पृथुरुवाच
विश्वास-प्रस्तुतिः
सेतिहासमिमं ब्रह्मन्माहात्म्यं कथितं त्वया
अत्याश्चर्यकरं सम्यक्तुलस्यास्तु श्रुतं महत् ॥ १ ॥
मूलम्

यदूर्जव्रतिनः पुंसः फलं महदुदाहृतम्
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं कथम् ॥ २ ॥

नारद उवाच
आसीत्सह्याद्रिविषये करवीरपुरे पुरा
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तोऽतिविश्रुतः ॥ ३ ॥

विष्णुव्रतकरः शश्वद्विष्णुपूजारतः सदा
द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः ॥ ४ ॥

कदाचित्कार्तिके मासि हरिजागरणाय सः
रात्र्या तुर्यांशशेषायां जगाम हरिमन्दिरम् ॥ ५ ॥

हरिपूजोपकरणान्प्रगृह्य व्रजता तदा
तेन दृष्टा समायाता राक्षसी भीमनिःस्वना ॥ ६ ॥

वक्रदंष्ट्रानना जिह्वा निमग्ना रक्तलोचना
दिगम्बरा शुष्कमांसा लम्बोष्ठी घर्घरस्वना ॥ ७ ॥

तां दृष्ट्वा भयवित्रस्तः कम्पितावयवस्तदा
पूजोपकरणैर्वेगात्पयोभिश्चाहनद्भयात् ॥ ८ ॥

संस्मृत्य च हरेर्नाम तुलसीयुतवारिणा
सा हता पातकं तस्मात्तस्याः सर्वमगात्क्षयम् ॥ ९ ॥

अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजम्
स्वां दशामब्रवीत्सर्वां दण्डवत्तं प्रणम्य सा ॥ १० ॥

कलहोवाच
पूर्वकर्मविपाकेन दशामेतां गता ह्यहम्
तत्कथं तु पुनर्विप्र याम्युत्तमगतिं शुभाम् ॥ ११ ॥

तां दृष्ट्वा प्रणतामग्रे वदमानां स्वकर्म तत्
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत् ॥ १२ ॥

धर्मदत्त उवाच
केन कर्मविपाकेन त्वं दशामीदृशीं गता
कुतस्त्वं का च किं शीला तत्सर्वं कथयस्व मे ॥ १३ ॥

सौराष्ट्रनगरे ब्रह्मन्भिक्षुनामाभवद्द्विजः
तस्याऽहं गृहिणी पूर्वं कलहाख्याति निष्ठुरा ॥ १४ ॥

न कदाचिन्मया भर्तुर्वचसापि शुभं कृतम्
नार्पितं तस्य मिष्टान्नं भर्तुर्वचनभङ्गया ॥ १५ ॥

कलहप्रियया नित्यं भयोद्विग्नस्तदा द्विजः
परिणेतुं तदाऽन्या स मतिं चक्रे पतिर्मम ॥ १६ ॥

ततो गरं समादाय प्राणास्त्यक्ता मया द्विज
अथ बध्वा बध्यमानां मां विनिन्युर्यमानुगाः ॥ १७ ॥

यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत
यम उवाच
अनया किं कृतं कर्म चित्रगुप्त विलोकय ॥ १८ ॥

प्राप्नोत्वेषा कर्मफलं शुभं वाशुभमेव च
चित्रगुप्तस्ततो वाक्यं भर्त्सयन्समुवाच ह ॥ १९ ॥

चित्रगुप्त उवाच
अनया तु शुभं कर्म कृतं किञ्चिन्न विद्यते
मिष्टान्नं भुक्तमनया न भर्तरि तदर्पितम् ॥ २० ॥

अतश्च वल्गुली योन्यां स्वविष्ठादावतिष्ठतु
भर्तुर्द्वेषकरी त्वेषा नित्यं कलहकारिणी ॥ २१ ॥

विष्ठादा शूकरी योन्यां ततस्तिष्ठत्वियं हरे
पाकभाण्डे सदा भुक्तं नित्यं चैवानया यतः ॥ २२ ॥

तस्माद्दोषाद्बिडाली तु स्वजातापत्यभक्षिणी
भर्तारमनयोद्दिश्य ह्यात्मघातः कृतो यतः ॥ २३ ॥

तस्मात्प्रेतपिशाचेषु तिष्ठत्वेषातिनिन्दिता
ततश्चैव मरुं देशं प्रापितव्या भटैः सह ॥ २४ ॥

तत्र प्रेतशरीराख्या चिरं तिष्ठत्वियं ततः
इत्थं योनित्रयं त्वेषा भुनक्त्वा शुभकारिणी ॥ २५ ॥

कलहोवाच-
साहं पञ्चशताब्दानि प्रेतदेहे स्थिता किल
क्षुतृड्भ्यां पीडिता नित्यं दुःखिता स्वेन कर्मणा ॥ २६ ॥

ततः क्षुत्पीडिता नित्यं शरीरं वणिजस्त्वहम्
आयाता दक्षिणं देशं कृष्णावेण्यास्तु सङ्गमे ॥ २७ ॥

तत्तीरसंश्रिता यावत्तावत्तस्य शरीरतः
शिवविष्णुगणैर्दूरमपाकृष्टा बलादहम् ॥ २८ ॥

ततः क्षुत्क्षामया दृष्टो भ्रमन्त्या त्वं मया द्विज
प्रक्षिप्ततुलसीवारिसंसर्गगतपापया ॥ २९ ॥

तत्कृपां कुरु विप्रेन्द्र कथं मुक्तिमियाम्यहम्
योनित्रयादति भयादस्माच्च प्रेतदेहतः ॥ ३० ॥

इत्थं निशम्य कलहा वचनं द्विजश्च तत्कर्मपाकभवविस्मयदुःखयुक्तः
तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिर्ध्यात्वा चिरं स वचनं निजगाद दुःखात् ॥ ३१ ॥

इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे कार्तिकमाहात्म्ये कलहोपाख्यानन्नाम षडधिकशततमोऽध्यायः १०६