियं सलोकताम् ॥ २६ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानोनाम सप्ताधिकशततमोऽध्यायः १०७